(८.) अट्ठकनिद्देसवण्णना
९५२. ‘‘कम्मं खो मे कत्तब्बं भविस्सती’’तिआदिना ओसीदनाकारेन पवत्तचित्तुप्पादा कोसज्जकारणानि, कोसज्जमेव वा कोसज्जन्तरकारणताय कोसज्जकारणानीति दट्ठब्बानि. मासाचितं मञ्ञेति एत्थ आचित-सद्दो तिन्त-सद्दस्स, मञ्ञे-सद्दो च विय-सद्दस्स अत्थं वदतीति अधिप्पायेन ‘‘तिन्तमासो विया’’ति अयमत्थो विभावितो, मासचयो वियाति वा अत्थो.
९५७. फरतीति फुसति, घट्टेतीति अत्थो. अञ्ञेन कारणेनाति ‘‘अज्ज तया विकाले भुत्तं, तेन त्वं आपत्तिं आपन्नोसी’’ति वुत्तो ‘‘हिय्यो मया काले भुत्तं, तेनाहं अनापन्नो’’तिआदिना अञ्ञेन अयुत्तेन कारणेन अञ्ञं युत्तं कारणं पटिच्छादेतीति अत्थो. पुच्छितत्थतो बहिद्धा यथा तं न अल्लीयति, तथा कथाय अपनयनं विक्खिपनं बहिद्धा अपनामना.
९५८. असञ्ञीवादाति पुग्गलेहि दिट्ठियो दस्सेति. येहि वा अभिनिवेसेहि असञ्ञी अत्तानं वदन्ति, ते असञ्ञीवादा. अरूपसमापत्तिनिमित्तन्ति आकासादिं.
अट्ठकनिद्देसवण्णना निट्ठिता.