(६.) छक्कनिद्देसवण्णना
९४४. ‘‘कोधनो होति उपनाही’’तिआदिना कोधादिहेतुका उपनाहादयो कोधादीनं सहायकारणभावेन सुत्तन्ते वुत्ताति कोधादयो एव विवादमूलानि, तेनेत्थ ते एव वुत्ता. सन्दिट्ठिपरामसिता अत्तनो दिट्ठियं अभिनिविट्ठता.
९४५. अप्पतिस्सयोति पतिस्सयभूतेहि गरूहि विरहितो. अप्पमादलक्खणन्ति सतिअविप्पवासं कुसलानुयोगसातच्चं वा.
युत्तपयुत्तताति तन्निन्नतावसेन सुट्ठु युत्तता. गणसङ्गणिका किलेसवसेन पवत्ता सङ्गणिका. इत्थिपटिसंयुत्तकथासवने इत्थिसद्दसवने च अस्सादो सवनसंसग्गो. इत्थिया कस्सचि दानग्गहणस्सादो परिभोगसंसग्गो.
९४६. सोमनस्सेन सद्धिं उपविचरन्तीति सोमनस्सुपविचाराति अकुसलसोमनस्ससहगता रूपविचारादयो इधाधिप्पेताति वेदितब्बा, तथा उपेक्खुपविचारा च. तंसम्पयुत्तो वाति एतेन विचारग्गहणेन वितक्कोपि गहितोति वितक्कप्पवत्तनेन ‘‘उपवितक्केती’’ति इदम्पि वुत्तं होतीति दस्सेति.
९४७. अञ्ञाणसम्पयुत्ताति विचिकिच्छुद्धच्चसहगतचित्तेसु उपेक्खा मोहोति वदन्ति, लोभसम्पयुत्तुपेक्खापि पन गेहस्सिता न न होति.
९४८. अधिच्चसमुप्पन्निको ‘‘अधिच्च समुप्पन्नो अत्ता उप्पन्नो भविस्सती’’ति गण्हन्तो सस्सतदिट्ठिको होतीति एवरूपस्स दिट्ठि वियाति दस्सेन्तो ‘‘अधिच्चसमुप्पन्निकस्सेवा’’ति आह. न सो जातोति एत्थ ‘‘जातू’’ति अयं निपातो उ-कारस्स ओ-कारं कत्वा जातोति वुत्तो, तेन वा समानत्थं निपातन्तरं एतं दट्ठब्बं. सब्बासवदिट्ठीति सब्बासवपरियायेन आगता दिट्ठि.
छक्कनिद्देसवण्णना निट्ठिता.