१. सब्बसङ्गाहिकवारवण्णना
९७८. धातुसम्भव…पे… सङ्गहितत्ताति एत्थ खन्धादीनं कामधातुआदिधातूसु सम्भवभेदभिन्नानं निरवसेसतो सङ्गहितत्ताति विभागेन योजना, तथा सेसेसुपि परियापन्नपभेदभिन्नानन्तिआदिना. तत्थ ‘‘निरवसेसतो सङ्गहितत्ता’’ति इमिना ‘‘सब्बसङ्गाहिकवारो’’ति अयमस्स अत्थानुगता समञ्ञाति दस्सेति. यस्मा चेत्थ खन्धादीनं द्वादसन्नं कोट्ठासानं अनवसेससङ्गहो, तस्मा एवं दुतियवारादीनञ्चेत्थ अनुप्पवेसो वेदितब्बो. खन्धादीनमेव हि तेसं सम्भवादिविचारो उप्पत्तानुप्पत्तिदस्सनवारोति वत्तुं युत्तोति योजना. अनुप्पत्तिदस्सनञ्चेत्थ अत्थापत्तिसिद्धं वेदितब्बं. न हि तत्थ ‘‘कति खन्धा न पातुभवन्ती’’तिआदिपाळि अत्थि.
९७९. पुच्छानुरूपन्ति येनाधिप्पायेन पुच्छा कता, तदनुरूपं. अवितथब्याकरणं नाम बुद्धानं एव आवेणिकं, अञ्ञेसं तं यादिच्छिकं सुतक्खरसदिसन्ति आह ‘‘सब्बञ्ञुवचनं विञ्ञाय कतत्ता’’ति.
सब्बसङ्गाहिकवारवण्णना निट्ठिता.