२. अभिधम्मभाजनीयवण्णना
३४. तं वत्वाति तं भूमिवसेन जानितब्बतं ‘‘सब्बापि चतुभूमिकवेदना’’तिआदिना वत्वा. सम्पयुत्ततो दस्सिततादीति एत्थ आदि-सद्देन हेतुजातिभूमिइन्द्रियवत्थुसम्फस्सजभेदतो दस्सिततं अनवसेसतो सङ्गण्हाति.
यदिपि तं-सद्दो पुब्बे वुत्तस्स सामञ्ञतो पटिनिद्देसो, तथापि अनन्तरमेव पच्चामसितुं युत्तो इतरत्थ असम्भवतोति आह ‘‘अट्ठ…पे… योजना’’ति. ‘‘अट्ठविधत्ताभावतो’’ति इमिना तं असम्भवं दस्सेति.
पूरणत्थमेव वुत्तो, अपुब्बताभावतोति अत्थो.
गहणवड्ढनवसेनाति गहणस्स वड्ढनवसेन. गहणन्ति चेत्थ कथनं दट्ठब्बं, तस्स वड्ढनं तस्मिं तस्मिं ठाने अवुत्तस्स कथनं. तेनाह ‘‘पुब्बे गहिततो अञ्ञस्स गहणं वड्ढन’’न्ति, ततो एव च ‘‘पुरिमगहिते अञ्ञुपचयवसेना’’ति वुत्तं. ‘‘वड्ढनसद्दो छेदनत्थो’’ति इदं यथा असिवा ‘‘सिवा’’ति, दिट्ठञ्च ‘‘अदिट्ठ’’न्ति वुच्चति, एवं दट्ठब्बं. नयनीहरणन्ति नीयतीति नयो, देसना, तस्स नीहरणं पवत्तनं. वड्ढनकनयोति यथावुत्तवड्ढनकवसेन पवत्तो देसनानयो. अञ्ञे भेदाति एकविधचतुब्बिधादयो भेदा. यदि अविसिट्ठा, कस्मा वुत्ताति आह ‘‘तथापी’’तिआदि. तत्थ पञ्ञाप्पभेदजननत्थन्ति धम्मविसयाय पभेदगताय पञ्ञाय विनेय्यानं निब्बत्तनत्थं, विज्जाट्ठानादिवसेन विनेय्यानं धम्मपटिसम्भिदाय उप्पादनत्थन्ति अत्थो. अभिञ्ञेय्यधम्मविभागताय सम्मसनवारस्स विसयभावतो वुत्तं ‘‘एकेकस्स वारस्स गहितस्स निय्यानमुखभावतो’’ति. इतरेपि भेदा वुत्ताति दुविधतिविधभेदानं यं नानत्तं, तस्स वसेन इतरे भेदा अनानत्तापि यथावुत्तकारणतो वुत्ता. ‘‘न केवल’’न्तिआदिना भेदानं अञ्ञमञ्ञपेक्खतं दस्सेत्वा ‘‘तस्मा’’तिआदिना तेसं विसिट्ठतं दस्सेति.
यथा दुकमूलकादीसु भेदा गणनानुपुब्बिया पवत्ता पभेदन्तरापेक्खा, न एवमेते. एते पन सत्तविधादिभेदा पभेदन्तरनिरपेक्खा केवलं बहुविधभावसामञ्ञेनेव वुत्ताति दस्सेति ‘‘अञ्ञप्पभेदनिरपेक्खा’’तिआदिना. दुकतिकपदत्थानं यथारहं अपेक्खितब्बापेक्खकभावेन वुत्तत्ता यथा दुके ठपेत्वा वुत्ता तिका तत्थ पक्खित्ता नाम जाता, एवं तिकदुकपदत्थानं अपेक्खितब्बापेक्खकभावेन वुत्तत्ता दुके वत्वा वुत्तेसुपि तिकेसु ते पक्खित्ता नाम होन्तीति आह ‘‘परतो…पे… योजितत्ता’’ति.
समानवीथियन्ति एकवीथियं. चक्खुसङ्घट्टनायाति चक्खुरूपपटिघातेन. सोति चक्खुरूपपटिघातो. तदुप्पादिकाति तस्स चक्खुसम्फस्सस्स उप्पादिका. साति आवज्जनवेदना. ननु च वेदनापच्चयो फस्सो वुत्तो, न फस्सपच्चया वेदनाति? न, वेदनासीसेन चित्तुप्पादस्स गहितत्ताति. तप्पयोजनत्ताति चक्खुसम्फस्सपयोजनत्ता. पयोजयतीति पयोजनं, फलं.
रूपावचरारूपावचरानं विपाकानन्ति अधिप्पायो. ते हि इध अग्गहिता. तेनेवाह ‘‘तेसं सयमेव मनोद्वारभूतत्ता’’तिआदि. ततोति भवङ्गतो. चक्खुसम्फस्सपच्चयादिकुसलादीनन्ति एत्थ पुरिमेन आदि-सद्देन ‘‘सोतसम्फस्सपच्चया’’ति एवमादयो सङ्गहिता, दुतियेन अकुसलादयो. ‘‘कामावचरअट्ठकुसलचित्तवसेना’’तिआदिना कुसलाब्याकतानम्पि कामावचरानंयेव योजितत्ता वुत्तं ‘‘समानवीथियं लब्भमानता अट्ठकथायं वुत्ता’’ति. वेदनापीतिसनिदस्सनत्तिकवज्जानं एकूनवीसतिया तिकानं वसेन एकूनवीसतिचतुवीसतिका. यदि असमानवीथियम्पि कुसलादीनं लब्भमानता योजेतब्बा, अथ कस्मा समानवीथियंयेव योजिताति आह ‘‘अट्ठकथायं पना’’तिआदि. तेनेवाति असमानवीथियं अप्पटिक्खित्तत्तायेव.
चित्तसम्बन्धोति चित्तेन सम्बन्धो चित्तसम्बन्धं कत्वा चित्तसीसेन वेदनाय कथनं. तिकभूमिवसेनाति कुसलत्तिकादितिकवसेन, कामावचरादिभूमिवसेन च. द्वारतिकवसेनाति चक्खादिउप्पत्तिद्वारवसेन, कुसलत्तिकादितिकवसेन च. यत्थ कत्थचीति दीपेतब्बस्स अत्थस्स विसेसाभावतो सत्तविधभेदादीसु यत्थ कत्थचि. न च द्वारं अनामट्ठन्ति योजना. तेन सत्तविधभेदतो तिंसविधभेदे विसेसं दस्सेति. यदिपि उभयत्थ भूमियो आगता, रूपावचरादिभूमिआमसनेन पन असमानवीथियं लब्भमानता दस्सिताति आह ‘‘अतिब्यत्ता च एत्थ समानासमानवीथीसु लब्भमानता’’ति. सुखदीपनानि होन्ति द्वारभूमिआमसनमुखेन वेदनाक्खन्धस्स विभत्तत्ता. न भूमियो अपेक्खित्वा ठपिताति कथेतब्बभावेन भूमियो अपेक्खित्वा न ठपिता, भूमिविभागेन न कथिताति अत्थो. अपेक्खितब्बरहिताति द्वारभूमीनं अग्गहितत्ता आकङ्खितब्बद्वारादिविसेसरहिता.
‘‘उपनिस्सयकोटिया’’ति एत्थ निप्परियायतो परियायतो च उपनिस्सयकोटिदस्सनमुखेन इधाधिप्पेतउपनिस्सयकोटिं दस्सेतुं ‘‘सद्धं उपनिस्साया’’तिआदि वुत्तं. तत्थ उपनिस्सयानन्ति वेदनाय उपनिस्सयभूतानं. दस्सनन्ति चक्खुविञ्ञाणं, दिस्वा वा गहणं. उपनिस्सयन्तभावेनाति लामकूपनिस्सयभावेन. यदि घायनादीनि उपनिस्सयो भवेय्युं, पकतूपनिस्सयानेव सियुं. पकतूपनिस्सयो च नानावीथियंयेवाति तदलाभवचनं इध नानावीथिजोतकन्ति दस्सेति ‘‘घानादिद्वारेसू’’तिआदिना. कसिणपरिकम्मादीनन्ति कसिणपरिकम्मसमापत्तिनिब्बत्तनविपस्सनावड्ढनादीनं. तदलाभोति उपनिस्सयालाभो, सो च घायनादीहि परेसं पटिपत्तिया जानितुं असक्कुणेय्यत्ता. अन्तिमभविकबोधिसत्तादीनं सवनेन विना तंफुसनं सिया मूलूपनिस्सयोति ‘‘येभुय्येना’’ति वुत्तं.
सम्पन्नज्झासयोति विवट्टूपनिस्सयसम्पत्तिया सम्पन्नज्झासयो. तेनाति ‘‘एवं चक्खुविञ्ञाण’’न्ति वचनेन. तदुपनिस्सयन्ति ततो परं उप्पन्नकसिणरूपदस्सनादीनं उपनिस्सयभूतं.
थामगमनं नाम कामरागादीनंयेव आवेणिको सभावोति आह ‘‘अप्पहीनकामरागादिकस्स वा’’ति. ‘‘रागो उप्पन्नो’’तिआदिना इट्ठानिट्ठारम्मणे रागपटिघानं उप्पत्तिविचारणाव वुत्ता, न नेसं किच्चविसेसोति किच्चविसेसेन वुत्ते दस्सेन्तो ‘‘असमपेक्खनाया’’तिआदिमाह. पवत्ता वेदनाति अत्थो. पकारन्तरेनाति चक्खुसम्फस्सपच्चया उप्पन्नकिलेसानं समतिक्कमनसङ्खातेन पकारन्तरेन. तथा भावनावसेनाति एत्थ तथा-सद्देन चक्खुसम्फस्सस्स चतुभूमिकवेदनाय उपनिस्सयभावो एव पकारन्तरेन कथितोति इममेवत्थं आकड्ढति. भावनायेवेत्थ पकारन्तरं.
सब्बं सम्मसनं भावनाति वेदितब्बा, न नीवरणप्पहानपरिञ्ञाव.
अञ्ञमञ्ञस्स चाति फोट्ठब्बमहाभूतेसु इतरीतरस्स, आपोधातुया च वसेन.
तेसन्ति जातिआदीनं, कम्मत्थे चेतं सामिवचनं. सहजातस्स मनोसम्फस्सस्स बलवपच्चयभावं दस्सेतीति सम्बन्धो. तस्स वा दस्सनस्साति तस्स वा जातिआदिके भयतो दस्सनवसेन पवत्तस्स कामावचरञाणस्स.
तदेव अत्तनो फलस्सेव फलभावेनाति ‘‘मनोसम्फस्सो’’ति फस्सस्स कारणभावेन यं वुत्तं, तदेव विञ्ञाणं अत्तनो फलस्स फलभावेन वुत्तस्स फस्सस्स ‘‘चक्खुसम्फस्सज’’न्तिआदिना फलभावेन वत्तुं न युत्तं. ‘‘मनोसम्फस्सो’’तिआदिना लब्भमानोपि विञ्ञाणं पटिच्च फस्सस्स पच्चयभावो हेतुफलसङ्करपरिहरणत्थं न वुत्तोति वत्वा यदिपि फस्सो विञ्ञाणस्स पच्चयो होति, न पन फस्सस्स विय विञ्ञाणं सो तस्स विसेसपच्चयो होतीति विञ्ञाणस्स चक्खुसम्फस्सजादिता न वुत्ताति दस्सेतुं ‘‘यस्मा वा’’तिआदि वुत्तं.
अभिधम्मभाजनीयवण्णना निट्ठिता.