२. अभिधम्मभाजनीयवण्णना
३४. एवं या एकविधादिना वुत्तवेदनानं भूमिवसेन जानितब्बता, तं वत्वा पुन सम्पयुत्ततो दस्सिततादिजानितब्बप्पकारं वत्तुमाह ‘‘अपिचा’’तिआदि. अट्ठविधेन तत्थाति तत्थ-सद्दस्स सत्तविधभेदेनेव योजना छब्बिधभेदेन योजनाय सति अट्ठविधत्ताभावतो.
पूरणत्थमेव वुत्तोति दसविधतापूरणत्थमेव वुत्तो, न नवविधभेदे विय नयदानत्थं. कस्मा? तत्थ नयस्स दिन्नत्ता. भिन्दितब्बस्स हि भेदनं नयदानं, तञ्च तत्थ कतन्ति. यथा च कुसलत्तिको, एवं ‘‘कायसम्फस्सजा वेदना अत्थि सुखा, अत्थि दुक्खा’’ति इदम्पि पूरणत्थमेवाति दीपितं होति अट्ठविधभेदे नयस्स दिन्नत्ता.
पुब्बे गहिततो अञ्ञस्स गहणं वड्ढनं गहणवड्ढनवसेन, न पुरिमगहिते ठिते अञ्ञुपचयवसेन. वड्ढन-सद्दो वा छेदनत्थो केसवड्ढनादीसु वियाति पुब्बे गहितस्स अग्गहणं छिन्दनं वड्ढनं, दुकतिकानं उभयेसं वड्ढनं उभयवड्ढनं, उभयतो वा पवत्तं वड्ढनं उभयवड्ढनं, तदेव उभतोवड्ढनकं, तेन नयनीहरणं उभतोवड्ढनकनीहारो. वड्ढनकनयो वा वड्ढनकनीहारो, उभयतो पवत्तो वड्ढनकनीहारो उभतोवड्ढनकनीहारो. तत्थ दुकमूलकतिकमूलकउभतोवड्ढनकेसु दुविधतिविधभेदानंयेव हि विसेसो. अञ्ञे भेदा अविसिट्ठा, तथापि पञ्ञाप्पभेदजननत्थं धम्मवितक्केन ञातिवितक्कादिनिरत्थकवितक्कनिवारणत्थं इमञ्च पाळिं वितक्केन्तस्स धम्मुपसंहितपामोज्जजननत्थं एकेकस्स वारस्स गहितस्स निय्यानमुखभावतो च दुविधतिविधभेदनानत्तवसेन इतरेपि भेदा वुत्ताति वेदितब्बा अञ्ञमञ्ञापेक्खेसु एकस्स विसेसेन इतरेसम्पि विसिट्ठभावतो. न केवलं एकविधोव, अथ खो दुविधो च. न च एकदुविधोव, अथ खो तिविधोपि. नापि एक…पे… नवविधोव, अथ खो दसविधोपीति हि एवञ्च ते भेदा अञ्ञमञ्ञापेक्खा, तस्मा एको भेदो विसिट्ठो अत्तना अपेक्खियमाने, अत्तानञ्च अपेक्खमाने अञ्ञभेदे विसेसेतीति तस्स वसेन तेपि वत्तब्बतं अरहन्तीति वुत्ताति दट्ठब्बा.
सत्तविधेनातिआदयो अञ्ञप्पभेदनिरपेक्खा केवलं बहुप्पकारतादस्सनत्थं वुत्ताति सब्बेहि तेहि पकारेहि ‘‘बहुविधेन वेदनाक्खन्धं दस्सेसी’’ति वुत्तं. महाविसयो राजा विय सविसये भगवापि महाविसयताय अप्पटिहतो यथा यथा इच्छति, तथा तथा देसेतुं सक्कोति सब्बञ्ञुतानावरणञाणयोगतोति अत्थो. दुके वत्वा तिका वुत्ताति तिका दुकेसु पक्खित्ताति युत्तं, दुका पन कथं तिकेसु पक्खित्ताति? परतो वुत्तेपि तस्मिं तस्मिं तिके अपेक्खकापेक्खितब्बवसेन दुकानं योजितत्ता.
किरियमनोधातु आवज्जनवसेन लब्भतीति वुत्तं, आवज्जना पन चक्खुसम्फस्सपच्चया न होति. न हि समानवीथियं पच्छिमो धम्मो पुरिमस्स कोचि पच्चयो होति. ये च वदन्ति ‘‘आवज्जनवेदनाव चक्खुसङ्घट्टनाय उप्पन्नत्ता एवं वुत्ता’’ति, तञ्च न युत्तं. न हि ‘‘चक्खुरूपपटिघातो चक्खुसम्फस्सो’’ति कत्थचि सुत्ते वा अट्ठकथायं वा वुत्तं. यदि सो च चक्खुसम्फस्सो सिया, चक्खुविञ्ञाणसहजातापि वेदना चक्खुसम्फस्सपच्चयाति सा इध अट्ठकथायं न वज्जेतब्बा सिया. पाळियञ्च ‘‘चक्खुसम्फस्सपच्चया वेदना अत्थि अब्याकता’’ति एत्थ सङ्गहितत्ता पुन ‘‘चक्खुसम्फस्सजा वेदना’’ति न वत्तब्बं सियाति. अयं पनेत्थाधिप्पायो – आवज्जनवेदनं विना चक्खुसम्फस्सस्स उप्पत्ति नत्थीति तदुप्पादिका सा तप्पयोजनत्ता परियायेन चक्खुसम्फस्सपच्चयाति वत्तुं युत्ताति, निप्परियायेन पन चक्खुसम्फस्सस्स परतोव वेदना लब्भन्ति.
चतुत्तिंसचित्तुप्पादवसेनाति एत्थ रूपारूपावचरानं अग्गहणं तेसं सयमेव मनोद्वारभूतत्ता. सब्बभवङ्गमनो हि मनोद्वारं, चुतिपटिसन्धियो च ततो अनञ्ञाति. इमस्मिं पन चतुवीसतिविधभेदे चक्खुसम्फस्सपच्चयादिकुसलादीनं समानवीथियं लब्भमानता अट्ठकथायं वुत्ता, पाळियं पन एकूनवीसतिचतुवीसतिका सङ्खिपित्वा आगताति ‘‘चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि अनुपादिन्नअनुपादानियो असंकिलिट्ठअसंकिलेसिको अवितक्कअविचारो’’तिआदिना नानावीथिगतानं लब्भमानताय वुत्तत्ता कुसलत्तिकस्सपि नानावीथियं लब्भमानता योजेतब्बा. अट्ठकथायं पन समानवीथियं चक्खुसम्फस्सपच्चयादिकता एकन्तिकाति कत्वा एत्थ लब्भमानता दस्सिता, न पन असमानवीथियं लब्भमानता पटिक्खित्ता. तेनेव ‘‘तानि सत्तविधादीसु यत्थ कत्थचि ठत्वा कथेतुं वट्टन्ती’’ति आह. न हि समानवीथियंयेव उपनिस्सयकोटिसमतिक्कमभावनाहि लब्भमानता होति. तिधापि च लब्भमानतं सन्धाय ‘‘यत्थ कत्थचि ठत्वा कथेतुं वट्टन्ती’’ति वुच्चति.
एतानीति यथादस्सितानि कुसलादीनि चित्तानि वदति, वेदनानिद्देसेपि च एतस्मिं पुब्बङ्गमस्स चित्तस्स वसेन कथेतुं सुखन्ति चित्तसम्बन्धो कतो. तेनेव पन चित्तानि सत्तविधभेदे तिकभूमिवसेन, चतुवीसतिविधभेदे द्वारतिकवसेन, तिंसविधभेदे द्वारभूमिवसेन, बहुविधभेदे द्वारतिकभूमिवसेन दीपितानीति ‘‘तेसु यत्थ कत्थचि ठत्वा कथेतुं वट्टन्ती’’ति वुत्तं. कुसलादीनं दीपना कामावचरादिभूमिवसेन कातब्बा, ता च भूमियो तिंसविधभेदे सयमेवागता, न च सत्तविधभेदे विय द्वारं अनामट्ठं, अतिब्यत्ता च एत्थ समानासमानवीथीसु लब्भमानताति तिंसविधे…पे… सुखदीपनानि होन्ती’’ति वुत्तं. कस्मा पन तिंसविधस्मिंयेव ठत्वा दीपयिंसु, ननु द्वारतिकभूमीनं आमट्ठत्ता बहुविधभेदे ठत्वा दीपेतब्बानीति? न, दीपेतब्बट्ठानातिक्कमतो. सत्तविधभेदो हि द्वारस्स अनामट्ठत्ता दीपनाय अट्ठानं, चतुवीसतिविधभेदे आमट्ठद्वारतिका न भूमियो अपेक्खित्वा ठपिता, तिंसविधभेदे आमट्ठद्वारभूमियो वुत्ता. ये च ठपिता, ते चेत्थ तिका अपेक्खितब्बरहिता केवलं भूमीहि सह दीपेतब्बाव. तेनेदं दीपनाय ठानं, तदतिक्कमे पन ठानातिक्कमो होतीति.
उपनिस्सयकोटियाति एत्थ ‘‘सद्धं उपनिस्साय दानं देती’’तिआदिना (पट्ठा. १.१.४२३) नानावीथियं पकतूपनिस्सयो वुत्तोति एकवीथियं कुसलादीनं चक्खुसम्फस्सादयो तदभावे अभावतो जाति विय जरामरणस्स उपनिस्सयलेसेन पच्चयोति वत्तुं युज्जेय्य, इध पन ‘‘कसिणरूपदस्सनहेतुउप्पन्ना परिकम्मादिवेदना चक्खुसम्फस्सपच्चया’’ति वक्खति, तस्मा नानावीथियं गतानि एतानि चित्तानि चक्खुसम्फस्सपच्चया लब्भमानानीति न उपनिस्सयलेसो उपनिस्सयकोटि, बलवबलवानं पन परिकम्मादीनं उपनिस्सयानं सब्बेसं आदिभूतो उपनिस्सयो उपनिस्सयकोटि. ‘‘वालकोटि न पञ्ञायती’’तिआदीसु विय हि आदि, अवयवो वा कोटि. कसिणरूपदस्सनतो पभुति च कामावचरकुसलादीनं वेदनानं उपनिस्सयो पवत्तोति तं दस्सनं उपनिस्सयकोटि. परिकम्मादीनि विय वा न बलवउपनिस्सयो दस्सनन्ति तस्स उपनिस्सयन्तभावेन उपनिस्सयकोटिता वुत्ता. घानादिद्वारेसु तीसु उपनिस्सयकोटिया लब्भमानत्ताभावं वदन्तो इध समानवीथि न गहिताति दीपेति. दस्सनसवनानि विय हि कसिणपरिकम्मादीनं घायनादीनि उपनिस्सया न होन्तीति तदलाभो दीपितोति. यदिपि वायोकसिणं फुसित्वापि गहेतब्बं, पुरिमेन पन सवनेन विना तं फुसनं सयमेव मूलुपनिस्सयो येभुय्येन न होतीति तस्स उपनिस्सयकोटिता न वुत्ता.
अज्झासयेन सम्पत्तिगतो अज्झासयसम्पन्नो, सम्पन्नज्झासयोति वुत्तं होति. वत्तप्पटिवत्तन्ति खुद्दकञ्चेव महन्तञ्च वत्तं, पुब्बे वा कतं वत्तं, पच्छा कतं पटिवत्तं. एवं चक्खुविञ्ञाणन्ति आदिम्हि उप्पन्नं आह, ततो परं उप्पन्नानिपि पन कसिणरूपदस्सनकल्याणमित्तदस्सनसंवेगवत्थुदस्सनादीनि उपनिस्सयपच्चया होन्तियेवाति. तेन तदुपनिस्सयं चक्खुविञ्ञाणं दस्सेतीति वेदितब्बं.
यथाभूतसभावादस्सनं असमपेक्खना. ‘‘अस्मी’’ति रूपादीसु विनिबन्धस्स. सभावन्तरामसनवसेन परामट्ठस्स, परामट्ठवतोति अत्थो. आरम्मणाधिगहणवसेन अनु अनु उप्पज्जनधम्मताय थिरभावकिलेसस्स थामगतस्स, अप्पहीनकामरागादिकस्स वा. परिग्गहे ठितोति वीमंसाय ठितो. एत्थ च असमपेक्खनायातिआदिना मोहादीनं किच्चेन पाकटेन तेसं उप्पत्तिवसेन विचारणा दट्ठब्बा. रूपदस्सनेन उप्पन्नकिलेससमतिक्कमवसेन पवत्ता रूपदस्सनहेतुका होतीति ‘‘चक्खुसम्फस्सपच्चया नाम जाता’’ति आह. एत्थ च चक्खुसम्फस्सस्स चतुभूमिकवेदनाय उपनिस्सयभावो एव पकारन्तरेन कथितो, तथा ‘‘भावनावसेना’’ति एत्थ च.
कलापसम्मसनेन तीणि लक्खणानि आरोपेत्वा उदयब्बयानुपस्सनादिकाय विपस्सनापटिपाटिया आदिम्हि रूपारम्मणपरिग्गहेन रूपारम्मणं सम्मसित्वा, तंमूलकं वा सब्बं सम्मसनं आदिभूते रूपारम्मणे पवत्ततीति कत्वा आह ‘‘रूपारम्मणं सम्मसित्वा’’ति. एत्थ च नामरूपपरिग्गहादि सब्बं सम्मसनं भावनाति वेदितब्बा. रूपारम्मणं सम्मसित्वाति च यथावुत्तचक्खुविञ्ञाणस्स आरम्मणभूतं रूपारम्मणं वुत्तं, न यं किञ्चि. आरम्मणेन हि चक्खुसम्फस्सं दस्सेतीति. एवं ‘‘रूपारम्मणे उप्पन्नं किलेस’’न्ति एत्थापि वेदितब्बं.
इदं फोट्ठब्बं किंनिस्सितन्ति चक्खुद्वारे विय योजनाय यथासम्भवं आपोधातुया अञ्ञमञ्ञस्स च वसेन महाभूतनिस्सितता योजेतब्बा.
जाति…पे… बलवपच्चयो होतीति यथावुत्तानं भयतो दिस्समानानं जातिआदीनं बलवपच्चयभावेन तेसं भयतो दस्सनेन सहजातस्स मनोसम्फस्सस्स, तस्स वा दस्सनस्स द्वारभूतस्स भवङ्गमनोसम्फस्सस्स बलवपच्चयभावं दस्सेति.
धम्मारम्मणेति न पुब्बे वुत्ते जातिआदिआरम्मणेव, अथ खो सब्बस्मिं रागादिवत्थुभूते धम्मारम्मणे. वत्थुनिस्सितन्ति एत्थ वेदनादिसङ्खातस्स धम्मारम्मणेकदेसस्स परिग्गहमुखेन धम्मारम्मणपरिग्गहं दस्सेति.
मनोसम्फस्सोति विञ्ञाणं सम्फस्सस्स कारणभावेन गहितं, तदेव अत्तनो फलस्सेव फलभावेन वत्तुं न युत्तं कारणफलसङ्करभावेन सोतूनं सम्मोहजनकत्ताति आह ‘‘न हि सक्का विञ्ञाणं मनोसम्फस्सजन्ति निद्दिसितु’’न्ति, न पन विञ्ञाणस्स मनोसम्फस्सेन सहजातभावस्स अभावा. यस्मा वा यथा ‘‘तिण्णं सङ्गति फस्सो’’ति (म. नि. १.२०४; ३.४२०, ४२५-४२६; सं. नि. ४.६०) वचनतो इन्द्रियविसया विय विञ्ञाणम्पि फस्सस्स विसेसपच्चयो, न तथा फस्सो विञ्ञाणस्स, तस्मा इन्द्रियविसया विय विञ्ञाणम्पि चक्खुसम्फस्सजादिवचनं न अरहतीति चक्खुसम्फस्सजादिभावो न कतोति वेदितब्बो.
अभिधम्मभाजनीयवण्णना निट्ठिता.