१. सब्बसङ्गाहिकवारवण्णना

९७८. ‘‘पञ्चक्खन्धा’’तिआदिना खन्धादीनं धातुसम्भवपरियापन्नपातुभाव भूमन्तरतीसु धातूसुउप्पादकदानादिकुसल कम्मतब्बिपाकअभिञ्ञेय्यादिआरम्मणदुकद्वयदिट्ठादिकुसलत्तिकादितिकपञ्चकरूपलोकियदुकद्वयभेदभिन्नानं निरवसेसतो सङ्गहितत्ता दुतियवारादीनञ्च एत्थ अनुप्पवेसतो सब्बसामञ्ञेन वुत्तो पठमो सब्बसङ्गाहिकवारो नाम, दुतियो उप्पत्तानुप्पत्तिदस्सनवारो नामाति वुत्तं. तत्थ पन ‘‘कामधातुया कति खन्धा कति आयतनानी’’तिआदिना (विभ. ९९१) तेसं अत्थिता एव वुत्ता, किरियाविसेसस्स अप्पयोगो ‘‘अत्थि भवति संविज्जती’’ति सामञ्ञकिरियाय विञ्ञेय्यभावतो, तेनायं ‘‘सम्भवासम्भवदस्सनवारो’’ति वत्तुं युत्तो, चतुत्थो च उपपत्तिक्खणे उप्पत्तानुप्पत्तिदस्सनवारोति तत्थ पातुभावापातुभाववचनतो.

९७९. यथापुच्छन्ति पुच्छानुरूपं अवितथब्याकरणं परेहि कतम्पि सब्बञ्ञुवचनं विञ्ञाय कतत्ता सब्बञ्ञुब्याकरणमेव नाम होति, को पन वादो सब्बञ्ञुना एव कतेति अधिप्पायो.