२. वेदनाक्खन्धनिद्देसवण्णना
८. चक्खादयो पसादा ओळारिकमनोमयत्तभावपरियापन्ना कायवोहारं अरहन्तीति तब्बत्थुका अदुक्खमसुखा ‘‘कायिका’’ति परियायेन वुत्ता, न कायपसादवत्थुकत्ता. न हि चक्खादयो कायपसादा होन्तीति. सन्ततिवसेन खणादिवसेन चाति एत्थ अद्धासमयवसेन अतीतादिभावस्स अवचनं सुखादिवसेन भिन्नाय अतीतादिभाववचनतो. न हि सुखायेव अद्धावसेन समयवसेन च अतीतादिका होति, तथा दुक्खा अदुक्खमसुखा च कायिकचेतसिकादिभावेन भिन्ना. तेन वेदनासमुदयो अद्धासमयवसेन अतीतादिभावेन वत्तब्बतं अरहति समुदायस्स तेहि परिच्छिन्दितब्बत्ता, वेदनेकदेसा पन एत्थ गहिताति ते सन्ततिखणेहि परिच्छेदं अरहन्ति तत्थ तथापरिच्छिन्दितब्बानं गहितत्ताति. एकसन्ततियं पन सुखादिअनेकभेदसब्भावेन तेसु यो भेदो परिच्छिन्दितब्बभावेन गहितो, तस्स एकप्पकारस्स पाकटस्स परिच्छेदिका तंसहितद्वारालम्बनप्पवत्ता, अविच्छेदेन तदुप्पादकेकविधविसयसमायोगप्पवत्ता च सन्तति भवितुं अरहतीति तस्स भेदन्तरं अनामसित्वा परिच्छेदकभावेन गहणं कतं. लहुपरिवत्तिनो वा धम्मा परिवत्तनेनेव परिच्छेदं अरहन्तीति सन्ततिखणवसेन परिच्छेदो वुत्तो. पुब्बन्तापरन्तमज्झगताति एतेन हेतुपच्चयकिच्चवसेन वुत्तनयं दस्सेति.
११. किलेसग्गिसम्पयोगतो सदरथा. एतेन सभावतो ओळारिकतं दस्सेति, दुक्खविपाकट्ठेनाति एतेन ओळारिकविपाकनिप्फादनेन किच्चतो. कम्मवेगक्खित्ता कम्मपटिबद्धभूता च कायकम्मादिब्यापारविरहतो निरुस्साहा विपाका, सउस्साहा च किरिया अविपाका. सविपाका च सगब्भा विय ओळारिकाति तब्बिपक्खतो अविपाका सुखुमाति वुत्ता.
असातट्ठेनाति अमधुरट्ठेन. तेन सातपटिपक्खं अनिट्ठसभावं दस्सेति. दुक्खट्ठेनाति दुक्खमट्ठेन. तेन दुक्खानं सन्तापनकिच्चं दस्सेति. ‘‘यायं, भन्ते, अदुक्खमसुखा वेदना, सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति (म. नि. २.८८; सं. नि. ४.२६७) वचनतो अदुक्खमसुखा फरणसभावविरहतो असन्तानं कामरागपटिघानुसयानं अनुसयनस्स अट्ठानत्ता सन्ता, सुखे निकन्तिं परियादाय अधिगन्तब्बत्ता पधानभावं नीताति पणीताति. तथा अनधिगन्तब्बा च कामावचरजातिआदिसङ्करं अकत्वा समानजातियं ञाणसम्पयुत्तविप्पयुत्तादिके समानभेदे सुखतो पणीताति योजेतब्बा. उपब्रूहितानं धातूनं पच्चयभावेन सुखा खोभेति विबाधितानं पच्चयभावेन दुक्खा च. उभयम्पि कायं ब्यापेन्तं विय उप्पज्जतीति फरति. मदयमानन्ति मदं करोन्तं. छादयमानन्ति इच्छं उप्पादेन्तं, अवत्थरमानं वा. घम्माभितत्तस्स सीतोदकघटेन आसित्तस्स यथा कायो उपब्रूहितो होति, एवं सुखसमङ्गिनोपीति कत्वा ‘‘आसिञ्चमानं विया’’ति वुत्तं. एकत्तनिमित्तेयेवाति पथवीकसिणादिके एकसभावे एव निमित्ते. चरतीति नानावज्जने जवने वेदना विय विप्फन्दनरहितत्ता सुखुमा.
अधिप्पाये अकुसलताय अकोविदो. कुसलत्तिके…पे… आगतत्ताति ‘‘कुसलाकुसला वेदना ओळारिका, अब्याकता वेदना सुखुमा’’ति एवं आगतत्ता. भूमन्तरभेदे दस्सेतुं ‘‘यम्पी’’तिआदि आरद्धं. इमिना नीहारेनाति एतेन ‘‘कामावचरसुखतो कामावचरुपेक्खा सुखुमा’’तिआदिना सभावादिभेदेन च ओळारिकसुखुमभावं तत्र तत्रेव कथेन्तो न भिन्दतीति नयं दस्सेति.
लोकियलोकुत्तरमिस्सका कथिता, तस्मा एकन्तपणीते हीनपणीतानं उद्धटत्ता एवमेव एकन्तहीने च यथासम्भवं हीनपणीतता उद्धरितब्बाति अनुञ्ञातं होतीति उभयत्थ तदुद्धरणे न कुक्कुच्चायितब्बन्ति अत्थो.
अकुसलानं कुसलादीहि सुखुमत्ताभावतो पाळिया आगतस्स अपरिवत्तनीयभावेन ‘‘हेट्ठिमनयो न ओलोकेतब्बो’’ति वुत्तन्ति वदन्ति, तंतंवापनवसेन कथनेपि परिवत्तनं नत्थीति न परिवत्तनं सन्धाय ‘‘हेट्ठिमनयो न ओलोकेतब्बो’’ति वुत्तं, हेट्ठिमनयस्स पन वुत्तत्ता अवुत्तनयं गहेत्वा ‘‘तं तं वा पना’’ति वत्तुं युत्तन्ति ‘‘हेट्ठिमनयो न ओलोकेतब्बो’’ति वुत्तन्ति वेदितब्बो. बहुविपाका अकुसला दोसुस्सन्नताय ओळारिका, तथा अप्पविपाका कुसला. मन्ददोसत्ता अप्पविपाका अकुसला सुखुमा, तथा बहुविपाका कुसला च. ओळारिकसुखुमनिकन्तिवत्थुभावतो कामावचरादीनं ओळारिकसुखुमता. सापीति भावनामयाय भेदनेन दानमयसीलमयानञ्च पच्चेकं भेदनं नयतो दस्सितन्ति वेदितब्बं. सापीति वा तिविधापीति योजेतब्बं.
१३. जातिआदिवसेन असमानकोट्ठासता विसभागट्ठो. दुक्खविपाकतादिवसेन असदिसकिच्चता, असदिससभावता वा विसंसट्ठो, न असम्पयोगो. यदि सिया, दूरविपरियायेन सन्तिकं होतीति संसट्ठट्ठेन सन्तिकता आपज्जति, न च वेदनाय वेदनासम्पयोगो अत्थि. सन्तिकपदवण्णनाय च ‘‘सभागट्ठेन सरिक्खट्ठेन चा’’ति वक्खतीति वुत्तनयेनेव अत्थो वेदितब्बो.
न दूरतो सन्तिकं उद्धरितब्बन्ति कस्मा वुत्तं, किं यथा सन्तिकतो अकुसलतो अकुसला दूरेति उद्धरीयति, तथा ततो दूरतो कुसलतो कुसला सन्तिकेति उद्धरितुं न सक्काति? न सक्का. तथा हि सति कुसला कुसलाय सन्तिकेति कत्वा सन्तिकतो सन्तिकता एव उद्धरिता सिया, तथा च सति सन्तिकसन्तिकतरतावचनमेव आपज्जति, उपादायुपादाय दूरसन्तिकताव इध वुच्चति, तस्मा दूरतो दूरुद्धरणं विय सन्तिकतो सन्तिकुद्धरणञ्च न सक्का कातुं दूरदूरतरताय विय सन्तिकसन्तिकतरताय च अनधिप्पेतत्ता. अथ पन वदेय्य ‘‘न कुसला कुसलाय एव सन्तिकेति उद्धरितब्बा, अथ खो यतो सा दूरे, तस्सा अकुसलाया’’ति, तञ्च नत्थि. न हि अकुसलाय कुसला कदाचि सन्तिके अत्थीति. अथापि वदेय्य ‘‘या अकुसला कुसलाय सन्तिके, सा ततो दूरतो कुसलतो उद्धरितब्बा’’ति, तदपि नत्थि. न हि कुसले अकुसला अत्थि, या ततो सन्तिकेति उद्धरियेय्य, तस्मा इध वुत्तस्स दूरस्स दूरतो अच्चन्तविसभागत्ता दूरे सन्तिकं नत्थीति न सक्का दूरतो सन्तिकं उद्धरितुं, सन्तिके पनिध वुत्ते भिन्ने तत्थेव दूरं लब्भतीति आह ‘‘सन्तिकतो पन दूरं उद्धरितब्ब’’न्ति.
उपादायुपादाय दूरतो च सन्तिकं न सक्का उद्धरितुं. लोभसहगताय दोससहगता दूरे लोभसहगता सन्तिकेति हि वुच्चमाने सन्तिकतोव सन्तिकं उद्धरितं होति. तथा दोससहगताय लोभसहगता दूरे दोससहगता सन्तिकेति एत्थापि सभागतो सभागन्तरस्स उद्धटत्ता, न च सक्का ‘‘लोभसहगताय दोससहगता दूरे सा एव च सन्तिके’’ति वत्तुं दोससहगताय सन्तिकभावस्स अकारणत्ता, तस्मा विसभागता भेदं अग्गहेत्वा न पवत्ततीति सभागाब्यापकत्ता दूरताय दूरतो सन्तिकुद्धरणं न सक्का कातुं. न हि दोससहगता अकुसलसभागं सब्बं ब्यापेत्वा पवत्ततीति. सभागता पन भेदं अन्तोगधं कत्वा पवत्ततीति विसभागब्यापकत्ता सन्तिकताय सन्तिकतो दूरुद्धरणं सक्का कातुं. अकुसलता हि लोभसहगतादिसब्बविसभागब्यापिकाति. तेनाह ‘‘न दूरतो सन्तिकं उद्धरितब्ब’’न्तिआदि.
वेदनाक्खन्धनिद्देसवण्णना निट्ठिता.