६. सहजातपच्चयनिद्देसवण्णना

६. ‘‘अञ्ञमञ्ञस्साति अञ्ञो अञ्ञस्सा’’ति पोराणपाठो. पाळियं पन ‘‘अञ्ञमञ्ञं सहजातपच्चयेन पच्चयो’’ति एत्थ वुत्तस्स ‘‘अञ्ञमञ्ञ’’न्ति इमस्स अत्थो वत्तब्बो, न अवुत्तस्स ‘‘अञ्ञमञ्ञस्सा’’ति इमस्स, न च समानत्थस्सपि सद्दन्तरस्स अत्थे वुत्ते सद्दन्तरस्स अत्थो वुत्तो होति, तस्मा ‘‘अञ्ञमञ्ञन्ति अञ्ञो अञ्ञस्सा’’ति पठन्ति. ओक्कन्तीति पञ्चवोकारपटिसन्धियेव वुच्चति, न इतराति इमिना अधिप्पायेनाह ‘‘पञ्चवोकारभवे पटिसन्धिक्खणे’’ति. रूपिनो धम्मा अरूपीनं धम्मानन्ति इदं यदिपि पुब्बे ‘‘ओक्कन्तिक्खणे नामरूप’’न्ति वुत्तं, तथापि न तेन खणन्तरे पच्चयभावो रूपीनं निवारितोति तन्निवारणत्थं वुत्तं. कञ्चि कालेति केचि किस्मिञ्चि कालेति वा अत्थो. तेन रूपिनो धम्मा केचि वत्थुभूता किस्मिञ्चि पटिसन्धिकालेति रूपन्तरानं वत्थुस्स च कालन्तरे अरूपीनं सहजातपच्चयं पुब्बे अनिवारितं निवारेति. एवञ्च कत्वा ‘‘कञ्चि काल’’न्ति वा ‘‘किस्मिञ्चि काले’’ति वा वत्तब्बे विभत्तिविपल्लासो कतो. तेन हि ‘‘कञ्ची’’ति उपयोगेकवचनं ‘‘रूपिनो धम्मा’’ति एतेन सह सम्बन्धेन पच्चत्तबहुवचनस्स आदेसो, ‘‘काले’’ति इमिना सम्बन्धेन भुम्मेकवचनस्साति विञ्ञायति. पुरिमेन च ‘‘एको खन्धो वत्थु च तिण्णन्नं खन्धान’’न्तिआदिना नामसहितस्सेव वत्थुस्स ‘‘नामस्स पच्चयो’’ति वत्तब्बत्ते आपन्ने एतेन केवलस्सेव तथा वत्तब्बतं दस्सेति.

तयो न अञ्ञमञ्ञवसेनाति लब्भमानेपि कत्थचि अञ्ञमञ्ञसहजातपच्चयभावे वचनेन असङ्गहितत्ता तस्स एवं वुत्तन्ति दट्ठब्बं. चतुसमुट्ठानिकस्स रूपस्स एकदेसभूते कम्मसमुट्ठानरूपे समुदायेकदेसवसेन सामिवचनं दट्ठब्बं, निद्धारणे वा.

सहजातपच्चयनिद्देसवण्णना निट्ठिता.