२. आरम्मणपच्चयनिद्देसवण्णना

२. उप्पज्जनक्खणेयेवाति एतेन वत्तमानक्खणेकदेसेन सब्बं वत्तमानक्खणं गय्हतीति दट्ठब्बं. न हि उप्पज्जनक्खणेयेव चक्खुविञ्ञाणादीनं रूपादीनि आरम्मणपच्चयो, अथ खो सब्बस्मिं वत्तमानक्खणेति. तेन आलम्बियमानानम्पि रूपादीनं चक्खुविञ्ञाणादिवत्तमानताय पुरे पच्छा च विज्जमानानं आरम्मणपच्चयत्ताभावं दस्सेति, को पन वादो अनालम्बियमानानं. न एकतो होन्तीति नीलादीनि सब्बरूपानि सह न होन्ति, तथा सद्दादयोपीति अत्थो. ‘‘यं य’’न्ति हि वचनं रूपादीनि भिन्दतीति. तत्थ पुरिमेनत्थेन ‘‘उप्पज्जन्ती’’ति वचनेन आरम्मणपच्चयभावलक्खणदीपनत्थं ‘‘यं यं धम्म’’न्तिआदि वुत्तन्ति दस्सेति, पच्छिमेन ‘‘यं य’’न्ति वचनेन रूपादिभेददीपनत्थन्ति. ‘‘यं यं वा पनारब्भा’’ति एतस्स वण्णनायं दस्सितसब्बारम्मणादिवसेन वा इधापि अत्थो गहेतब्बोति.

एवं वुत्तन्ति यथा नदीपब्बतानं सन्दनं ठानञ्च पवत्तं अविरतं अविच्छिन्नन्ति सन्दन्ति तिट्ठन्तीति वत्तमानवचनं वुत्तं, एवं ‘‘ये ये धम्मा’’ति अतीतानागतपच्चुप्पन्नानं सब्बसङ्गहसमुदायवसेन गहितत्ता तेसं उप्पज्जनं पवत्तनं अविरतन्ति उप्पज्जन्तीति वत्तमानवचनं वुत्तन्ति अधिप्पायो. इमे पन न हेतादिपच्चया सब्बेपि अतीतानागतानं होन्ति. न हि अतीतो च अनागतो च अत्थि, यस्सेते पच्चया सियुं. एवञ्च कत्वा अतीतत्तिके अतीतानागतानं न कोचि पच्चयो वुत्तो, तस्मा इधापि ‘‘उप्पज्जन्ती’’ति वचनेन येसं रूपादयो आरम्मणधम्मा आरम्मणपच्चया होन्ति, ते पच्चुप्पन्नाव दस्सिताति दट्ठब्बा. तेसु हि दस्सितेसु अतीतानागतेसु तंतंपच्चया अहेसुं भविस्सन्ति चाति अयमत्थो दस्सितो होति, न पन तंतंपच्चयवन्तता. पच्चयवन्तो हि पच्चुप्पन्नायेवाति.

एत्थ च ‘‘यं यं धम्मं आरब्भा’’ति एकवचननिद्देसं कत्वा पुन ‘‘ते ते धम्मा’’ति बहुवचननिद्देसो ‘‘यं य’’न्ति वुत्तस्स आरम्मणधम्मस्स अनेकभावोपि अत्थीति दस्सनत्थो. चत्तारो हि खन्धा सहेव आरम्मणपच्चया होन्ति, ते सब्बेपि आरब्भ उप्पज्जमानम्पि तेसु एकेकं आरब्भ उप्पज्जमानं न न होति, तस्मा वेदनादीसु फस्सादीसु च एकेकस्सपि आरम्मणपच्चयभावदस्सनत्थं ‘‘यं य’’न्ति वुत्तं, सब्बेसं एकचित्तुप्पादपरियापन्नानं आरम्मणपच्चयभावदस्सनत्थं ‘‘ते ते’’ति. तत्थ यो च रूपादिको एकेकोव यंयं-सद्देन वुत्तो, ये च अनेके फस्सादयो एकेकवसेन यंयं-सद्देन वुत्ता, ते सब्बे गहेत्वा ‘‘ते ते’’ति वुत्तन्ति दट्ठब्बं. अथ वा यस्मिं काले आरब्भ उप्पज्जन्ति, तस्मिं काले नीलादीसु चित्तुप्पादेसु च एकेकमेव आरब्भ उप्पज्जन्तीति दस्सनत्थं ‘‘यं य’’न्ति वुत्तं, ते पन आलम्बियमाना रूपारम्मणधम्मा च अनेके, तथा सद्दादिआरम्मणधम्मा चाति दस्सनत्थं ‘‘ते ते’’ति.

निब्बानारम्मणं कामावचररूपावचरकुसलस्स अपरियापन्नतो कुसलविपाकस्स कामावचररूपावचरकिरियस्स चाति इमेसं छन्नं रासीनं आरम्मणपच्चयो होतीति इदं पुब्बेनिवासानुस्सतिञाणेन खन्धपटिबद्धानुस्सरणकाले निब्बानम्पि रूपावचरकुसलकिरियानं आरम्मणं होतीति इमिना अधिप्पायेन वुत्तं. एवं सति यथा ‘‘अप्पमाणा खन्धा पुब्बेनिवासानुस्सतिञाणस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१२.५८) वुत्तं, एवं ‘‘निब्बान’’न्ति च वत्तब्बं सिया, न च तं वुत्तं. न हि निब्बानं पुब्बे निवुट्ठं असङ्खतत्ता, न च पुब्बेनिवासानुस्सतिञाणेन पुब्बे निवुट्ठेसु अप्पमाणक्खन्धेसु ञातेसु निब्बानजानने न तेन पयोजनं अत्थि. यथा हि चेतोपरियञाणं चित्तं विभावेन्तमेव चित्तारम्मणजाननस्स कामावचरस्स पच्चयो होति, एवमिदम्पि अप्पमाणक्खन्धे विभावेन्तमेव तदारम्मणजाननस्स कामावचरस्स पच्चयो होतीति. दिट्ठनिब्बानोयेव च पुब्बे निवुट्ठे अप्पमाणक्खन्धे अनुस्सरति, तेन यथादिट्ठमेव निब्बानं तेसं खन्धानं आरम्मणन्ति दट्ठब्बं, न पन पुब्बेनिवासानुस्सतिञाणेन तदारम्मणविभावनं कातब्बं. विभूतमेव हि तं तस्साति. एवं अनागतंसञाणेपि यथारहं योजेतब्बं, तस्मा निब्बानं न कस्सचि रूपावचरस्स आरम्मणन्ति ‘‘चतुन्नं रासीन’’न्ति वत्तुं युत्तं.

आरम्मणपच्चयनिद्देसवण्णना निट्ठिता.