१. रूपक्खन्धनिद्देसवण्णना

२. यं किञ्चीति एत्थ यन्ति सामञ्ञेन अनियमनिदस्सनं, किञ्चीति पकारन्तरभेदं आमसित्वा अनियमनिदस्सनं. उभयेनपि अतीतं वा…पे… सन्तिके वा अप्पं वा बहुं वा यादिसं वा तादिसं वा यं किञ्चीति नपुंसकनिद्देसारहं सब्बं ब्यापेत्वा सङ्गण्हातीति अञ्ञेसुपि नपुंसकनिद्देसारहेसु पसङ्गं दिस्वा तस्स अधिप्पेतत्थं अतिच्च पवत्तितो अतिप्पसङ्गस्स नियमनत्थं ‘‘रूप’’न्ति आह. यंकिञ्चीति सनिपातं यं-सद्दं किं-सद्दञ्च अनियमेकत्थदीपनवसेन एकं पदन्ति गहेत्वा ‘‘पदद्वयेनपी’’ति वुत्तं.

किञ्च, भिक्खवे, रूपं वदेथाति तुम्हेपि रूपं रूपन्ति वदेथ, तं केन कारणेन वदेथाति अत्थो, अथ वा केन कारणेन रूपं, तं कारणं वदेथाति अत्थो. अथेतेसु भिक्खूसु तुण्हीभूतेसु भगवा आह ‘‘रुप्पतीति खो’’तिआदि.

भिज्जतीति सीतादिसन्निपाते विसदिससन्तानुप्पत्तिदस्सनतो पुरिमसन्तानस्स भेदं सन्धायाह. भेदो च विसदिसताविकारापत्तीति भिज्जतीति विकारं आपज्जतीति अत्थो. विकारापत्ति च सीतादिसन्निपाते विसदिसरूपुप्पत्तियेव. अरूपक्खन्धानं पन अतिलहुपरिवत्तितो यथा रूपधम्मानं ठितिक्खणे सीतादीहि समागमो होति, येन तत्थ उतुनो ठितिप्पत्तस्स पुरिमसदिससन्तानुप्पादनसमत्थता न होति आहारादिकस्स वा, एवं अञ्ञेहि समागमो नत्थि. सङ्घट्टनेन च विकारापत्तियं रुप्पन-सद्दो निरुळ्हो, तस्मा अरूपधम्मानं सङ्घट्टनविरहितत्ता रूपधम्मानं विय पाकटस्स विकारस्स अभावतो च ‘‘रुप्पन्ती’’ति ‘‘रुप्पनलक्खणा’’ति च न वुच्चन्ति. जिघच्छापिपासाहि रुप्पनञ्च उदरग्गिसन्निपातेन होतीति दट्ठब्बं. एत्थ च कुप्पतीति एतेन कत्तुअत्थे रूपपदसिद्धिं दस्सेति, घट्टीयति पीळीयतीति एतेहि कम्मत्थे. कोपादिकिरियायेव हि रुप्पनकिरियाति. सो पन कत्तुभूतो कम्मभूतो च अत्थो भिज्जमानो होतीति इमस्सत्थस्स दस्सनत्थं ‘‘भिज्जतीति अत्थो’’ति वुत्तं. अथ वा रुप्पतीति रूपन्ति कम्मकत्तुत्थे रूपपदसिद्धि वुत्ता. विकारो हि रुप्पनन्ति. तेनेव ‘‘भिज्जतीति अत्थो’’ति कम्मकत्तुत्थेन भिज्जति-सद्देन अत्थं दस्सेति. यं पन रुप्पति भिज्जति, तं यस्मा कुप्पति घट्टीयति पीळीयति, तस्मा एतेहि च पदेहि पदत्थो पाकटो कतोति. ‘‘केनट्ठेना’’ति पुच्छासभागवसेन ‘‘रुप्पनट्ठेना’’ति वुत्तं. न केवलं सद्दत्थोयेव रुप्पनं, तस्स पनत्थस्स लक्खणञ्च होतीति अत्थलक्खणवसेन ‘‘रुप्पनलक्खणेन रूपन्तिपि वत्तुं वट्टती’’ति आह.

छिज्जित्वाति मुच्छापत्तिया मुच्चित्वा अङ्गपच्चङ्गानं छेदनवसेन वा छिज्जित्वा. अच्चन्तखारेन सीतोदकेनाति अतिसीतभावमेव सन्धाय अच्चन्तखारता वुत्ता सिया. न हि तं कप्पसण्ठानं उदकं सम्पत्तिकरं पथवीसन्धारकं कप्पविनासउदकं विय खारं भवितुं अरहति. तथा हि सति पथवी विलीयेय्याति. अवीचिमहानिरयेति सउस्सदं अवीचिनिरयं वुत्तं. तेनेव ‘‘तत्थ ही’’तिआदि वुत्तं. पेत्ति…पे… न होन्तीति एवंविधापि सत्ता अत्थीति अधिप्पायो एवंविधायेव होन्तीति नियमाभावतो. एवं कालकञ्जिकादीसुपीति. सरन्ता गच्छन्तीति सरीसप-सद्दस्स अत्थं वदति.

अभिसञ्ञूहित्वाति एत्थ समूहं कत्वातिपि अत्थो. एतेन सब्बं रूपं…पे… दस्सितं होतीति एतेन रूपक्खन्ध-सद्दस्स समानाधिकरणसमासभावं दस्सेति. तेनेवाह ‘‘न हि रूपतो…पे… अत्थी’’ति.

३. पक्खिपित्वाति एत्थ एकादसोकासेसु रूपं पक्खिपित्वाति अत्थो. न हि तत्थ मातिकंयेव पक्खिपित्वा मातिका ठपिता, अथ खो पकरणप्पत्तं रूपन्ति.

अपरो नयो…पे… एत्थेव गणनं गतन्ति एतेन अतीतंसेनाति भुम्मत्थे करणवचनन्ति दस्सेति. येन पकारेन गणनं गतं, तं दस्सेतुं ‘‘चत्तारो च महाभूता’’तिआदि वुत्तन्ति इमस्मिं अत्थे सति महाभूतुपादायरूपभावो अतीतकोट्ठासे गणनस्स कारणन्ति आपज्जति. न हि अतीतंसानं वेदनादीनं निवत्तनत्थं इदं वचनं ‘‘यं रूप’’न्ति एतेनेव तेसं निवत्तितत्ता, नापि रूपस्स अञ्ञप्पकारनिवत्तनत्थं सब्बप्पकारस्स तत्थ गणितत्ता, न च अनागतपच्चुप्पन्नाकारनिवत्तनत्थं अतीतंसवचनेन तंनिवत्तनतोति. अथ पन यं अतीतंसेन गणितं, तं चत्तारो च…पे… रूपन्ति एवं गणितन्ति अयमत्थो अधिप्पेतो, एवं सति गणनन्तरदस्सनं इदं सिया, न अतीतंसेन गणितप्पकारदस्सनं, तंदस्सने पन सति भूतुपादायरूपप्पकारेन अतीतंसे गणितं तंसभावत्ताति आपन्नमेव होति, न च एवंसभावता अतीतंसे गणितताय कारणं भवितुं अरहति एवंसभावस्सेव पच्चुप्पन्नानागतेसु गणितत्ता सुखादिसभावस्स च अतीतंसे गणितत्ता, तस्मा पुरिमनयो एव युत्तो. अज्झत्तबहिद्धानिद्देसेसुपि तादिसो एवत्थो लब्भतीति.

सुत्तन्तपरियायतोति परियायदेसनत्ता सुत्तस्स वुत्तं. अभिधम्मनिद्देसतोति निप्परियायदेसनत्ता अभिधम्मस्स निच्छयेन देसो निद्देसोति कत्वा वुत्तं. किञ्चापीतिआदीसु अयमधिप्पायो – सुत्तन्तभाजनीयत्ता यथा ‘‘अतीतं नन्वागमेय्या’’तिआदीसु अद्धानवसेन अतीतादिभावोव वुत्तो, तथा इधापि निद्दिसितब्बो (म. नि. ३.२७२, २७५; अप. थेर २.५५.२४४) सिया. एवं सन्तेपि सुत्तन्तभाजनीयम्पि अभिधम्मदेसनायेव सुत्तन्ते वुत्तधम्मे विचिनित्वा विभजनवसेन पवत्ताति अभिधम्मनिद्देसेनेव अतीतादिभावो निद्दिट्ठोति.

अद्धासन्ततिसमयखणवसेनाति एत्थ चुतिपटिसन्धिपरिच्छिन्ने काले अद्धा-सद्दो वत्ततीति ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिसुत्तवसेन (म. नि. १.१८; सं. नि. २.२०) विञ्ञायति. ‘‘तयोमे, भिक्खवे, अद्धा. कतमे तयो? अतीतो अद्धा, अनागतो अद्धा, पच्चुप्पन्नो अद्धा’’ति (इतिवु. ६३; दी. नि. ३.३०५) एत्थ पन परमत्थतो परिच्छिज्जमानो अद्धा निरुत्तिपथसुत्तवसेन (सं. नि. ३.६२) खणपरिच्छिन्नो युत्तो. तत्थ हि ‘‘यं, भिक्खवे, रूपं जातं पातुभूतं, ‘अत्थी’ति तस्स सङ्खा’’ति (सं. नि. ३.६२) विज्जमानस्स पच्चुप्पन्नता ततो पुब्बे पच्छा च अतीतानागतता वुत्ताति. येभुय्येन पन चुतिपटिसन्धिपरिच्छिन्नो (दी. नि. ३.३०५; इतिवु. ६३) सुत्तेसु अतीतादिको अद्धा वुत्तोति सो एव इधापि ‘‘अद्धावसेना’’ति वुत्तो. सीतं सीतस्स सभागो, तथा उण्हं उण्हस्स. यं पन सीतं उण्हं वा सरीरे सन्निपतितं सन्तानवसेन पवत्तमानं अनूनं अनधिकं एकाकारं, तं एको उतूति वुच्चति. सभागउतुनो अनेकन्तसभावतो एकगहणं कतं, एवं आहारेपि. एकवीथिएकजवनसमुट्ठानन्ति पञ्चछट्ठद्वारवसेन वुत्तं. सन्ततिसमयकथा विपस्सकानं उपकारत्थाय अट्ठकथासु कथिता.

निट्ठितहेतुपच्चयकिच्चं, निट्ठितहेतुकिच्चमनिट्ठितपच्चयकिच्चं, उभयकिच्चमसम्पत्तं, सकिच्चक्खणे पच्चुप्पन्नं. जनको हेतु, उपत्थम्भको पच्चयो, तेसं उप्पादनं उपत्थम्भनञ्च किच्चं. यथा बीजस्स अङ्कुरुप्पादनं पथवीआदीनञ्च तदुपत्थम्भनं कम्मस्स कटत्तारूपविपाकुप्पादनं आहारादीनं तदुपत्थम्भनं, एवं एकेकस्स कलापस्स चित्तुप्पादस्स च जनकानं कम्मानन्तरादिपच्चयभूतानं उपत्थम्भकानञ्च सहजातपुरेजातपच्छाजातानं किच्चं यथासम्भवं योजेतब्बं. तत्थ उप्पादक्खणे हेतुकिच्चं दट्ठब्बं, तीसुपि खणेसु पच्चयकिच्चं. पथवीआदीनं सन्धारणादिकं फस्सादीनं फुसनादिकञ्च अत्तनो अत्तनो किच्चं सकिच्चं, तस्स करणक्खणो सकिच्चक्खणो. सह वा किच्चेन सकिच्चं, यस्मिं खणे सकिच्चं रूपं वा अरूपं वा होति, सो सकिच्चक्खणो, तस्मिं खणे पच्चुप्पन्नं.

६. एत्तकमेवाति ‘‘तेसं तेस’’न्ति इमिना आमेडितवचनेन अभिब्यापनत्थेन वुत्तत्थमेव. ‘‘अपरस्स अपरस्सा’’ति दीपनं अपरदीपनं. परियेसतूति एतेन परियेसनाय अनिट्ठनामनिवत्तनस्स अकारणभावं दस्सेति. कम्मदोसेन हि चित्तविपल्लासदोसेन च गूथभक्खपाणादयो उम्मत्तकादयो च परियेसेय्युं दिट्ठिविपल्लासेन च योनकादयो न आरम्मणस्स परियेसितब्बसभावत्ता, अपरियेसितब्बसभावत्ता पन एतस्स अनिट्ठमिच्चेव नामन्ति अत्थो.

सम्पत्तिविरहतोति रूपादीनं देवमनुस्ससम्पत्तिभवे कुसलकम्मफलता समिद्धसोभनता च सम्पत्ति, तब्बिरहतोति अत्थो. ततो एव तं न परियेसितब्बन्ति. सोभनानि च कानिचि हत्थिरूपादीनि अकुसलकम्मनिब्बत्तानि न तेसंयेव हत्थिआदीनं सुखस्स हेतुभावं गच्छन्तीति तेसं सङ्गण्हनत्थं ‘‘अकन्त’’न्ति वुत्तं. तस्स तस्सेव हि सत्तस्स अत्तना कतेन कुसलेन निब्बत्तं सुखस्स पच्चयो होति, अकुसलेन निब्बत्तं दुक्खस्स. तस्मा कम्मजानं इट्ठानिट्ठता कम्मकारकसत्तस्स वसेन योजनारहा सिया. अट्ठकथायं पन ‘‘कुसलकम्मजं अनिट्ठं नाम नत्थी’’ति इदमेव वुत्तं, न वुत्तं ‘‘अकुसलकम्मजं इट्ठं नाम नत्थी’’ति. तेन अकुसलकम्मजम्पि सोभनं परसत्तानं इट्ठन्ति अनुञ्ञातं भविस्सति. कुसलकम्मजं पन सब्बेसं इट्ठमेवाति वदन्ति. तिरच्छानगतानं पन केसञ्चि मनुस्सरूपं अमनापं, यतो ते दिस्वाव पलायन्ति. मनुस्सा च देवतारूपं दिस्वा भायन्ति, तेसम्पि विपाकविञ्ञाणं तं रूपं आरब्भ कुसलविपाकं उप्पज्जति, तादिसस्स पन पुञ्ञस्स अभावा न तेसं तत्थ अभिरति होतीति अधिप्पायो. कुसलकम्मजस्स पन अनिट्ठस्साभावो विय अकुसलकम्मजस्स सोभनस्स इट्ठस्स अभावो वत्तब्बो. हत्थिआदीनम्पि हि अकुसलकम्मजं मनुस्सानं अकुसलविपाकस्सेव आरम्मणं, कुसलकम्मजं पन पवत्ते समुट्ठितं कुसलविपाकस्स. इट्ठारम्मणेन पन वोमिस्सकत्ता अप्पकं अकुसलकम्मजं बहुलं अकुसलविपाकुप्पत्तिया कारणं न भविस्सतीति सक्का वत्तुन्ति. विपाकं पन कत्थचि न सक्का वञ्चेतुन्ति विपाकवसेन इट्ठानिट्ठारम्मणववत्थानं सुट्ठु वुत्तं. तस्मा तं अनुगन्त्वा सब्बत्थ इट्ठानिट्ठता योजेतब्बा.

अनिट्ठा पञ्च कामगुणाति कस्मा वुत्तं, ननु ‘‘चक्खुविञ्ञेय्यानि रूपानि इट्ठानी’’ति (म. नि. १.१६६; २.१५५; ३.१९०; सं. नि. ५.३०) एवमादिना इट्ठानेव रूपादीनि ‘‘कामगुणा’’ति वुत्तानीति? कामगुणसदिसेसु कामगुणवोहारतो, सदिसता च रूपादिभावोयेव, न इट्ठता. ‘‘अनिट्ठा’’ति वा वचनेन अकामगुणता दस्सिताति कामगुणविसभागा रूपादयो ‘‘कामगुणा’’ति वुत्ता असिवे ‘‘सिवा’’ति वोहारो विय. सब्बानि वा इट्ठानिट्ठानि रूपादीनि तण्हावत्थुभावतो कामगुणायेव. वुत्तञ्हि ‘‘रूपा लोके पियरूपं सातरूप’’न्तिआदि (दी. नि. २.४००; म. नि. १.१३३; विभ. २०३). अतिसयेन पन कामनीयत्ता सुत्तेसु ‘‘कामगुणा’’ति इट्ठानि रूपादीनि वुत्तानीति.

द्वीसुपि हीनपणीतपदेसु ‘‘अकुसलकम्मजवसेन कुसलकम्मजवसेना’’ति वचनं ‘‘तेसं तेसं सत्तान’’न्ति सत्तवसेन नियमेत्वा विभजितत्ता, अयञ्चत्थो ‘‘तेसं तेस’’न्ति अवयवयोगे सामिवचनं कत्वा वुत्तोति वेदितब्बो. सत्तसन्तानपरियापन्नेसु कम्मजं विसिट्ठन्ति ‘‘कम्मजवसेना’’ति वुत्तं. यदि पन तेहि तेहीति एतस्मिं अत्थे तेसं तेसन्ति सामिवचनं, विसयविसयीसम्बन्धे वा, न कम्मजवसेनेव रूपादीनि विभत्तानि, सब्बेसं पन इन्द्रियबद्धानं वसेन विभत्तानीति विञ्ञायन्ति. एत्थ च पाकटेहि रूपादीहि नयो दस्सितोति चक्खादीसुपि हीनपणीतता योजेतब्बा.

मनापपरियन्तन्ति मनापं परियन्तं मरियादाभूतं पञ्चसु कामगुणेसु वदामीति अत्थो. किं कारणन्ति? यस्मा ते एकच्चस्स मनापा होन्ति, एकच्चस्स अमनापा, यस्स येव मनापा, तस्स तेव परमा, तस्मा तस्स तस्स अज्झासयवसेन कामगुणानं परमता होति, न तेसंयेव सभावतो.

एवन्ति इमस्मिं सुत्ते वुत्तनयेन. एकस्मिंयेव अस्सादनकुज्झनतो आरम्मणसभावस्सेव इट्ठानिट्ठाभावतो अनिट्ठं ‘‘इट्ठ’’न्ति गहणतो च, इट्ठं ‘‘अनिट्ठ’’न्ति गहणतो च इट्ठानिट्ठं नाम पाटियेक्कं पटिविभत्तं नत्थीति अत्थो. सञ्ञाविपल्लासेन चातिआदिना निब्बाने विय अञ्ञेसु आरम्मणेसु सञ्ञाविपल्लासेन इट्ठानिट्ठग्गहणं होति. पित्तुम्मत्तादीनं खीरसक्करादीसु दोसुस्सदसमुट्ठितसञ्ञाविपल्लासवसेन तित्तग्गहणं वियाति इममत्थं सन्धाय मनापपरियन्तता वुत्ताति दस्सेति.

विभत्तं अत्थीति च ववत्थितं अत्थीति अत्थो, अट्ठकथाचरियेहि विभत्तं पकासितन्ति वा. तञ्च मज्झिमकसत्तस्स वसेन ववत्थितं पकासितञ्च, अञ्ञेसञ्च विपल्लासवसेन इदं इट्ठं अनिट्ठञ्च होतीति अधिप्पायो. एवं ववत्थितस्स पनिट्ठानिट्ठस्स अनिट्ठं इट्ठन्ति च गहणे न केवलं सञ्ञाविपल्लासोव कारणं, धातुक्खोभवसेन इन्द्रियविकारापत्तिआदिना कुसलाकुसलविपाकुप्पत्तिहेतुभावोपीति सक्का वत्तुं. तथा हि सीतुदकं घम्माभितत्तानं कुसलविपाकस्स कायविञ्ञाणस्स हेतु होति, सीताभिभूतानं अकुसलविपाकस्स. तूलपिचुसम्फस्सो वणे दुक्खो निवणे सुखो, मुदुतरुणहत्थसम्बाहनञ्च सुखं उप्पादेति, तेनेव हत्थेन पहरणं दुक्खं, तस्मा विपाकवसेन आरम्मणववत्थानं युत्तं.

किञ्चापीतिआदिना सतिपि सञ्ञाविपल्लासे बुद्धरूपदस्सनादीसु कुसलविपाकस्सेव गूथदस्सनादीसु च अकुसलविपाकस्स उप्पत्तिं दस्सेन्तो तेन विपाकेन आरम्मणस्स इट्ठानिट्ठतं दस्सेति. विज्जमानेपि सञ्ञाविपल्लासे आरम्मणेन विपाकनियमदस्सनं आरम्मणनियमदस्सनत्थमेव कतन्ति.

अपिच द्वारवसेनपीतिआदिना द्वारन्तरे दुक्खस्स सुखस्स च पच्चयभूतस्स द्वारन्तरे सुखदुक्खविपाकुप्पादनतो विपाकेन आरम्मणनियमदस्सनेन एकस्मिंयेव च द्वारे समानस्सेव मणिरतनादिफोट्ठब्बस्स सणिकं फुसने पोथने च सुखदुक्खुप्पादनतो विपाकवसेन इट्ठानिट्ठता दस्सिताति विञ्ञायति.

हेट्ठिमनयोति मज्झिमकसत्तस्स विपाकस्स च वसेन ववत्थितं आरम्मणं गहेत्वा ‘‘तेसं तेसं सत्तानं उञ्ञात’’न्ति (विभ. ६) च आदिना वुत्तनयो. सम्मुतिमनापन्ति मज्झिमकसत्तस्स विपाकस्स च वसेन सम्मतं ववत्थितं मनापं, तं पन सभावेनेव ववत्थितन्ति अभिन्दितब्बतोव न भिन्दतीति अधिप्पायो. सञ्ञाविपल्लासेन नेरयिकादीहिपि पुग्गलेहि मनापन्ति गहितं पुग्गलमनापं ‘‘तं तं वा पना’’तिआदिना भिन्दति. वेमानिकपेतरूपम्पि अकुसलकम्मजत्ता कम्मकारणादिदुक्खवत्थुभावतो च ‘‘मनुस्सरूपतो हीन’’न्ति वुत्तं.

७. ओळारिकरूपानं वत्थारम्मणपटिघातवसेन सुपरिग्गहितता, सुखुमानं तथा अभावतो दुप्परिग्गहितता च योजेतब्बा. दुप्परिग्गहट्ठेनेव लक्खणदुप्पटिविज्झनता दट्ठब्बा. दसविधन्ति ‘‘दूरे’’ति अवुत्तस्स दस्सनत्थं वुत्तं. वुत्तम्पि पन ओकासतो दूरे होतियेव.

हेट्ठिमनयोति ‘‘इत्थिन्द्रियं…पे… इदं वुच्चति रूपं सन्तिके’’ति (विभ. ७) एवं लक्खणतो द्वादसहत्थवसेन ववत्थितओकासतो च दस्सेत्वा निय्यातितनयो. सो लक्खणोकासवसेन दूरसन्तिकेन सह गहेत्वा निय्यातितत्ता भिन्दमानो मिस्सकं करोन्तो गतो. अथ वा भिन्दमानोति सरूपदस्सनेन लक्खणतो येवापनकेन ओकासतोति एवं लक्खणतो ओकासतो च विसुं करोन्तो गतोति अत्थो. अथ वा लक्खणतो सन्तिकदूरानं ओकासतो दूरसन्तिकभावकरणेन सन्तिकभावं भिन्दित्वा दूरभावं, दूरभावञ्च भिन्दित्वा सन्तिकभावं करोन्तो पवत्तोति ‘‘भिन्दमानो गतो’’ति वुत्तं. इध पनाति ‘‘तं तं वा पन रूपं उपादाय उपादाया’’ति इध पुरिमनयेन लक्खणतो दूरं ओकासतो सन्तिकभावकरणेन न भिन्दति भगवा, न च ओकासदूरतो विसुं करणेन, नापि ओकासदूरेन वोमिस्सककरणेनाति अत्थो. किं पन करोतीति? ओकासतो दूरमेव भिन्दति. एत्थ पन न पुब्बे वुत्तनयेन तिधा अत्थो दट्ठब्बो. न हि ओकासतो दूरं लक्खणतो सन्तिकं करोति, लक्खणतो वा विसुं तेन वा वोमिस्सकन्ति. ओकासतो दूरस्स पन ओकासतोव सन्तिकभावकरणं इध ‘‘भेदन’’न्ति वेदितब्बं. इध पन न लक्खणतो दूरं भिन्दतीति एत्थापि वा न पुब्बे वुत्तनयेन तिधा भेदस्स अकरणं वुत्तं, लक्खणतो सन्तिकदूरानं पन लक्खणतो उपादायुपादाय दूरसन्तिकभावो नत्थीति लक्खणतो दूरस्स लक्खणतोव सन्तिकभावाकरणं लक्खणतो दूरस्स अभेदनन्ति दट्ठब्बं. पुरिमनयो विय अयं नयो न होतीति एत्तकमेव हि एत्थ दस्सेतीति भिन्दमानोति एत्थ च अञ्ञथा भेदनं वुत्तं, भेदनं इध च अञ्ञथा वुत्तन्ति.

रूपक्खन्धनिद्देसवण्णना निट्ठिता.