(५.) पञ्चकनिद्देसवण्णना
९४०. आगन्तुं पन न देन्तीति आगमनस्स पच्चया न होन्तीति अत्थो दट्ठब्बो.
९४१. अवदेहनतोति पूरणेन मंसूपचयहेतुताय च उपचयनतो. गिम्हकाले भुञ्जित्वा सयन्तस्स सुखं होतीति तं उतुसुखं ‘‘सेय्यसुख’’न्ति वुत्तं, सयनिरियापथसुखन्ति अत्थो. वतन्ति धुतङ्गानि. तपोति खन्धकवत्तानि, वीरियं वा. सीलग्गहणेन खन्धकवत्तमेथुनविरतीनं गहितत्ता तपब्रह्मचरियग्गहणं न कत्तब्बन्ति चे? न, अञ्ञसीलतो विसेसेत्वा तपब्रह्मचरियानं देवत्तकारणत्तग्गहणस्स दस्सनतो, बाहिरानञ्चस्स विनिबन्धस्स पवत्तिदस्सनतो वा. तेसञ्हि अविहिंसादिगोवतादिदुक्करकारिकामेथुनविरतियो यथाक्कमं सीलादीनि, तानि च ते देवनिकायं पणिधाय चरन्तीति. अञ्ञथा च सद्धारुचिआदीहि ‘‘यतो खो भो अयं अत्ता रूपी चातुमहाभूतिको मातापेत्तिकसम्भवो कायस्स भेदा उच्छिज्जती’’तिआदिना (दी. नि. १.८५) विकप्पेत्वा.
९४२. ब्यसनेसु ञातिभोगरोगब्यसनग्गहणेन तंनिमित्ता सोकादयो गहिताति दट्ठब्बा. दस्सनसवनेसु पटिकूलता दस्सनसवनपटिकूलता. एत्थ च आदीनवेहि पञ्चहि तेसं कारणभूता अक्खन्तियेव भिन्दित्वा कथिताति वेदितब्बा, अक्खन्तिमूलका वा अप्पियतादिहेतुभूता दुक्कटदुब्भासिततादिदोसा.
मिच्छाजीवनिमित्तं मरणकाले उप्पन्नभयं ‘‘आजीवकभय’’न्ति वुत्तं. ‘‘आजीविकाभय’’न्ति पन पाठे पच्चयानुप्पत्तिं पस्सतो आजीविकनिमित्तो चित्तुत्रासोति अत्थो दट्ठब्बो. कित्तिसद्दो सिलोकन्ति तप्पटिपक्खा असिलोकं अकित्ति. तेनाह ‘‘गरहभय’’न्ति.
९४३. उप्पिलावितन्ति उदग्गतासङ्खातो अवूपसमभावो, अवूपसमहेतुभूतो वा पीतिया आकारो.
पञ्चकनिद्देसवण्णना निट्ठिता.