१. सुत्तन्तभाजनीयवण्णना

१५४. असाधारणतोति आवेणिकतो. तं नेसं असाधारणभावं विपक्खवसेन पतिट्ठापेतुं साधारणं उदाहरणवसेन दस्सेति ‘‘आयतनसद्दत्थो विया’’ति. अथ वा चक्खादिअत्थो एव चक्खादिसद्दविसेसितो आयतनत्थोति तं तादिसं आयतनत्थं सन्धायाह ‘‘आयतनसद्दत्थो विय असाधारणतो’’ति.

यदि विसयस्सादनत्थो चक्खु-सद्दो, सोतादीनम्पि अयं समञ्ञा सियाति अतिप्पसङ्गं परिहरन्तो ‘‘सतिपी’’तिआदिमाह. दुतिये अत्थविकप्पे चक्खतीति विञ्ञाणाधिट्ठितं समविसमं आचिक्खति, आचिक्खन्तं विय, विभावेन्तं विय वा होतीति अत्थो. रूपमिव चक्खुविञ्ञेय्यं विय सविग्गहमिव सबिम्बकं विय वण्णवाचको रूप-सद्दो अधिप्पेतोति आह ‘‘वित्थारणं वा रूपसद्दस्स अत्थो’’ति.

वचनमेवाति सविञ्ञत्तिकसद्दमेव. गमीयतीति उपनीयति. अज्झोहरणस्स रसग्गहणमूलतावचनेन रसस्स परम्पराय जीवितहेतुतं दस्सेति. रसनिमित्तञ्हि रसग्गहणं, रसग्गहणनिमित्तं अज्झोहरणं, तंनिमित्तं जीवितन्ति. रसग्गहणमूलता च अज्झोहरणस्स येभुय्यतो वेदितब्बा. दिस्सति अपदिस्सति एतेन फलन्ति देसो, हेतूति आह ‘‘उप्पत्तिदेसोति उप्पत्तिकारण’’न्ति. तथाति चक्खायतनादिप्पकारेन. मनोगोचरभूताति मनसो एव गोचरभूता. सामञ्ञलक्खणेनेवाति अनुभवनादिविसेसलक्खणं अग्गहेत्वा धम्मभावसङ्खातसाधारणलक्खणेनेव. एकायतनत्तं उपनेत्वा वुत्ता द्वादस एकसभावत्ता भिन्दित्वा वचने पयोजनाभावा. द्वारालम्बनविभागदस्सनत्था हि आयतनदेसनाति.

पुब्बन्ततोति पुरिमभागतो पाकभावतो. पाकभावो हि सभावधम्मानं पुब्बन्तो, विद्धंसाभावो अपरन्तो.

निवासट्ठानादीसु आयतन-सद्दो न आयतनत्थादीसु विय पदत्थविवरणमुखेन पवत्तो, अथ खो तस्मिं तस्मिं देवघरादिके निरुळ्हताय एवमत्थोति आह ‘‘रुळ्हिवसेन आयतनसद्दस्सत्थं वत्तु’’न्ति. मनोति द्वारभूतमनो. निस्सयभावोति एत्थ निस्सयसदिसो निस्सयो, सदिसता च फलस्स तप्पटिबद्धवुत्तिताय दट्ठब्बा. वचनीयत्थो भावत्थो.

तावत्वतोति तत्तकतो. ऊनचोदनाति द्वादसतो ऊनानि कस्मा न वुत्तानीति चोदना. यदि चक्खुविञ्ञाणादीनं असाधारणं धम्मजातं धम्मायतनं, एवं सन्ते चक्खादीनम्पि धम्मायतनभावो सियाति चोदनं सन्धायाह ‘‘सतिपी’’तिआदि. द्वारारम्मणभावेहीति न आरम्मणभावेनेव असाधारणं, अथ खो द्वारारम्मणभावेहि असाधारणं सम्भवतीति वचनसेसो.

येभुय्यसहुप्पत्तिआदीहीति येभुय्येन चक्खायतनादीनि कस्सचि कदाचि एकतो उप्पज्जन्ति. ‘‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि उप्पज्जन्ती’’ति हि वुत्तं. तस्मा आयतनानं उप्पत्तिक्कमो ताव न युज्जति, न पहानक्कमो कुसलाब्याकतानं अप्पहातब्बतो, न पटिपत्तिक्कमो अकुसलानं, एकच्चअब्याकतानञ्च अप्पटिपज्जनीयतो, न भूमिक्कमो अड्ढेकादसन्नं आयतनानं एकन्तकामावचरत्ता, इतरेसं चतुभूमिपरियापन्नत्ता, एकच्चस्स लोकुत्तरभावतो च. एवं उप्पत्तिक्कमादिअयुत्तियोजना वेदितब्बा. येसु विज्जमानेसु अत्तभावस्स पञ्ञापना, ते ‘‘मय्हं चक्खु’’न्तिआदिना अधिकसिनेहवत्थुभूता चक्खादयो यथा अज्झत्तिकताय, एवं दस्सनादिकिच्चकरइन्द्रियता च पधानाति आह ‘‘अज्झत्तिकभावेन, विसयिभावेन चा’’ति. घानादिक्कमेनाति घानं जिव्हा कायोति इमिना कमेन.

पच्चुप्पन्नारम्मणत्ता वा चक्खादीनि पठमं वुत्तानि, मनो पन किञ्चि पच्चुप्पन्नारम्मणं, किञ्चि यावनवत्तब्बारम्मणन्ति पच्छा वुत्तं. पच्चुप्पन्नारम्मणेसुपि उपादारूपारम्मणानि चत्तारि पठमं वुत्तानि, ततो भूतरूपारम्मणं. उपादारूपारम्मणेसुपि दूरतरे दूरे, सीघतरं सीघञ्च आरम्मणसम्पटिच्छनदीपनत्थं चक्खादीनं देसनाक्कमो. चक्खुसोतद्वयञ्हि दूरगोचरन्ति पठमं वुत्तं. तत्रापि चक्खु दूरतरगोचरन्ति सब्बपठमं वुत्तं. पस्सन्तोपि हि दूरतरे नदिसोतं न तस्स सद्दं सुणाति. घानजिव्हासुपि घानं सीघतरवुत्तीति पठमं वुत्तं. पुरतो ठपितमत्तस्स हि भोजनस्स गन्धो गय्हतीति. यथाठानं वा तेसं देसनाक्कमो. इमस्मिञ्हि सरीरे सब्बुपरि चक्खुस्स अधिट्ठानं, तस्स अधो सोतस्स, तस्स अधो घानस्स, तस्स अधो जिव्हाय, तथा कायस्स येभुय्येन, मनो पन अरूपीभावतो सब्बपच्छा वुत्तो. तंतंगोचरत्ता तस्स तस्सानन्तरं बाहिरायतनानि वुत्तानीति वुत्तोवायमत्थोति एवम्पि इमेसं कमो वेदितब्बो.

ततोति हदयवत्थुभेदतो. यञ्हि हदयवत्थुं निस्साय एकं मनोविञ्ञाणं पवत्तति, न तदेव निस्साय अञ्ञं पवत्तति. निद्देसवसेनाति सङ्खेपवित्थारनिद्देसवसेन. योजेतब्बं ‘‘कुसलसमुट्ठानं कुसलसमुट्ठानस्स सभाग’’न्तिआदिना.

सभावोति विसयिविसयभावो, तदभिनिब्बत्तियञ्च योग्यता. कारणसमत्थताति कारणभूता समत्थता पच्चयभावो. द्वारादिभावोति द्वारारम्मणे द्वारवुत्तिभावो. इमस्मिं अत्थेति अनन्तरं वुत्तअत्थे. यस्माति याय धम्मताय येन द्वारादिभावेन कारणभूतेन. सम्भवनविसेसनन्ति किरियाय परामसनमाह. यं सम्भवनं, धम्मतावेसाति अत्थो. रित्तकानेवाति धुवादिभावरित्तकानेव. विसमादीसु अज्झासयो एतेसन्ति विसमादिअज्झासयानि, विसमादिअज्झासयानि विय होन्तीति विसमादिअज्झासयानि, चक्खादीनि. विसमभाव…पे… वनभावेहीति विसमभावादिसन्निस्सितअहिआदिसदिसुपादिन्नधम्मेहि चक्खादीहि, वनसन्निस्सितमक्कटसदिसेन चित्तेन च अभिरमितत्ता. वनभावोति हि वनज्झासयोति अत्थो.

पुरिमन्तविवित्तताति पुब्बभागविरहो. उप्पादतो पुरिमकोट्ठासो हि इध पुरिमन्तो. अपरन्तेति अपरभागे, भङ्गतो उद्धन्ति अत्थो. उदयब्बयपरिच्छिन्नो हि सभावधम्मो. यं सन्धाय वुत्तं ‘‘अनिधानगता भग्गा, पुञ्जो नत्थि अनागते’’ति (महानि. १०). सदा अभावोति न सदा अभावपतिट्ठापनं सब्बकालम्पि नत्थीति, अथ खो उदयब्बयपरिच्छिन्नत्ता सदाभावपटिक्खेपोति आह ‘‘अनिच्चलक्खण’’न्ति. सभावविजहनन्ति भङ्गप्पत्तिमाह. विपरिवत्तनं उप्पादजरावत्थाहि सन्तानं विना न विकारापत्तीति आह ‘‘सन्तानविकारापत्ति वा’’ति.

जातिधम्मतादीहीति जातिजराब्याधिमरणादिसभावताहि. अनिट्ठताति न इट्ठता, दुक्खताति अत्थो. पुरिमं सामञ्ञलक्खणन्ति ‘‘पटिपीळनट्ठेना’’ति पुब्बे सामञ्ञतो वुत्तं दुक्खलक्खणं. पच्चयवसेन दुक्खनाकारेन पवत्तमानानं सभावधम्मानं दुक्खनं पुग्गलस्सेव वसेन दुक्खमताति आह ‘‘पुग्गलस्स पीळनतो दुक्खम’’न्ति. दुक्खवचनन्ति ‘‘दुक्ख’’न्ति सत्थु वचनं.

‘‘नत्थि एतस्स वसवत्तको’’ति इमिना नत्थि एतस्स अत्ताति अनत्ताति इममत्थं दस्सेति, ‘‘नापि इदं वसवत्तक’’न्ति इमिना पन न अत्ताति अनत्ताति. अत्तनोति नियकज्झत्तं सन्धाय वदति. परस्मिन्ति ततो अञ्ञस्मिं. परस्स च अत्तनीति एत्थापि एसेव नयो. तं एतस्स नत्थीति तं यथावुत्तपरपरिकप्पितं वसवत्तकं एतस्स चक्खादिनो नत्थि, एतेन चतुकोटिकसुञ्ञताय सङ्गहो दट्ठब्बो. ‘‘सुञ्ञं तं तेन वसवत्तनाकारेना’’ति इमिना उभयथापि अवसवत्तनट्ठे दस्सितब्बे तत्थ ताव एकं दस्सेतुं ‘‘परस्सा’’तिआदिं वत्वा पुन ‘‘अथ वा’’तिआदिना इतरं दस्सेति. सामि एव सामिको, न सामिको अस्सामिकोति एवं अत्थे गय्हमाने ‘‘अस्सामिकतो’’ति पदस्स सुञ्ञविसेसनताय पयोजनं नत्थि. कामकारियन्ति यथाकामकरणीयं. अवसवत्तनत्थं विसेसेत्वा दस्सेति समासद्वयत्थसङ्गहतो.

ससन्ताने धम्मानं विसदिसुप्पत्ति इध भावसङ्कन्तिगमनं नामाति आह ‘‘सन्ततियं भावन्तरुप्पत्तियेवा’’ति. तथा विसदिसुप्पत्तियं पुरिमाकारविगमो पकतिभावविजहनन्ति आह ‘‘सन्ततिया यथापवत्ताकारविजहन’’न्ति. भवतीति वा भावो, अवत्थाविसेसो, तस्स सङ्कमनं भावसङ्कन्ति. सभावधम्मो हि उप्पादक्खणं ठितिक्खणञ्च पत्वा भिज्जतीति उप्पादावत्थाय जरावत्थं, ततो भङ्गावत्थं सङ्कमतीति वुच्चति. तथा सङ्कमतो च अत्तलाभक्खणतो उद्धं जरामरणेहि तंसभावपरिच्चागो पकतिभावविजहनन्ति खणवसेन चेतं योजेतब्बं. पुब्बापरवसेनाति च खणानं पुब्बापरवसेनाति अत्थो सम्भवति. एकत्थत्ताति समानाधिकरणत्ता, न पन विसेसनविसेसितब्बभावानं एकत्ता. ‘‘चक्खुं अनिच्च’’न्ति वुत्ते ‘‘अनिच्चं चक्खु’’न्तिपि वुत्तमेव होतीति ‘‘यं चक्खु, तं अनिच्चं, यं अनिच्चं, तं चक्खु’’न्ति आपन्नमेवाति आह ‘‘अनिच्चानं सेसधम्मानम्पि चक्खुभावो आपज्जती’’ति.

तेहि च अनिच्चदुक्खलक्खणेहि च अनत्तलक्खणमेव विसेसेन दस्सितं ‘‘यदनिच्चं, तं दुक्खं, यं दुक्खं, तदनत्ता’’तिआदीसु (सं. नि. ३.१५, ४५, ७६, ८५; २.४.१, २; पटि. म. २.१०) विय. दोसलक्खणाकारनिदस्सनत्थोति दोसस्स लक्खितब्बाकारनिदस्सनत्थो. एवं दुक्खेनाति एवं नानप्पकारेन अक्खिरोगादिदुक्खेन आबाधताय. अनत्तलक्खणदीपकानन्ति अनत्ततापञ्ञापनस्स जोतकानं उपायभूतानं. न हि घटभेदकण्टकवेधादिवसेन लब्भमाना अनिच्चदुक्खता सत्तानं एकन्ततो अनत्तताधिगमहेतू होन्ति. पच्चयपटिबद्धताअभिण्हसम्पटिपीळनादिवसेन पन लब्भमाना होन्ति. तथा हि चक्खादीनि कम्मादिमहाभूतादिपच्चयपटिबद्धवुत्तीनि, ततो एव अहुत्वा सम्भवन्ति, हुत्वा पटिवेन्तीति अनिच्चानि, अभिण्हसम्पटिपीळितत्ता दुक्खानि, एवंभूतानि च अवसवत्तनतो अनत्तकानीति परिग्गहे ठितेहि समुपचितञाणसम्भारेहि पस्सितुं सक्का.

कथं पनेतेसं हुत्वा अभावो जानितब्बोति? खणे खणे अञ्ञथत्तदस्सनतो. तं कथं ञायतीति? युत्तितो. का पनेत्थ युत्तीति? विसेसग्गहणं. यदि चक्खादीनं खणे खणे अञ्ञथत्तं न सिया, बहिपच्चयभेदे यदिदं पच्छा विसेसग्गहणं, तं न सिया. यस्स हि तादिसं खणे खणे अञ्ञथत्तं नत्थि, तस्स असति बहिपच्चयविसेसे कथं पच्छा विसेसग्गहणं भवेय्य, भवति च विसेसग्गहणं. तस्मा अत्थि नेसं खणे खणे अञ्ञथत्तं यं सणिकं सणिकं वड्ढेन्तं पच्छा पाकटतरं जायतीति. तथा हि सरीरस्स ताव आनापानानं अनवत्थानतो परिस्समतो च विसेसग्गहणं. अनवत्थिता हि अस्सासपस्सासा वाता वारेन वारेन पवत्तनतो. यदि हि अस्ससिते वा पस्सस्सिते वा सरीरस्स कोचि पच्छा विसेसो न सिया, न नेसं कोचि भेदो सिया, दिट्ठो च सो. तस्मा अस्ससितं सरीरं अञ्ञथा होन्तं कमेन तादिसं अवत्थं पापुणाति. या पस्सासस्स पच्चयो होति, पस्ससिते च पुन तथेव अस्सासस्स पच्चयो होतीति आनापानानं अनवत्थानतोपि सरीरस्स विसेसग्गहणं अञ्ञथत्तसिद्धि. तथा परिस्समोपि असति विसेसे पच्छा सरीरस्स न सिया, येनायं इरियापथन्तरादीनि सेवनेन परिस्समविनोदनं करोति.

अथ वा रूपादिभेदतोपि विसेसग्गहणं. रूपगन्धरसफस्सादीनञ्हि विसेसेन यो सरीरे अनिन्द्रियबद्धेसु च खीरूदकवत्थपुप्फफलोसधिधञ्ञादीनं पच्छा विसेसो गय्हति, सो असति बहिपच्चयविसेसे नेसं जरादिअवत्थासु वण्णबलादिभेदो, रसवीरियविपाकानुभावभेदो च खणे खणे अञ्ञथत्तं विना कथमुपलब्भेय्य. यं पन तं धम्मतारूपं सिलादि, तत्थ कथन्ति? तस्सापि सीतुण्हसम्फस्सभेदतो अत्थेव विसेसग्गहणं. तं खणे खणे अञ्ञथत्तं विना न युज्जतीति. सति च रूपादिभेदे सिद्धोव तंनिस्सयमहाभूतभेदोपि. न हि निस्सयमहाभूतभेदेन विना निस्सितभेदो सम्भवतीति. एवं ताव रूपधम्मानं विसेसग्गहणतो खणे खणे अञ्ञथत्तं, ततो च हुत्वा अभावसिद्धि.

अरूपधम्मानं पन आरम्मणादिभेदेन विसेसग्गहणं. यत्थ यत्थ हि आरम्मणे अरूपधम्मा उप्पज्जन्ति, तत्थ तत्थेव ते भिज्जन्ति, न अञ्ञं सङ्कमन्ति, आरम्मणधम्मा च यथासकं खणतो उद्धं न तिट्ठन्तीति. स्वायमत्थो पदीपादिउदाहरणेन वेदितब्बो. अञ्ञे एव हि खणे खणे रूपादयो पदीपजालाय, तथा खीरधारादीसु पतन्तीसु, वायुम्हि च पहरन्ते सम्फस्सानि. यथा चेतेसं खणे खणे अञ्ञथत्तं, किमङ्गं पन चित्तचेतसिकानं. किञ्च सद्दभेदतो, सद्दविसेसतोपि तन्निमित्तानं चित्तचेतसिकानं खणे खणे अञ्ञथत्तं, ततो विसेसग्गहणं. पगुणञ्हि गन्थं सीघं परिवत्तेन्तस्स चित्तसमुट्ठानानं सद्दानं भेदो दिट्ठो. न हि कारणभेदेन विना फलभेदो अत्थि. यथा तं वादितसद्दानं, एवं आरम्मणभेदेन अरूपधम्मानं विसेसग्गहणं. तेनेव नेसं खणे खणे अञ्ञथत्तं वेदितब्बं. जातिभूमिसम्पयुत्तधम्मभेदेन विसेसग्गहणेपि एसेव नयो. एवं रूपारूपधम्मानं विसेसग्गहणतो खणे खणे अञ्ञथत्तसिद्धि. यतो हुत्वा अभावतो चक्खादीनि अनिच्चानीति सिद्धानि, अनिच्चत्ता एव अभिण्हसम्पटिपीळनतो दुक्खानि, ततो च अवसवत्तनतो अनत्तकानि. तेनाह भगवा ‘‘यदनिच्चं, तं दुक्खं, यं दुक्खं, तदनत्ता’’ति (सं. नि. ३.१५, ४५, ७६, ८५; २.४.१, २; पटि. म. २.१०).

निरन्तरं पवत्तमानस्साति अभिण्हसद्दत्थं विसेसेत्वा वदति. धातुमत्ततायाति धातुमत्तभावेन. समूहतोति ससम्भारचक्खादिपिण्डतो. ‘‘चक्खादीन’’न्ति इदं ‘‘समूहतो’’ति पदं अपेक्खित्वा सम्बन्धे सामिवचनं, ‘‘विनिब्भुजन’’न्ति पदं अपेक्खित्वा कम्मत्थेति वेदितब्बं. चत्तारिपि घनानीति सन्ततिसमूहकिच्चारम्मणघनानि. पवत्तरूपादिग्गहणतोति रुप्पनादिवसेन पवत्तञ्च तं रूपादिग्गहणञ्चाति पवत्तरूपादिग्गहणं, ततोति योजेतब्बं. अनिच्चादिग्गहणस्स सब्भावाति रूपवेदनादिञाणतो भिन्नस्स अनिच्चादिञाणस्स लब्भमानत्ता. तेन सतिपि रूपादिअत्थानं अनिच्चादिभावे रुप्पनादिभावतो अनिच्चादिभावस्स भेदमाह. इदानि तमेव भेदं ञाततीरणपरिञ्ञाविसयताय पाकटं कातुं ‘‘न ही’’तिआदिमाह. नातिधावितुन्ति इध लक्खणलक्खणवन्ता भिन्ना वुत्ता. तत्थ लक्खणारम्मणिकविपस्सनाय खन्धारम्मणतावचनेन अभिन्नाति अञ्ञमञ्ञविरोधापादनेन अतिधावितुं न युत्तं. कस्माति चे? वुत्तं ‘‘ते पनाकारा’’तिआदि. अधिप्पायोपि चेत्थ लक्खणानं रूपादिआकारमत्तताविभावनन्ति दट्ठब्बो. ‘‘अनिच्चं दुक्खं अनत्ता’’ति हि सङ्खारे सभावतो सल्लक्खेन्तोयेव लक्खणानि च सल्लक्खेतीति. यथा अनिच्चादितो अनिच्चतादीनं वुत्तनयेन भेदो, एवं अनिच्चतादीनम्पि सतिपि लक्खणभावसामञ्ञे नानाञाणगोचरताय, नानापटिपक्खताय, नानिन्द्रियाधिकताय च विमोक्खमुखत्तयभूतानं अञ्ञमञ्ञभेदोति दस्सेन्तो ‘‘अनिच्चन्ति च गण्हन्तो’’तिआदिमाह. तं सुविञ्ञेय्यमेव.

सुत्तन्तभाजनीयवण्णना निट्ठिता.