२. अभिधम्मभाजनीयवण्णना
४४४. साधिपतिवारानि अट्ठसतानि, तेसु पच्चेकं चत्तारो इद्धिपादा न सम्भवन्तीति आह ‘‘साधिपतिवारानं परिपुण्णानं अभावा’’ति. तत्थ कारणमाह ‘‘न हि अधिपतीनं अधिपतयो विज्जन्ती’’ति. यदि हि अधिपती सियुं साधिपतीति इद्धिपादभेदेन द्वत्तिंस नयसतानि, सुद्धिकानि अट्ठाति चत्तारि नयसहस्सानि भवेय्युं, तं पन नत्थीति अधिप्पायो. यत्तका पन नया इध लब्भन्ति, तं दस्सेतुं ‘‘एकेकस्मिं पना’’तिआदि वुत्तं. सुद्धिकानि अट्ठ नयसतानि साधिपतिकानिपि अट्ठेवाति चतुन्नं मग्गानं वसेन सोळस नयसतानि.
अभिधम्मभाजनीयवण्णना निट्ठिता.