२. उप्पत्तानुप्पत्तिवारवण्णना

९९१. कामधातुसम्भूतानञ्चाति इद्धिया रूपधातुगतानं कामावचरसत्तानञ्चाति अत्थो. घानायतनादीनं अभावेनाति एत्थ यदि तदभावेन गन्धायतनादीनि आयतनादिकिच्चं न करोन्ति, असञ्ञसत्तेसु चक्खायतनस्स अभावेन रूपायतनं आयतनादिकिच्चं न करेय्य. ततो ‘‘असञ्ञसत्तानं देवानं उपपत्तिक्खणे द्वायतनानि पातुभवन्ती’’तिआदिवचनं न वत्तब्बं सिया. कामावचरादिओकासा तत्थ उप्पज्जमानसत्तानं, तत्थ परियापन्नधम्मानं वा अधिट्ठानभावेन ‘‘धातू’’ति वुच्चन्ति, तथा येसु कामावचरादिसत्तनिकायेसु कामावचरादिसत्ता उप्पज्जन्ति, तेसं सत्तानं उप्पत्ति एत्थाति सत्तुप्पत्तीति वुच्चमाना ते सत्तनिकाया च, न पनेत्थ अपरियापन्नोकासो अपरियापन्नसत्तनिकायो च अत्थि, यो ‘‘धातू’’ति वुच्चेय्याति इममत्थं दस्सेन्तो ‘‘ओकासवसेन वा सत्तुप्पत्तिवसेन वा अपरियापन्नधातु नाम नत्थी’’ति आह. सत्तुप्पत्तिवसेनाति इमिना वा ओकाससत्तलोकद्वयं सह गहेत्वा तादिसाय अपरियापन्नधातुया अभावं दस्सेति, सत्तभावेन वा उप्पत्ति सत्तुप्पत्ति, सत्तावासवसेन तंतंभववसेन उप्पज्जमाना उपादिन्नकक्खन्धा तंतंपरियापन्नानं सदिसाधिट्ठानभावेन धातूति वुच्चन्तीति एवं अपरियापन्नधातु नत्थीति अत्थो.