४. सङ्खारक्खन्धनिद्देसवण्णना

२०. हेट्ठिमकोटियाति एत्थ भुम्मनिद्देसोव. तत्थ हि पधानं दस्सितन्ति. यदि एवं उपरिमकोटिया तं न दस्सितन्ति आपज्जतीति? नापज्जति, उपरिमकोटिगतभावेन विना हेट्ठिमकोटिगतभावाभावतो. हेट्ठिमकोटि हि सब्बब्यापिकाति. दुतिये करणनिद्देसो, हेट्ठिमकोटिया आगताति सम्बन्धो. पुरिमेपि वा ‘‘हेट्ठिमकोटिया’’ति यं वुत्तं, तञ्च पधानसङ्खारदस्सनवसेनाति सम्बन्धकरणेन करणनिद्देसोव. तंसम्पयुत्ता सङ्खाराति एकूनपञ्ञासप्पभेदे सङ्खारे आह. गहिताव होन्ति तप्पटिबद्धत्ता.

सङ्खारक्खन्धनिद्देसवण्णना निट्ठिता.

पकिण्णककथावण्णना

समुग्गम-सद्दो सञ्जातियं आदिउप्पत्तियं निरुळ्हो. तंतंपच्चयसमायोगे हि पुरिमभवसङ्खाता पुरिमन्ततो उद्धङ्गमनं समुग्गमो, सन्धियं वा पटिसन्धियं उग्गमो समुग्गमो. सो पन यत्थ पञ्चक्खन्धा परिपुण्णा समुग्गच्छन्ति, तत्थेव दस्सितो. एतेन नयेन अपरिपुण्णखन्धसमुग्गमो एकवोकारचतुवोकारेसु सक्का विञ्ञातुन्ति. अथ वा यथाधिगतानं पञ्चन्नम्पि खन्धानं सह उग्गमो उप्पत्ति समुग्गमो. एतस्मिं अत्थे विकलुप्पत्ति असङ्गहिता होति. हिमवन्तप्पदेसे जातिमन्तएळकलोमं जातिउण्णा. सप्पिमण्डबिन्दूति एवं एत्थापि बिन्दु-सद्दो योजेतब्बो. एवंवण्णप्पटिभागन्ति एवंवण्णं एवंसण्ठानञ्च. पटिभजनं वा पटिभागो, सदिसताभजनं सदिसतापत्तीति अत्थो. एवंविधो वण्णप्पटिभागो एतस्साति एवंवण्णप्पटिभागं.

सन्ततिसीसानीति सन्ततिमूलानि, सन्ततिकोट्ठासा वा. अनेकिन्द्रियसमाहारभावतो हि पधानङ्गं ‘‘सीस’’न्ति वुच्चति, एवं वत्थुदसकादिकोट्ठासा अनेकरूपसमुदायभूता ‘‘सीसानी’’ति वुत्तानीति.

पञ्चक्खन्धा परिपुण्णा होन्तीति गणनापारिपूरिं सन्धाय वुत्तं, न तस्स तस्स खन्धस्स परिपुण्णतं. कम्मसमुट्ठानपवेणिया वुत्तत्ता ‘‘उतुचित्ताहारजपवेणी च एत्तकं कालं अतिक्कमित्वा होती’’तिआदिना वत्तब्बा सिया, तं पन ‘‘पुब्बापरतो’’ति एत्थ वक्खतीति अकथेत्वा कम्मजपवेणी च न सब्बा वुत्ताति अवुत्तं दस्सेतुं ओपपातिकसमुग्गमो नाम दस्सितो. एवं…पे… पञ्चक्खन्धा परिपुण्णा होन्तीति परिपुण्णायतनानं वसेन नयो दस्सितो, अपरिपुण्णायतनानं पन कामावचरानं रूपावचरानं परिहीनायतनस्स वसेन सन्ततिसीसहानि वेदितब्बा.

पुब्बापरतोति अयं विचारणा न पञ्चन्नं खन्धानं उप्पत्तियं, अथ खो तेसं रूपसमुट्ठापनेति दट्ठब्बा. तं दस्सेन्तो आह ‘‘एवं पना’’तिआदि. अपच्छाअपुरे उप्पन्नेसूति एतेन संसयकारणं दस्सेति. सहुप्पन्नेसु हि इदमेव पठमं रूपं समुट्ठापेति, इदं पच्छाति अदस्सितं न सक्का विञ्ञातुं. एत्थ च ‘‘पुब्बापरतो’’ति एतिस्सा विचारणाय वत्थुभावेन पटिसन्धियं उप्पन्ना पवत्ता पञ्चक्खन्धा गहिता. तत्थ च निद्धारणे भुम्मनिद्देसोति ‘‘रूपं पठमं रूपं समुट्ठापेती’’ति आह. अञ्ञथा भावेनभावलक्खणत्थे भुम्मनिद्देसे सति रूपस्स रूपसमुट्ठापनक्खणे कम्मस्सपि रूपसमुट्ठानं वदन्तीति उभयन्ति वत्तब्बं सियाति. रूपारूपसन्ततिञ्च गहेत्वा अयं विचारणा पवत्ताति ‘‘रूपं पठमं रूपं समुट्ठापेती’’ति वुत्तं. अञ्ञथा पटिसन्धिक्खणे एव विज्जमाने गहेत्वा विचारणाय करियमानाय अरूपस्स रूपसमुट्ठापनमेव नत्थीति पुब्बापरसमुट्ठापनविचारणाव इध न उपपज्जतीति वत्तब्बं सियाति. वत्थु उप्पादक्खणे दुब्बलं होतीति सब्बरूपानं उप्पादक्खणे दुब्बलतं सन्धाय वुत्तं. तदा हि तं पच्छाजातपच्चयरहितं आहारादीहि च अनुपत्थद्धन्ति ‘‘दुब्बल’’न्ति वुत्तं. कम्मवेगक्खित्तत्ताति इदं सतिपि भवङ्गस्स कम्मजभावे सायं विपाकसन्तति पटिसन्धिक्खणे पुरिमभवङ्गसमुट्ठापकतो अञ्ञेन कम्मुना खित्ता विय अप्पतिट्ठिता, ततो परञ्च समानसन्ततियं अनन्तरपच्चयं पुरेजातपच्चयञ्च लभित्वा पतिट्ठिताति इममत्थं सन्धाय वुत्तं.

पवेणी घटियतीति चक्खादिवत्थुसन्तति एकस्मिं विज्जमाने एव अञ्ञस्स निरोधुप्पत्तिवसेन घटियति, न चुतिपटिसन्धिनिस्सयवत्थूनं विय विच्छेदप्पवत्तीति अत्थो. अङ्गतोति झानङ्गतो. झानङ्गानि हि चित्तेन सह रूपसमुट्ठापकानि, तेसं अनुबलदायकानि मग्गङ्गादीनि तेसु विज्जमानेसु विसेसरूपप्पवत्तिदस्सनतो. अथ वा यानि चित्तङ्गानि चेतनादीनि चित्तस्स रूपसमुट्ठापने अङ्गभावं सहायभावं गच्छन्ति, तेसं बलदायकेहि झानङ्गादीहि अपरिहीनन्ति अत्थो. ततो परिहीनत्ता हि चक्खुविञ्ञाणादीनि रूपं न समुट्ठापेन्तीति. यो पन वदेय्य ‘‘पटिसन्धिचित्तेन सहजातवत्थु तस्स ठितिक्खणे च भङ्गक्खणे च पुरेजातन्ति कत्वा पच्चयवेकल्लाभावतो तस्मिं खणद्वये रूपं समुट्ठापेतू’’ति, तं निवारेन्तो आह ‘‘यदि हि चित्त’’न्तिआदि. तत्थ ठितिभङ्गक्खणेसुपि तेसं धम्मानं वत्थु पुरेजातं न होतीति न वत्तब्बमेवेतन्ति अनुजानि, तत्थापि दोसं दस्सेति. यदि तदा रूपं समुट्ठापेय्य, तव मतेन पटिसन्धिचित्तम्पि समुट्ठापेय्य, तदा पन रूपुप्पादनमेव नत्थि. यदा च रूपुप्पादनं, तदा उप्पादक्खणे तव मतेनपि पच्चयवेकल्लमेव पटिसन्धिक्खणे पुरेजातनिस्सयाभावतो, तस्मा पटिसन्धिचित्तं रूपं न समुट्ठापेतीति अयमेत्थ अधिप्पायो. उप्पादक्खणे अट्ठ रूपानि गहेत्वा उट्ठहति. कस्मा? अरूपधम्मानं अनन्तरादिपच्चयवसेन सवेगानं परिपुण्णबलानमेव उप्पत्तितो.

अविसयतायाति अगतपुब्बस्स गामस्स आगन्तुकस्स अविसयभावतो. अप्पहुततायाति तत्थ तस्स अनिस्सरभावतो. चित्तसमुट्ठान…पे… ठितानीति इदं येहाकारेहि चित्तसमुट्ठानरूपानं चित्तचेतसिका पच्चया होन्ति, तेहि सब्बेहि पटिसन्धियं चित्तचेतसिका समतिंसकम्मजरूपानं यथासम्भवं पच्चया होन्तीति कत्वा वुत्तं.

वट्टमूलन्ति तण्हा अविज्जा वुच्चति. चुतिचित्तेन उप्पज्जमानं रूपं ततो पुरिमतरेहि उप्पज्जमानं विय न भवन्तरे उप्पज्जतीति वट्टमूलस्स वूपसन्तत्ता अनुप्पत्ति विचारेतब्बा.

रूपस्स नत्थितायाति रूपानं निस्सरणत्ता अरूपस्स, विरागवसेन पहीनत्ता उप्पादेतब्बस्स अभावं सन्धाय वुत्तं. रूपोकासे वा रूपं अत्थीति कत्वा रूपपच्चयानं रूपुप्पादनं होति, अरूपं पन रूपस्स ओकासो न होतीति यस्मिं रूपे सति चित्तं अञ्ञं रूपं उप्पादेय्य, तदेव तत्थ नत्थीति अत्थो. पुरिमरूपस्सपि हि पच्चयभावो अत्थि पुत्तस्स पितिसदिसतादस्सनतोति.

उतु पन पठमं रूपं समुट्ठापेति पटिसन्धिचित्तस्स ठितिक्खणे समुट्ठापनतोति अधिप्पायो. उतु नाम चेस दन्धनिरोधोतिआदि उतुस्स ठानक्खणे उप्पादने कारणदस्सनत्थं अरूपानं उप्पादकालदस्सनत्थञ्च वुत्तं. दन्धनिरोधत्ता हि सो ठितिक्खणे बलवाति तदा रूपं समुट्ठापेति, तस्मिं धरन्ते एव खिप्पनिरोधत्ता सोळससु चित्तेसु उप्पन्नेसु पटिसन्धिअनन्तरं चित्तं उतुना समुट्ठिते रूपे पुन समुट्ठापेतीति अधिप्पायो. तस्मिं धरन्ते एव सोळस चित्तानि उप्पज्जित्वा निरुज्झन्तीति एतेन पन वचनेन यदि उप्पादनिरोधक्खणा धरमानक्खणे एव गहिता, ‘‘सोळसचित्तक्खणायुकं रूप’’न्ति वुत्तं होति, अथुप्पादक्खणं अग्गहेत्वा निरोधक्खणोव गहितो, ‘‘सत्तरसचित्तक्खणायुक’’न्ति, सचे निरोधक्खणं अग्गहेत्वा उप्पादक्खणो गहितो, ‘‘अधिकसोळसचित्तक्खणायुक’’न्ति, यदि पन उप्पादनिरोधक्खणा धरमानक्खणे न गहिता, ‘‘अधिकसत्तरसचित्तक्खणायुक’’न्ति. यस्मा पन ‘‘तेसु पटिसन्धिअनन्तर’’न्ति पटिसन्धिपि तस्स धरमानक्खणे उप्पन्नेसु गहिता, तस्मा उप्पादक्खणो धरमानक्खणे गहितोति निरोधक्खणे अग्गहिते अधिकसोळसचित्तक्खणायुकता वक्खमाना, गहिते वा सोळसचित्तक्खणायुकता अधिप्पेताति वेदितब्बा.

ओजा खराति सवत्थुकं ओजं सन्धायाह. सभावतो सुखुमाय हि ओजाय वत्थुवसेन अत्थि ओळारिकसुखुमताति.

चित्तञ्चेवाति चित्तस्स पुब्बङ्गमताय वुत्तं, तंसम्पयुत्तकापि पन रूपसमुट्ठापका होन्तीति. यथाह ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’तिआदि (पट्ठा. १.१.१). चित्तन्ति वा चित्तुप्पादं गण्हाति, न कम्मचेतनं विय एकधम्ममेव अविज्जमानं. कम्मसमुट्ठानञ्च तंसम्पयुत्तेहिपि समुट्ठितं होतूति चे? न, तेहि समुट्ठितभावस्स अवुत्तत्ता, अवचनञ्च तेसं केनचि पच्चयेन पच्चयभावाभावतो.

अद्धानपरिच्छेदतोति कालपरिच्छेदतो. तत्थ ‘‘सत्तरस चित्तक्खणा रूपस्स अद्धा, रूपस्स सत्तरसमो भागो अरूपस्सा’’ति एसो अद्धानपरिच्छेदो अधिप्पेतो. पटिसन्धिक्खणेति इदं नयदस्सनमत्तं दट्ठब्बं ततो परम्पि रूपारूपानं सहुप्पत्तिसब्भावतो, न पनेतं पटिसन्धिक्खणे असहुप्पत्तिअभावं सन्धाय वुत्तन्ति दट्ठब्बं, पटिसन्धिचित्तस्स ठितिभङ्गक्खणेसुपि रूपुप्पत्तिं सयमेव वक्खतीति. फलप्पत्तनिदस्सनेन च रूपारूपानं असमानकालतं निदस्सेति, न सहुप्पादं तदत्थं अनारद्धत्ता. सहुप्पादेन पन असमानकालता सुखदीपना होतीति तंदीपनत्थमेव सहुप्पादग्गहणं.

यदि एवं रूपारूपानं असमानद्धत्ता अरूपं ओहाय रूपस्स पवत्ति आपज्जतीति एतस्सा निवारणत्थमाह ‘‘तत्थ किञ्चापी’’तिआदि. एकप्पमाणावाति निरन्तरं पवत्तमानेसु रूपारूपधम्मेसु निच्छिद्देसु अरूपरहितं रूपं, रूपरहितं वा अरूपं नत्थीति कत्वा वुत्तं. अयञ्च कथा पञ्चवोकारे कम्मजरूपप्पवत्तिं निब्बानपटिभागनिरोधसमापत्तिरहितं सन्धाय कताति दट्ठब्बा. पदे पदन्ति अत्तनो पदे एव पदं निक्खिपन्तो विय लहुं लहुं अक्कमित्वाति अत्थो. अनोहायाति याव चुति, ताव अविजहित्वा, चुतिक्खणे पन सहेव निरुज्झन्तीति. यस्मिञ्चद्धाने अञ्ञमञ्ञं अनोहाय पवत्ति, सो च पटिसन्धिचुतिपरिच्छिन्नो उक्कंसतो एतेसं अद्धाति. एवन्ति एतेन पुब्बे वुत्तं अवकंसतो अद्धापकारं इमञ्च सङ्गण्हातीति दट्ठब्बं.

एकुप्पादनानानिरोधतोति एतं द्वयमपि सह गहेत्वा रूपारूपानं ‘‘एकुप्पादनानानिरोधतो’’ति एको दट्ठब्बाकारो वुत्तोति दट्ठब्बो. एवं इतो परेसुपि. पच्छिमकम्मजं ठपेत्वाति तस्स चुतिचित्तेन सह निरुज्झनतो नानानिरोधो नत्थीति कत्वा वुत्तन्ति वदन्ति. तस्स पन एकुप्पादोपि नत्थि हेट्ठा सोळसके पच्छिमस्स भङ्गक्खणे उप्पत्तिवचनतो. यदि पन यस्स एकुप्पादनानानिरोधा द्वेपि न सन्ति, तं ठपेतब्बं. सब्बम्पि चित्तस्स भङ्गक्खणे उप्पन्नं ठपेतब्बं सिया, पच्छिमकम्मजस्स पन उप्पत्तितो परतो चित्तेसु पवत्तमानेसु कम्मजरूपस्स अनुप्पत्तितो वज्जेतब्बं गहेतब्बञ्च तदा नत्थीति ‘‘पच्छिमकम्मजं ठपेत्वा’’ति वुत्तन्ति वेदितब्बं. ततो पुब्बे पन अट्ठचत्तालीसकम्मजरूपपवेणी अत्थीति तत्थ यं चित्तस्स उप्पादक्खणे उप्पन्नं, तं अञ्ञस्स उप्पादक्खणे निरुज्झतीति ‘‘एकुप्पादनानानिरोध’’न्ति गहेत्वा ठितिभङ्गक्खणेसु उप्पन्नरूपानि वज्जेत्वा एवं एकुप्पादनानानिरोधतो वेदितब्बाति योजना कताति दट्ठब्बा. तञ्हि रूपं अरूपेन, अरूपञ्च तेन एकुप्पादनानानिरोधन्ति. तत्थ सङ्खलिकस्स विय सम्बन्धो पवेणीति कत्वा अट्ठचत्तालीसकम्मजियवचनं कतं, अञ्ञथा एकूनपञ्ञासकम्मजियवचनं कत्तब्बं सिया.

नानुप्पाद…पे… पच्छिमकम्मजेन दीपेतब्बाति तेन सुदीपनत्ता वुत्तं. एतेन हि नयेन सक्का ततो पुब्बेपि एकस्स चित्तस्स भङ्गक्खणे उप्पन्नरूपं अञ्ञस्सपि भङ्गक्खणे एव निरुज्झतीति तं अरूपेन, अरूपञ्च तेन नानुप्पादं एकनिरोधन्ति विञ्ञातुन्ति. उभयत्थापि पन अञ्ञस्स चित्तस्स ठितिक्खणे उप्पन्नं रूपं अञ्ञस्स ठितिक्खणे, तस्स ठितिक्खणे उप्पज्जित्वा ठितिक्खणे एव निरुज्झनकं अरूपञ्च न सङ्गहितं, तं ‘‘नानुप्पादतो नानानिरोधतो’’ति एत्थेव सङ्गहं गच्छतीति वेदितब्बं. चतुसन्ततिकरूपेन हि नानुप्पादनानानिरोधतादीपना एत्थ ठितिक्खणे उप्पन्नस्स दस्सितत्ता अदस्सितस्स वसेन नयदस्सनं होतीति. समतिंसकम्मजरूपेसु एव ठितस्सपि गब्भे गतस्स मरणं अत्थीति तेसं एव वसेन पच्छिमकम्पि योजितं. अमरा नाम भवेय्युं, कस्मा? यथा छन्नं वत्थूनं पवत्ति, एवं तदुप्पादककम्मेनेव भवङ्गादीनञ्च तब्बत्थुकानं पवत्तिया भवितब्बन्ति. न हि तं कारणं अत्थि, येन तं कम्मजेसु एकच्चं पवत्तेय्य, एकच्चं न पवत्तेय्याति. तस्मा आयुउस्माविञ्ञाणादीनं जीवितसङ्खारानं अनूनत्ता वुत्तं ‘‘अमरा नाम भवेय्यु’’न्ति.

‘‘उप्पादक्खणे उप्पन्नं अञ्ञस्स उप्पादक्खणे निरुज्झति, ठितिक्खणे उप्पन्नं अञ्ञस्स ठितिक्खणे, भङ्गक्खणे उप्पन्नं अञ्ञस्स भङ्गक्खणे निरुज्झती’’ति इदं अट्ठकथायं आगतत्ता वुत्तन्ति अधिप्पायो. अत्तनो पनाधिप्पायं उप्पादक्खणे उप्पन्नं निरोधक्खणे, ठितिक्खणे उप्पन्नञ्च उप्पादक्खणे, भङ्गक्खणे उप्पन्नं ठितिक्खणे निरुज्झतीति दीपेतियेव. एवञ्च कत्वा अद्धानपरिच्छेदे ‘‘तं पन सत्तरसमेन चित्तेन सद्धिं निरुज्झती’’ति (विभ. अट्ठ. २६ पकिण्णककथा) वुत्तं. इमाय पाळिया विरुज्झति, कस्मा? चतुसमुट्ठानिकरूपस्सपि समानायुकताय भवितब्बत्ताति अधिप्पायो. यथा पन एतेहि योजितं, तथा रूपस्स एकुप्पादनानानिरोधता नानुप्पादेकनिरोधता च नत्थियेव.

या पन एतेहि रूपस्स सत्तरसचित्तक्खणायुकता वुत्ता, या च अट्ठकथायं ततियभागाधिकसोळसचित्तक्खणायुकता, सा पटिच्चसमुप्पादविभङ्गट्ठकथायं (विभ. अट्ठ. २२७) अतीतारम्मणाय चुतिया अनन्तरा पच्चुप्पन्नारम्मणं पटिसन्धिं दस्सेतुं ‘‘एत्तावता एकादस चित्तक्खणा अतीता होन्ति, तथा पञ्चदस चित्तक्खणा अतीता होन्ति, अथावसेसपञ्चचित्तएकचित्तक्खणायुके तस्मिं येवारम्मणे पटिसन्धिचित्तं उप्पज्जती’’ति दस्सितेन सोळसचित्तक्खणायुकभावेन विरुज्झति. न हि सक्का ‘‘ठितिक्खणे एव रूपं आपाथमागच्छती’’ति वत्तुं. तथा हि सति न रूपस्स एकादस वा पञ्चदसेव वा चित्तक्खणा अतीता, अथ खो अतिरेकएकादसपञ्चदसचित्तक्खणा. तस्मा यदिपि पञ्चद्वारे ठितिप्पत्तमेव रूपं पसादं घट्टेतीति युज्जेय्य, मनोद्वारे पन उप्पादक्खणेपि आपाथमागच्छतीति इच्छितब्बमेतं. न हि मनोद्वारे अतीतादीसु किञ्चि आपाथं नागच्छतीति. मनोद्वारे च एवं वुत्तं ‘‘एकादस चित्तक्खणा अतीता, अथावसेसपञ्चचित्तक्खणायुके’’ति (विभ. अट्ठ. २२७).

यो चेत्थ चित्तस्स ठितिक्खणो वुत्तो, सो च अत्थि नत्थीति विचारेतब्बो. चित्तयमके (यम. २.चित्तयमक.१०२) हि ‘‘उप्पन्नं उप्पज्जमानन्ति? भङ्गक्खणे उप्पन्नं, नो च उप्पज्जमान’’न्ति एत्तकमेव वुत्तं, न वुत्तं ‘‘ठितिक्खणे भङ्गक्खणे चा’’ति. तथा ‘‘नुप्पज्जमानं नुप्पन्नन्ति? भङ्गक्खणे नुप्पज्जमानं, नो च नुप्पन्न’’न्ति एत्तकमेव वुत्तं, न वुत्तं ‘‘ठितिक्खणे भङ्गक्खणे चा’’ति. एवं ‘‘न निरुद्धं न निरुज्झमानं, न निरुज्झमानं न निरुद्ध’’न्ति एतेसं परिपुण्णविस्सज्जने ‘‘उप्पादक्खणे अनागतञ्चा’’ति वत्वा ‘‘ठितिक्खणे’’ति अवचनं, अतिक्कन्तकालवारे च ‘‘भङ्गक्खणे चित्तं उप्पादक्खणं वीतिक्कन्त’’न्ति वत्वा ‘‘ठितिक्खणे’’ति अवचनं ठितिक्खणाभावं चित्तस्स दीपेति. सुत्तेसुपि हि ‘‘ठितस्स अञ्ञथत्तं पञ्ञायती’’ति तस्सेव (सं. नि. ३.३८; अ. नि. ३.४७) एकस्स अञ्ञथत्ताभावतो ‘‘यस्सा अञ्ञथत्तं पञ्ञायति, सा सन्ततिठिती’’ति न न सक्का वत्तुन्ति, विज्जमानं वा खणद्वयसमङ्गिं ठितन्ति.

यो चेत्थ चित्तनिरोधक्खणे रूपुप्पादो वुत्तो, सो च विचारेतब्बो ‘‘यस्स वा पन समुदयसच्चं निरुज्झति, तस्स दुक्खसच्चं उप्पज्जतीति? नोति वुत्त’’न्ति (यम. १.सच्चयमक.१३६). यो च चित्तस्स उप्पादक्खणे रूपनिरोधो वुत्तो, सो च विचारेतब्बो ‘‘यस्स कुसला धम्मा उप्पज्जन्ति, तस्स अब्याकता धम्मा निरुज्झन्तीति? नोतिआदि (यम. ३.धम्मयमक.१६३) वुत्त’’न्ति. न च चित्तसमुट्ठानरूपमेव सन्धाय पटिक्खेपो कतोति सक्का वत्तुं चित्तसमुट्ठानरूपाधिकारस्स अभावा, अब्याकतसद्दस्स च चित्तसमुट्ठानरूपेस्वेव अप्पवत्तितो. यदि सङ्खारयमके कायसङ्खारस्स चित्तसङ्खारेन सहुप्पादेकनिरोधवचनतो अब्याकत-सद्देन चित्तसमुट्ठानमेवेत्थ गहितन्ति कारणं वदेय्य, तम्पि अकारणं. न हि तेन वचनेन अञ्ञरूपानं चित्तेन सहुप्पादसहनिरोधपटिक्खेपो कतो, नापि नानुप्पादनानानिरोधानुजाननं, नेव चित्तसमुट्ठानतो अञ्ञस्स अब्याकतभावनिवारणञ्च कतं, तस्मा तथा अप्पटिक्खित्तानानुञ्ञातानिवारिताब्याकतभावानं सहुप्पादसहनिरोधादिकानं कम्मजादीनं एतेन चित्तस्स उप्पादक्खणे निरोधो पटिक्खित्तोति न सक्का कम्मजादीनं चित्तस्स उप्पादक्खणे निरोधं वत्तुं. यमकपाळिअनुस्सरणे च सति उप्पादानन्तरं चित्तस्स भिज्जमानताति तस्मिं खणे चित्तं न च रूपं समुट्ठापेति विनस्समानत्ता, नापि च अञ्ञस्स रूपसमुट्ठापकस्स सहायभावं गच्छतीति पटिसन्धिचित्तेन सहुप्पन्नो उतु तदनन्तरस्स चित्तस्स उप्पादक्खणे रूपं समुट्ठापेय्य. एवञ्च सति रूपारूपानं आदिम्हि सह रूपसमुट्ठापनतो पुब्बापरतोति इदम्पि नत्थि, अतिलहुपरिवत्तञ्च चित्तन्ति येन सहुप्पज्जति, तं चित्तक्खणे रूपं उप्पज्जमानमेवाति सक्का वत्तुं. तेनेव हि तं पटिसन्धितो उद्धं अचित्तसमुट्ठानानं अत्तना सह उप्पज्जमानानं न केनचि पच्चयेन पच्चयो होति, तदनन्तरञ्च तं ठितिप्पत्तन्ति तदनन्तरं चित्तं तस्स पच्छाजातपच्चयो होति, न सहजातपच्चयोति. यदि एवं ‘‘यस्स कायसङ्खारो उप्पज्जति, तस्स वचीसङ्खारो निरुज्झतीति? नो’’ति (यम. २.सङ्खारयमक.१२८), वत्तब्बन्ति चे? न, चित्तनिरोधक्खणे रूपुप्पादारम्भाभावतोति. निप्परियायेन हि चित्तस्स उप्पादक्खणे एव रूपं उप्पज्जमानं होति, चित्तक्खणे पन अवीतिवत्ते तं अत्तनो रूपसमुट्ठापनपुरेजातपच्चयकिच्चं न करोति, अरूपञ्च तस्स पच्छाजातपच्चयो न होतीति ठितिप्पत्तिविसेसालाभं सन्धाय परियायेन इदं वुत्तन्ति.

ततो परं पनाति एतस्स ‘‘एत्थ पन यदेत’’न्तिआदिकायपि सङ्गहकथाय निट्ठिताय पुरिमकथाय सन्निट्ठानतो ‘‘ततो पट्ठाय कम्मजरूपपवेणी न पवत्तती’’ति एतेन सह सम्बन्धोति चुतितो परन्ति अत्थो.

रूपं पन रूपेन सहातिआदिना यथा अट्ठकथायं वुत्तं, तथा एकुप्पादेकनिरोधता रूपानं अरूपेहि, अरूपानं रूपेहि च नत्थीति कत्वा रूपानं रूपेहेव, अरूपानञ्च अरूपेहि योजिता.

सरीरस्स रूपं अवयवभूतन्ति अत्थो, घनभूतो पुञ्जभावो घनपुञ्जभावो, न तिलमुग्गादिपुञ्जा विय सिथिलसम्बन्धनानं पुञ्जोति अत्थो. एकुप्पादादिताति यथावुत्ते तयो पकारे आह.

हेट्ठाति रूपकण्डवण्णनायं. परिनिप्फन्नाव होन्तीति विकाररूपादीनञ्च रूपकण्डवण्णनायं परिनिप्फन्नतापरियायो वुत्तोति कत्वा वुत्तं. परिनिप्फन्ननिप्फन्नानं को विसेसोति? पुब्बन्तापरन्तपरिच्छिन्नो पच्चयेहि निप्फादितो तिलक्खणाहतो सभावधम्मो परिनिप्फन्नो, निप्फन्नो पन असभावधम्मोपि होति नामग्गहणसमापज्जनादिवसेन निप्फादियमानोति. निरोधसमापत्ति पनाति एतेन सब्बम्पि उपादापञ्ञत्तिं तदेकदेसेन दस्सेतीति वेदितब्बं.

पकिण्णककथावण्णना निट्ठिता.

कमादिविनिच्छयकथावण्णना

दस्सनेन पहातब्बातिआदिना पठमं पहातब्बा पठमं वुत्ता, दुतियं पहातब्बा दुतियन्ति अयं पहानक्कमो. अनुपुब्बपणीता भूमियो अनुपुब्बेन ववत्थिताति तासं वसेन देसनाय भूमिक्कमो. ‘‘चत्तारो सतिपट्ठाना’’तिआदिको (सं. नि. ५.३७२, ३८२, ३८३; विभ. ३५५) एकक्खणेपि सतिपट्ठानादिसम्भवतो देसनाक्कमोव. दानकथादयो अनुपुब्बुक्कंसतो कथिता, उप्पत्तिआदिववत्थानाभावतो पन दानादीनं इध देसनाक्कमवचनं. देसनाक्कमोति च यथावुत्तववत्थानाभावतो अनेकेसं वचनानं सह पवत्तिया असम्भवतो येन केनचि पुब्बापरियेन देसेतब्बत्ता तेन तेनाधिप्पायेन देसनामत्तस्सेव कमो वुच्चति. अभेदेन हीति रूपादीनं भेदं अकत्वा पिण्डग्गहणेनाति अत्थो. चक्खुआदीनम्पि विसयभूतन्ति एकदेसेन रूपक्खन्धं समुदायभूतं वदति. एवन्ति एत्थ वुत्तनयेनाति अधिप्पायो. ‘‘छद्वाराधिपति राजा’’ति (ध. प. अट्ठ. २.एरकपत्तनागराजवत्थु) ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १-२) च वचनतो विञ्ञाणं अधिपति.

रूपक्खन्धे ‘‘सासवं उपादानिय’’न्ति वचनं अनासवानं धम्मानं सब्भावतो रूपक्खन्धस्स तंसभावतानिवत्तनत्थं, न अनासवरूपनिवत्तनत्थन्ति. अनासवाव खन्धेसु वुत्ताति एत्थ अट्ठानप्पयुत्तो एव-सद्दो दट्ठब्बो, अनासवा खन्धेस्वेव वुत्ताति अत्थो.

सब्बसङ्खतानं सभागेन एकज्झं सङ्गहो सब्बसङ्खतसभागेकसङ्गहो. सभागसभागेन हि सङ्गय्हमाना सब्बसङ्खता फस्सादयो पञ्चक्खन्धा होन्ति. तत्थ रुप्पनादिसामञ्ञेन समानकोट्ठासा ‘‘सभागा’’ति वेदितब्बा. तेसु सङ्खताभिसङ्खरणकिच्चं आयूहनरसाय चेतनाय बलवन्ति सा ‘‘सङ्खारक्खन्धो’’ति वुत्ता, अञ्ञे च रुप्पनादिविसेसलक्खणरहिता फस्सादयो सङ्खताभिसङ्खरणसामञ्ञेनाति दट्ठब्बा. फुसनादयो पन सभावा विसुं खन्ध-सद्दवचनीया न होन्तीति धम्मसभावविञ्ञुना तथागतेन फस्सखन्धादयो न वुत्ताति दट्ठब्बाति. ‘‘ये केचि, भिक्खवे, समणा वा ब्राह्मणा वा सस्सतवादा सस्सतं लोकञ्च पञ्ञपेन्ति अत्तानञ्च, सब्बे ते इमेयेव पञ्चुपादानक्खन्धे निस्साय पटिच्च, एतेसं वा अञ्ञतर’’न्तिआदीनञ्च सुत्तानं वसेन अत्तत्तनियगाहवत्थुस्स एतपरमता दट्ठब्बा, एतेन च वक्खमानसुत्तवसेन च खन्धे एव निस्साय परित्तारम्मणादिवसेन न वत्तब्बा च दिट्ठि उप्पज्जति, खन्धनिब्बानवज्जस्स सभावधम्मस्स अभावतोति वुत्तं होति. अञ्ञेसञ्च खन्ध-सद्दवचनीयानं सीलक्खन्धादीनं सब्भावतो न पञ्चेवाति एतं चोदनं निवत्तेतुमाह ‘‘अञ्ञेसञ्च तदवरोधतो’’ति.

दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खतावसेन वेदनाय आबाधकत्तं दट्ठब्बं. रागादिसम्पयुत्तस्स विपरिणामादिदुक्खस्स इत्थिपुरिसादिआकारग्गाहिका तंतंसङ्कप्पमूलभूता सञ्ञा समुट्ठानं. रोगस्स पित्तादीनि विय आसन्नकारणं समुट्ठानं, उतुभोजनवेसमादीनि विय मूलकारणं निदानं. ‘‘चित्तस्सङ्गभूता चेतसिका’’ति चित्तं गिलानूपमं वुत्तं, सुखसञ्ञादिवसेन वेदनाकारणाय हेतुभावतो वेदनाभोजनस्स छादापनतो च सञ्ञा अपराधूपमा ब्यञ्जनूपमा च, ‘‘पञ्च वधका पच्चत्थिकाति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति आसिविसूपमे (सं. नि. ४.२३८) वधकाति वुत्ता, ‘‘भारोति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति भारसुत्ते (सं. नि. ३.२२) भाराति, ‘‘अतीतंपाहं अद्धानं रूपेन खज्जिं, सेय्यथापाहं एतरहि पच्चुप्पन्नेन रूपेन खज्जामि, अहञ्चेव खो पन अनागतं रूपं अभिनन्देय्यं, अनागतेनपाहं रूपेन खज्जेय्यं. सेय्यथापेतरहि खज्जामी’’तिआदिना खज्जनीयपरियायेन (सं. नि. ३.७९) खादकाति, ‘‘सो अनिच्चं रूपं ‘अनिच्चं रूप’न्ति यथाभूतं नप्पजानाती’’तिआदिना यमकसुत्ते (सं. नि. ३.८५) अनिच्चादिकाति. यदिपि इमस्मिं विभङ्गे अविसेसेन खन्धा वुत्ता, बाहुल्लेन पन उपादानक्खन्धानं तदन्तोगधानं दट्ठब्बता वुत्ताति वेदितब्बाति.

देसितादिच्चबन्धुनाति देसितं आदिच्चबन्धुना, देसितानि वा. गाथासुखत्थं अनुनासिकलोपो, निकारलोपो वा कतो.

गहेतुं न सक्काति निच्चादिवसेन गहेतुं न युत्तन्ति अत्थो.

रूपेन सण्ठानेन फलकसदिसो दिस्समानो खरभावाभावा फलककिच्चं न करोतीति ‘‘न सक्का तं गहेत्वा फलकं वा आसनं वा कातु’’न्ति आह. न तथा तिट्ठतीति निच्चादिका न होतीति अत्थो, तण्हादिट्ठीहि वा निच्चादिग्गहणवसेन उप्पादादिअनन्तरं भिज्जनतो गहिताकारा हुत्वा न तिट्ठतीति अत्थो. कोटिसतसहस्ससङ्ख्याति इदं न गणनपरिच्छेददस्सनं, बहुभावदस्सनमेव पनेतं दट्ठब्बं. उदकजल्लकन्ति उदकलसिकं. यथा उदकतले बिन्दुनिपातजनितो वातो उदकजल्लकं सङ्कड्ढित्वा पुटं कत्वा पुप्फुळं नाम करोति, एवं वत्थुम्हि आरम्मणापाथगमनजनितो फस्सो अनुपच्छिन्नं किलेसजल्लं सहकारीपच्चयन्तरभावेन सङ्कड्ढित्वा वेदनं नाम करोति. इदञ्च किलेसेहि मूलकारणभूतेहि आरम्मणस्सादनभूतेहि च निब्बत्तं वट्टगतवेदनं सन्धाय वुत्तन्ति वेदितब्बं. उक्कट्ठपरिच्छेदेन वा चत्तारो पच्चया वुत्ता, ऊनेहिपि पन उप्पज्जतेव.

नानालक्खणोति वण्णगन्धरसफस्सादीहि नानासभावो. मायाय दस्सितं रूपं ‘‘माया’’ति आह. पञ्चपि उपादानक्खन्धा असुभादिसभावा एव किलेसासुचिवत्थुभावादितोति असुभादितो दट्ठब्बा एव. तथापि कत्थचि कोचि विसेसो सुखग्गहणीयो होतीति आह ‘‘विसेसतो चा’’तिआदि. तत्थ चत्तारो सतिपट्ठाना चतुविपल्लासप्पहानकराति तेसं गोचरभावेन रूपक्खन्धादीसु असुभादिवसेन दट्ठब्बता वुत्ता.

खन्धेहि न विहञ्ञति परिविदितसभावत्ता. विपस्सकोपि हि तेसं विपत्तियं न दुक्खमापज्जति, खीणासवेसु पन वत्तब्बमेव नत्थि. ते हि आयतिम्पि खन्धेहि न बाधीयन्तीति. कबळीकाराहारं परिजानातीति ‘‘आहारसमुदया रूपसमुदयो’’ति (सं. नि. ३.५६-५७) वुत्तत्ता अज्झत्तिकरूपे छन्दरागं पजहन्तो तस्स समुदयभूते कबळीकाराहारेपि छन्दरागं पजहतीति अत्थो, अयं पहानपरिञ्ञा. अज्झत्तिकरूपं पन परिग्गण्हन्तो तस्स पच्चयभूतं कबळीकाराहारम्पि परिग्गण्हातीति ञातपरिञ्ञा. तस्स च उदयवयानुपस्सी होतीति तीरणपरिञ्ञा च योजेतब्बा. कामरागभूतं अभिज्झं सन्धाय ‘‘अभिज्झाकायगन्थ’’न्ति आह. असुभानुपस्सनाय हि कामरागप्पहानं होतीति. कामरागमुखेन वा सब्बलोभप्पहानं वदति. ‘‘फस्सपच्चया वेदना’’ति वुत्तत्ता आहारपरिजानने वुत्तनयेन फस्सपरिजाननञ्च योजेतब्बं.

सुखत्थमेव भवपत्थना होतीति वेदनाय तण्हं पजहन्तो भवोघं उत्तरति. सब्बं वेदनं दुक्खतो पस्सन्तो अत्तनो परेन अपुब्बं दुक्खं उप्पादितं, सुखं वा विनासितं न पस्सति, ततो ‘‘अनत्थं मे अचरी’’तिआदिआघातवत्थुप्पहानतो ब्यापादकायगन्थं भिन्दति. ‘‘सुखबहुले सुगतिभवे सुद्धी’’ति गहेत्वा गोसीलगोवतादीहि सुद्धिं परामसन्तो सुखपत्थनावसेनेव परामसतीति वेदनाय तण्हं पजहन्तो सीलब्बतुपादानं न उपादियति. मनोसञ्चेतना सङ्खारक्खन्धोव, सञ्ञा पन तंसम्पयुत्ताति सञ्ञासङ्खारे अनत्ततो पस्सन्तो मनोसञ्चेतनाय छन्दरागं पजहति एव, तञ्च परिग्गण्हाति तीरेति चाति ‘‘सञ्ञं सङ्खारे…पे… परिजानाती’’ति वुत्तं.

अविज्जाय विञ्ञाणे घनग्गहणं होतीति घनविनिब्भोगं कत्वा तं अनिच्चतो पस्सन्तो अविज्जोघं उत्तरति. मोहबलेनेव सीलब्बतपरामासं होतीति तं पजहन्तो सीलब्बतपरामासकायगन्थं भिन्दति.

‘‘यञ्च खो एतं, भिक्खवे, वुच्चति चित्तं इतिपि मनो इतिपि विञ्ञाणं इतिपि, तत्रास्सुतवा पुथुज्जनो नालं निब्बिन्दितुं, नालं विरज्जितुं, नालं विमुच्चितुं. तं किस्स हेतु? दीघरत्तंहेतं, भिक्खवे, अस्सुतवतो पुथुज्जनस्स अज्झोसितं ममायितं परामट्ठं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति (सं. नि. २.६१) –

वचनतो विञ्ञाणं निच्चतो पस्सन्तो दिट्ठुपादानं उपादियतीति अनिच्चतो पस्सन्तो तं न उपादियतीति.

कमादिविनिच्छयकथावण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.