७. पञ्हावारविभङ्गवण्णना

४०१-४०३. येहि पच्चयेहि कुसलो कुसलस्स पच्चयो होति, ते पच्चये पटिपाटिया दस्सेतुन्ति यथाक्कमेन आगतागतपटिपाटिया दस्सेतुन्ति अत्थो. कुसलो कुसलस्साति निदस्सनमत्तमेतं, तेन कुसलो कुसलादीनं, अकुसलो अकुसलादीनं, अब्याकतो अब्याकतादीनं, कुसलाब्याकता कुसलादीनन्तिआदिको सब्बो पभेदो निदस्सितो होतीति यथानिदस्सिते सब्बे गहेत्वा आह ‘‘ते पच्चये पटिपाटिया दस्सेतु’’न्ति.

४०४. दत्वाति एत्थ दा-सद्दो सोधनत्थोपि होतीति मन्त्वा आह ‘‘विसुद्धं कत्वा’’ति. तेसञ्हि तं चित्तन्ति तेसन्ति वत्तब्बतारहं सकदागामिमग्गादिपुरेचारिकं तं गोत्रभुचित्तन्ति अधिप्पायो. विपस्सनाकुसलं पन कामावचरमेवाति पच्चयुप्पन्नं भूमितो ववत्थपेति. तेनेवाति धम्मवसेनेव दस्सनतो, देसनन्तरत्ताति अधिप्पायो.

४०५. अस्सादनं सरागस्स सोमनस्सस्स ससोमनस्सस्स रागस्स च किच्चन्ति आह ‘‘अनुभवति चेव रज्जति चा’’ति. अभिनन्दनं पीतिकिच्चसहिताय तण्हाय किच्चन्ति आह ‘‘सप्पीतिकतण्हावसेना’’ति. दिट्ठाभिनन्दना दिट्ठियेव. एत्थ पन पच्छिमत्थमेव गहेत्वा ‘‘अभिनन्दन्तस्स अत्ता अत्तनियन्तिआदिवसेन…पे… दिट्ठि उप्पज्जती’’ति वुत्तं. अभिनन्दना पन दिट्ठाभिनन्दनायेवाति न सक्का वत्तुं ‘‘भावनाय पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स आरम्मण…पे… भावनाय पहातब्बं रागं अस्सादेति अभिनन्दती’’ति (पट्ठा. २.८.७२) वचनतो, तस्मा पुरिमोपि अत्थो वुत्तोति दट्ठब्बो. द्वीसु पन सोमनस्ससहगतचित्तेसु यथावुत्तेन सोमनस्सेन रागेन च अस्सादेन्तस्स तेसुयेव सप्पीतिकतण्हाय चतूसुपि दिट्ठाभिनन्दनाय अभिनन्दन्तस्स च दिट्ठि उप्पज्जतीतिपि सक्का योजेतुं. जातिवसेनाति सुचिण्णसामञ्ञवसेनाति अत्थो.

४०६. तदारम्मणताति तदारम्मणभावेन. विभत्तिलोपो हेत्थ कतोति. भाववन्ततो वा अञ्ञो भावो नत्थीति भावेनेव विपाकं विसेसेति, विपाको तदारम्मणभावभूतोति अत्थो. विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनविपाकानं विय न कामावचरविपाकानं नियोगतो ववत्थितं इदञ्च कम्मं आरम्मणन्ति तं लब्भमानम्पि न वुत्तं. तदारम्मणेन पन कुसलारम्मणभावेन समानलक्खणताय कम्मारम्मणा पटिसन्धिआदयोपि दस्सितायेवाति दट्ठब्बा. पटिलोमतो वा एकन्तरिकवसेन वाति वदन्तेन अनुलोमतो समापज्जने येभुय्येन आसन्नसमापत्तिया आरम्मणभावो दस्सितोति दट्ठब्बो. यथा पन पटिलोमतो एकन्तरिकवसेन च समापज्जन्तस्स अनासन्नापि समापत्ति आरम्मणं होति, एवं अनुलोमतो समापज्जन्तस्सपि भवेय्याति. ‘‘चेतोपरियञाणस्सातिआदीनि परतो आवज्जनाय योजेतब्बानी’’ति वत्वा ‘‘या एतेसं आवज्जना, तस्सा’’ति अत्थो वुत्तो, एवं सति ‘‘इद्धिविधञाणस्सा’’तिपि वत्तब्बं सिया. यस्मा पन कुसला खन्धा अब्याकतस्स इद्धिविधञाणस्स आरम्मणं न होन्तीति तं न वुत्तं, चेतोपरियञाणादीनञ्च होन्तीति तानि वुत्तानि, तस्मा किरियानं चेतोपरियञाणादीनं याय कायचि आवज्जनाय च कुसलारम्मणाय कुसला खन्धा आरम्मणपच्चयेन पच्चयोति एवमत्थो दट्ठब्बो.

४०७-४०९. विप्पटिसारादिवसेन वाति आदि-सद्देन आदीनवदस्सनेन सभावतो च अनिट्ठतामत्तं सङ्गण्हाति, अक्खन्तिभेदा वा.

४१०. रूपायतनं चक्खुविञ्ञाणस्सातिआदिना विञ्ञाणकायेहि नियतारम्मणेहि अब्याकतस्स अब्याकतानं आरम्मणपच्चयभावं निदस्सेति. सब्बस्स हि वत्तुं असक्कुणेय्यत्ता एकस्मिं सन्ताने धम्मानं एकदेसेन निदस्सनं करोतीति.

४१३-४१६. चतुभूमकं कुसलं आरम्मणाधिपतिपच्चयभावेन दस्सितं, पच्चयुप्पन्नं पन कामावचरमेव.

४१७. अपुब्बतो चित्तसन्तानतो वुट्ठानं भवङ्गमेव, तं पन मूलागन्तुकभवङ्गसङ्खातं तदारम्मणं पकतिभवङ्गञ्च. अनुलोमं सेक्खाय फलसमापत्तियाति एत्थ कायचि सेक्खफलसमापत्तिया अवज्जेतब्बत्ता वत्तब्बं नत्थीति नेवसञ्ञानासञ्ञायतनकुसलं फलसमापत्तियाति इमं निब्बिसेसनं फलसमापत्तिं उद्धरित्वा दस्सेन्तो आह ‘‘फलसमापत्तियाति अनागामिफलसमापत्तिया’’ति. कामावचरकिरिया दुविधस्सपि वुट्ठानस्साति एत्थ किरियानन्तरं तदारम्मणवुट्ठाने यं वत्तब्बं, तं चित्तुप्पादकण्डे वुत्तमेव.

ता उभोपि…पे… द्वादसन्नन्ति इदं सोमनस्ससहगतमनोविञ्ञाणधातुवसेन वुत्तं, उपेक्खासहगता पन यथावुत्तानं दसन्नं विञ्ञाणधातूनं वोट्ठब्बनकिरियस्स मनोधातुकिरियस्स चाति द्वादसन्नं होतीति दट्ठब्बं.

४२३. दानादिपुञ्ञकिरियायत्ता सब्बसम्पत्तियो पटिविज्झित्वाति सम्बन्धो. न पनेतं एकन्तेन गहेतब्बन्ति ‘‘बलवचेतनाव लब्भति, न दुब्बला’’ति एतं एकन्तं न गहेतब्बं, दळ्हं वा न गहेतब्बन्ति अधिप्पायो. किं कारणन्ति? बलवतो दुब्बलस्स वा कतोकासस्स अन्तरायं पटिबाहित्वा विपच्चनतो ‘‘यंकञ्चि यदि विपाकं जनेति, उपनिस्सयो न होती’’ति नवत्तब्बत्ता चाति दस्सेन्तो ‘‘कतोकासञ्ही’’तिआदिमाह. विपाकत्तिके पन पञ्हावारपच्चनीये ‘‘विपाकधम्मधम्मो विपाकस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो, कम्मपच्चयेन पच्चयो’’ति (पट्ठा. १.३.९३) कम्मपच्चयस्स विसुं उद्धटत्ता, वेदनात्तिके च पञ्हावारपच्चनीये ‘‘नहेतुपच्चया नआरम्मणपच्चया नउपनिस्सये अट्ठा’’ति (पट्ठा. १.२.८७) वुत्तत्ता ‘‘विपाकजनकम्पि किञ्चि कम्मं उपनिस्सयपच्चयो न होती’’ति सक्का वत्तुन्ति.

तस्मिं वा विरुद्धोति तंनिमित्तं विरुद्धो, विरुद्धन्ति वा पाठो. ओमानन्ति परस्स पवत्तओमानं. रागो रञ्जनवसेन पवत्ता कामरागतण्हा, ‘‘इति मे चक्खुं सिया अनागतमद्धानं, इति रूपा’’ति अप्पटिलद्धस्स पटिलाभाय चित्तपणिदहनतण्हा पत्थनाति अयमेतेसं विसेसो.

तेसु अञ्ञम्पीति तेसु यंकिञ्चि पुब्बे हनिततो अञ्ञम्पि पाणं हनतीति अत्थो.

पुनप्पुनं आणापनवसेन वाति मातुघातकम्मेन सदिसताय पुब्बे पवत्तायपि आणत्तचेतनाय मातुघातकम्मनामं आरोपेत्वा वदन्ति. एस नयो द्वीहि पहारेहीति एत्थापि.

यथेव हि…पे… उप्पादेति नामाति रागं उपनिस्साय दानं देतीति रागं उपनिस्साय दानवसेन सद्धं उप्पादेतीति अयमत्थो वुत्तो होतीति इमिना अधिप्पायेन वदति. यथा रागं उपनिस्साय दानं देतीतिएवमादि होति, एवं रागादयो सद्धादीनं उपनिस्सयपच्चयोति इदम्पि होतीति दस्सेति. कायिकं सुखन्तिआदीनं एकतो दस्सनेन विसुंयेव न एतेसं पच्चयभावो, अथ खो एकतोपीति दस्सितं होतीति दट्ठब्बं.

४२५. उपत्थम्भकत्तेन पच्चयत्तायेवाति एतेन इदं दस्सेति – न पुरिमवारेसु विय इमस्मिं पच्चयेन उप्पत्ति वुच्चति, अथ खो तस्स तस्स पच्चयुप्पन्नस्स तेसं तेसं धम्मानं तंतंपच्चयभावो, न च पच्छाजातक्खन्धा उपत्थम्भकत्तेन पच्चया न होन्ति, तेनेस पच्छाजातपच्चयो इध अनुलोमतो आगतोति.

४२७. चेतना वत्थुस्सपि पच्चयोति अत्तनो पतिट्ठाभूतस्सपि कम्मपच्चयोति अधिप्पायो.

कस्मा पनेत्थ पच्चयवारे विय निस्सयअत्थिअविगतेसु दुमूलकदुकावसाना पञ्हा न उद्धटाति? अलब्भमानत्ता. तत्थ हि पच्चयुप्पन्नप्पधानत्ता देसनाय कुसलो च अब्याकतो च धम्मा एकतो उप्पज्जमाना कुसलाब्याकतपच्चया लब्भन्तीति ‘‘कुसलञ्च अब्याकतञ्च धम्मं पच्चया कुसलो च अब्याकतो च धम्मा उप्पज्जन्ती’’ति (पट्ठा. १.१.२४६) वुत्तं. यतो ततो वा उभयपच्चयतो पच्चयुप्पन्नस्स उप्पत्तिमत्तंयेव हि तत्थ अधिप्पेतं, न उभयस्स उभिन्नं पच्चयभावोति. इध पन पच्चयप्पधानत्ता देसनाय कुसलाब्याकता कुसलाब्याकतानं उभिन्नं निस्सयादिभूता न लब्भन्तीति ‘‘कुसलो च अब्याकतो च धम्मा कुसलस्स च अब्याकतस्स च धम्मस्स निस्सयपच्चयेन पच्चयो’’तिआदि न वुत्तं.

पञ्हावारविभङ्गवण्णना निट्ठिता.

पञ्हावारस्स घटने अनुलोमगणना

४३९. ‘‘एत्थ पन पुरेजातम्पि लब्भती’’ति वुत्तं, यदि एवं कस्मा ‘‘तथा’’ति वुत्तन्ति? ‘‘तीणी’’ति गणनमत्तसामञ्ञतो.

४४०. ‘‘अधिपतिपच्चये ठपेत्वा वीमंसं सेसाधिपतिनो विसभागा’’ति पुरिमपाठो निदस्सनवसेन दट्ठब्बो. यस्मा पन हेतुपच्चयस्स विसभागेन एकेन आरम्मणेन निदस्सनं अकत्वा अनन्तरादीनि वदन्तो सब्बे विसभागे दस्सेति, तस्मा इन्द्रियमग्गपच्चया च विसभागा दस्सेतब्बाति ‘‘अधिपतिन्द्रियमग्गपच्चयेसु ठपेत्वा पञ्ञं सेसा धम्मा विसभागा’’ति पठन्ति. तथा भावाभावतो हेतुपच्चयभावे सहजातादिपच्चयभावतो. ननु यथा अमोहवज्जानं हेतूनं हेतुपच्चयभावे अधिपतिन्द्रियमग्गपच्चयभावो नत्थीति पञ्ञावज्जानं अधिपतिपच्चयादीनं विसभागता, एवं कुसलादिहेतूनं हेतुपच्चयभावे विपाकपच्चयभावाभावतो हेतुवज्जानं विपाकानं विसभागताय भवितब्बन्ति? न भवितब्बं, उभयपच्चयसहिते चित्तचेतसिकरासिम्हि हेतुपच्चयभावे विपाकपच्चयत्ताभावाभावतो. यथा हि हेतुसहजातपच्चयसहितरासिम्हि सतिपि हेतुवज्जसब्भावे हेतूनं हेतुपच्चयभावे सहजातपच्चयत्ताभावो नत्थीति न हेतुवज्जानं सहजातानं हेतुस्स विसभागता वुत्ता, एवमिधापीति. एस नयो विप्पयुत्तपच्चयेपि. अपिच पच्चयुप्पन्नस्सेव पच्चया वुच्चन्तीति पच्चयुप्पन्नक्खणे तथा भावाभाववसेन सभागताय वुच्चमानाय नानाक्खणवसेन विसभागता तस्सेव न वत्तब्बाति.

कुसला वीमंसाति इदं ‘‘कुसला वीमंसाधिपती’’ति एवं वत्तब्बं. न हि अनधिपतिभूता वीमंसा अधिपतिपच्चयो होतीति.

४४१-४४३. ‘‘सचे पन विप्पयुत्तपच्चयो पविसति, इतरानि द्वे लभती’’ति पुरिमपाठो, ‘‘कुसलो धम्मो कुसलस्स च अब्याकतस्स चा’’ति इदं पन न लब्भतीति ‘‘कुसलो अब्याकतस्स, अब्याकतो अब्याकतस्साति द्वे लभती’’ति पठन्ति. ऊनतरगणनेसूति येसु पविट्ठेसु ऊनतरा गणना होति, तेसूति अत्थो. तीणि द्वे एकन्ति एवं ऊनतरगणनेसु वा अञ्ञमञ्ञादीसु पविसन्तेसु तेसं वसेन तिकतो ऊनं यथालद्धञ्च एकन्ति गणनं लभतीति अत्थो.

अविपाकानीति अनामट्ठविपाकानीति अत्थो, न विपाकहेतुरहितानीति.

तत्थ सब्बेपि सहजातविपाका चेवाति तत्थ ये सहजाता पच्चयुप्पन्ना वुत्ता, ते सब्बेपि विपाका चेव विपाकसहजातरूपा चाति अत्थो. तंसमुट्ठानरूपा चाति एत्थ पटिसन्धियं कटत्तारूपम्पि तंसमुट्ठानग्गहणेनेव सङ्गण्हातीति वेदितब्बं. ‘‘तंसमुट्ठानरूपकटत्तारूपा च लब्भन्ती’’तिपि पठन्ति. चतुत्थे विपाकचित्तसमुट्ठानरूपमेवाति एत्थापि एसेव नयो. ‘‘कटत्तारूपञ्चा’’तिपि पन पठन्ति.

एवम्पीति ‘‘एतेसु पन घटनेसु सब्बपठमानी’’तिआदिना वुत्तनयेनपि. घटनेसु पन यो यो पच्चयो मूलभावेन ठितो, तंपच्चयधम्मानं निरवसेसऊनऊनतरऊनतमलाभक्कमेन घटना वुच्चति, निरवसेसलाभे च पच्चयुप्पन्नानं निरवसेसलाभक्कमेन. तथा ऊनलाभादीसूति अयं कमो वेदितब्बो.

हेतुमूलकं निट्ठितं.

४४५. वत्थुवसेन सनिस्सयं वक्खतीति न इदं लब्भमानस्सपि वत्थुस्स वसेन घटनन्ति अधिप्पायेनाह ‘‘आरम्मणवसेनेव वा’’ति.

४४६. सहजातेन पन सद्धिं आरम्मणाधिपति, आरम्मणाधिपतिना च सद्धिं सहजातं न लब्भतीति इदं यथा सहजातपुरेजाता एको निस्सयपच्चयो अत्थिपच्चयो च होन्ति, एवं सहजातारम्मणाधिपतीनं एकस्स अधिपतिपच्चयभावस्स अभावतो वुत्तं. निस्सयभावो हि अत्थिअविगतभावो च सहजातपुरेजातनिस्सयादीनं समानो, न पनेवं सहजातारम्मणाधिपतिभावो समानो. सहजातो हि आरम्मणभावं अनुपगन्त्वा अत्तना सह पवत्तनवसेन अधिपति होति, इतरो आरम्मणं हुत्वा अत्तनि निन्नताकरणेन. सहजातो च विज्जमानभावेनेव उपकारको, इतरो अतीतानागतोपि आरम्मणभावेनेव, तस्मा सहजातारम्मणपच्चया विय भिन्नसभावा सहजातारम्मणाधिपतिनोति न ते एकतो एव अधिपतिपच्चयभावं भजन्ति, तेनेव पञ्हावारविभङ्गे च ‘‘कुसलो च अब्याकतो च धम्मा कुसलस्स धम्मस्स अधिपतिपच्चयेन पच्चयो’’तिआदि न वुत्तन्ति.

४४७-४५२. साहारकघटनानं पुरतो वीरियचित्तवीमंसानं साधारणवसेन अनाहारकामग्गकानि सइन्द्रियघटनानि वत्तब्बानि सियुं ‘‘अधिपतिसहजातनिस्सयइन्द्रियअत्थिअविगतन्ति सत्त. अधिपतिसहजातअञ्ञमञ्ञनिस्सयइन्द्रियसम्पयुत्तअत्थिअविगतन्ति तीणि. अधिपतिसहजातनिस्सयइन्द्रियविप्पयुत्तअत्थिअविगतन्ति तीणि. अधिपतिसहजातनिस्सयविपाकइन्द्रियअत्थिअविगतन्ति एकं. अधिपतिसहजातअञ्ञमञ्ञनिस्सयविपाकइन्द्रियसम्पयुत्तअविगतन्ति एकं. अधिपतिसहजातनिस्सयविपाकइन्द्रियविप्पयुत्तअत्थिअविगतन्ति एक’’न्ति. कस्मा तानि न वुत्तानीति? इन्द्रियभूतस्स अधिपतिस्स आहारमग्गेहि अञ्ञस्स अभावा. चित्ताधिपति हि आहारो, वीरियवीमंसा च मग्गो होति, न च अञ्ञो इन्द्रियभूतो अधिपति अत्थि, यस्स वसेन अनाहारकामग्गकानि सइन्द्रियघटनानि वत्तब्बानि सियुं, तस्मा तानि अवत्वा चित्ताधिपतिआदीनं एकन्तेन आहारमग्गभावदस्सनत्थं साहारकसमग्गकानेव वुत्तानि. तेसु च समग्गकेसु द्वे पच्चयधम्मा लब्भन्ति, साहारकेसु एकोयेवाति समग्गकानि पुब्बे वत्तब्बानि सियुं. सइन्द्रियकानि पन येहि आहारमग्गेहि भिन्दितब्बानि, तेसं कमवसेन पच्छा वुत्तानि. अट्ठकथायं पन सदिसत्ताति समग्गकत्तेन समानत्ता, अनन्तररूपत्ताति वा अत्थो.

४५७-४६०. कुसलाब्याकतो अब्याकतस्साति चत्तारीति अब्याकतसहितस्स कुसलस्स पच्चयभावदस्सनवसेन कुसलमूलकेस्वेव दुमूलकम्पि आहरित्वा वुत्तं. अब्याकते वत्थुरूपम्पीति इदं ‘‘कटत्तारूपम्पी’’ति एवं वत्तब्बं. ‘‘दुतियघटने अब्याकतविस्सज्जने रूपेसु वत्थुमेव लब्भती’’ति पुरिमपाठो, भूतरूपम्पि पन लब्भतीति ‘‘वत्थुञ्च भूतरूपञ्च लब्भती’’ति पठन्ति. ‘‘चतुत्थे चित्तसमुट्ठानरूपमेवा’’ति वुत्तं, ‘‘चित्तसमुट्ठानरूपं पटिसन्धिक्खणे कटत्तारूपञ्चा’’ति पन वत्तब्बं. सविपाकेसु पठमे विपाका चेव विपाकचित्तसमुट्ठानरूपञ्चाति एत्थ चतुत्थे विपाकचित्तसमुट्ठानमेवाति इध च कटत्तारूपम्पि विपाकचित्तसमुट्ठानग्गहणेन गहितन्ति दट्ठब्बं. ‘‘कटत्तारूपञ्चा’’तिपि पन पठन्ति. एत्थ पन सहजातअञ्ञमञ्ञनिस्सयविपाकसम्पयुत्तविप्पयुत्तअत्थि अविगतमूलकेसु घटनेसु हेतुकम्मझानमग्गेहि घटनानि न योजितानि, यथावुत्तेसु अत्थिअविगतमूलवज्जेसु आहारेन, निस्सयविप्पयुत्तअत्थिअविगतवज्जेसु अधिपतिइन्द्रियेहि च. कस्माति? तेसु हि योजियमानेसु तंतंचित्तुप्पादेकदेसभूता हेतुआदयो अरूपधम्माव पच्चयभावेन लब्भन्ति. तेन तेहि घटनानि हेतुमूलकादीसु वुत्तसदिसानेव रूपमिस्सकत्ताभावेन सुविञ्ञेय्यानीति न वुत्तानि. अत्थिअविगतेहि पन योजियमानो आहारो निस्सयादीहि अधिपतिइन्द्रियानि च रूपमिस्सकानि होन्तीति अधिपताहारिन्द्रियमूलकेसु वुत्तसदिसानिपि घटनानि अत्थिअविगतमूलकेसु निस्सयादिमूलकेसु च आहारेन अधिपतिन्द्रियेहि च सुपाकटभावत्थं योजितानीति दट्ठब्बानीति.

४६२-४६४. निस्सयमूलके ‘‘छट्ठे तीणीति कुसलादीनि चित्तसमुट्ठानस्सा’’ति पुरिमपाठो, चक्खादीनि पन चक्खुविञ्ञाणादीनं लब्भन्तीति ‘‘अब्याकतस्स चक्खायतनादीनि चा’’ति पठन्ति.

४६६. उपनिस्सयमूलके पकतूपनिस्सयवसेन वुत्तेसु द्वीसु पठमे ‘‘लोकियकुसलाकुसलचेतना पच्चयभावतो गहेतब्बा’’ति वुत्तं, लोकुत्तरापि पन गहेतब्बाव.

४७३-४७७. कम्ममूलके पटिसन्धियं वत्थुपीति एत्थ न पवत्ते विय खन्धायेव पच्चयुप्पन्नभावेन गहेतब्बाति अधिप्पायो. विपाकाविपाकसाधारणवसेन वुत्तेसु चतूसु पठमे ‘‘अरूपेन सद्धिं चित्तसमुट्ठानरूपं लब्भती’’ति वुत्तं, कटत्तारूपम्पि पन लब्भतेव. इमस्मिं पन कम्ममूलके ‘‘कम्मपच्चया आरम्मणे द्वे’’ति, आरम्मणमूलके च ‘‘आरम्मणपच्चया कम्मे द्वे’’ति कस्मा न वुत्तं, ननु कुसलाकुसलचेतना कम्मारम्मणानं पटिसन्धियादीनं कम्मपच्चयो आरम्मणपच्चयो च होति. यथा च आरम्मणभूतं वत्थुं आरम्मणनिस्सयपच्चयभावेन वुच्चति, एवं कम्मम्पि आरम्मणपच्चयभावेन वत्तब्बन्ति? न, द्विन्नं पच्चयभावानं अञ्ञमञ्ञपटिक्खेपतो. पच्चुप्पन्नञ्हि वत्थु निस्सयभावं अपरिच्चजित्वा तेनेवाकारेन तन्निस्सितेन आलम्बियमानं निस्सयभावेन च निस्सयपच्चयोति युत्तं वत्तुं. कम्मं पन तस्मिं कते पवत्तमानानं कतूपचितभावेन कम्मपच्चयो होति, नारम्मणाकारेन, विसयमत्ततावसेन च आरम्मणपच्चयो होति, न सन्तानविसेसं कत्वा फलुप्पादनसङ्खातेन कम्मपच्चयाकारेन, तस्मा कम्मपच्चयभावो आरम्मणपच्चयभावं पटिक्खिपति, आरम्मणपच्चयभावो च कम्मपच्चयभावन्ति ‘‘कम्मपच्चयो हुत्वा आरम्मणपच्चयो होती’’ति, ‘‘आरम्मणपच्चयो हुत्वा कम्मपच्चयो होती’’ति च न सक्का वत्तुन्ति न वुत्तं. एस च सभावो वत्तमानानञ्च आरम्मणपुरेजातानं वत्थुचक्खादीनं, यं आरम्मणपच्चयभावेन सह निस्सयादिपच्चया होन्तीति वत्तब्बता, अतीतस्स च कम्मस्स अयं सभावो, यं आरम्मणपच्चयभावेन सह कम्मपच्चयो होतीति नवत्तब्बता. यथा सहजातपुरेजातनिस्सयानं सह निस्सयपच्चयभावेन वत्तब्बता सभावो, सहजातारम्मणाधिपतीनञ्च सह अधिपतिपच्चयभावेन नवत्तब्बता, एवमिधापीति.

४७८-४८३. निराधिपतिविञ्ञाणाहारवसेनाति अनामट्ठाधिपतिभावस्स विञ्ञाणाहारस्स वसेनाति अधिप्पायो. वत्थु परिहायतीति अञ्ञमञ्ञम्पि लभन्तस्स वत्थुस्स वसेन सब्बस्स कटत्तारूपस्स परिहानं दस्सेति.

४८४-४९५. ‘‘ततिये अरूपिन्द्रियानि रूपान’’न्ति वुत्तं, चक्खादीनि च पन चक्खुविञ्ञाणादीनं लब्भन्ति. ततो वीरियवसेन मग्गसम्पयुत्तानि छाति एत्थ यदिपि वीमंसा लब्भति, वीरियस्स पन वसेन तंसमानगतिका वीमंसापि गहिताति ‘‘वीरियवसेना’’ति वुत्तं.

५११-५१४. विप्पयुत्तमूलके ‘‘दसमे कुसलादयो चित्तसमुट्ठानान’’न्ति वुत्तं, पटिसन्धियं पन ‘‘खन्धा कटत्तारूपानं वत्थु च खन्धान’’न्ति इदम्पि लब्भति. ‘‘एकादसमे पटिसन्धियं वत्थु खन्धान’’न्ति वुत्तं, तं विपाकपच्चयस्स अग्गहितत्ता यस्स वत्थुस्स वसेन घटनं कतं, तस्स दस्सनवसेन वुत्तं. ‘‘खन्धा च वत्थुस्सा’’ति इदम्पि पन लब्भतेव. ‘‘द्वादसमे पटिसन्धियं खन्धा कटत्तारूपान’’न्ति पुब्बपाठो, चित्तसमुट्ठानानि पन न वज्जेतब्बानीति ‘‘द्वादसमे खन्धा पवत्ते चित्तसमुट्ठानरूपानं पटिसन्धियं कटत्तारूपानञ्चा’’ति पठन्ति.

५१५-५१८. अत्थिपच्चयमूलके पठमघटने ‘‘अरूपवत्थारम्मणमहाभूतइन्द्रियाहारानं वसेन सहजातपुरेजातपच्छाजातपच्चया लब्भन्ती’’ति वुत्तं, ‘‘आहारिन्द्रियपच्चया चा’’तिपि पन वत्तब्बं. न हि इन्द्रियाहारानं वसेन सहजातादयो लब्भन्तीति. ‘‘दुतिये पच्छाजातकबळीकाराहारा न लब्भन्ती’’ति वुत्तं, सब्बानिपि पन अलब्भमानानि दस्सेतुं ‘‘पच्छाजातकबळीकाराहाररूपजीवितिन्द्रियरूपादिआरम्मणानि च न लब्भन्ती’’ति पठन्ति, छट्ठं सब्बेसं इन्द्रियानं वसेन वुत्तं. सत्तमे ततो रूपजीवितिन्द्रियमत्तं परिहायतीति एवमेतेसं विसेसो वत्तब्बो. ततो एकादसमेति एत्थ ततोति नवमतोति अत्थो. तेरसमे वत्थारम्मणाति एत्थ वत्थुग्गहणेन चक्खादिवत्थूनिपि गहितानि, तथा चुद्दसमे वत्थुमेवाति एत्थापि. ‘‘सत्तरसमे पन तदेव आरम्मणाधिपतिभावेन, अट्ठारसमेपि तदेव आरम्मणूपनिस्सयवसेना’’ति पुरिमपाठो, ‘‘आरम्मणूपनिस्सयवसेना’’ति अयं पन सत्तरसमतो विसेसो न होति, वत्थारम्मणानं पन सत्तरसमे अट्ठारसमे च वत्थुस्सेव पच्चयभावो विसेसोति ‘‘सत्तरसमे पन आरम्मणाधिपतिभावेन चक्खादीनि च, अट्ठारसमे वत्थुस्सेव आरम्मणूपनिस्सयवसेना’’ति पठन्ति.

५१९. सहजातानि विय सहजातेन केनचि एकेन पच्चयेन अनियमितत्ता तानि पकिण्णकानीति वुत्तानीति एत्थ पुरेजातपच्छाजाताहारिन्द्रियानि सहजातेन अञ्ञमञ्ञञ्च असामञ्ञवसेन विप्पकिण्णानि वुत्तानि. आरम्मणमूलके अनन्तरसमनन्तरपुरेजाताति एत्थ उपनिस्सयोपि पठितब्बो.

येसु पाकटा हुत्वा पञ्ञायन्ति, तानि दस्सेतुं ‘‘हेतुमूलकादीन’’न्तिआदिमाह. अलोभादितंतंनामवसेन पन हेतुआरम्मणाधिपतिआहारिन्द्रियझानमग्गपच्चयधम्मा एवं पाकटा हुत्वा न पञ्ञायेय्युन्ति ते परिच्छेदवसेन दस्सेन्तो ‘‘द्वादसेव हि हेतू’’तिआदिमाह. तेन ‘‘एत्तकायेव पच्चयधम्मा’’ति निच्छयं कत्वा पाकटो हुत्वा अपञ्ञायमानोपि तेस्वेव मग्गितब्बोति दस्सेति. तत्थ छ आरम्मणाति एतेन आरम्मणाधिपति रूपादिआरम्मणभावतो सङ्गहितोति तं अग्गहेत्वा ‘‘चत्तारो अधिपतयो’’ति वुत्तं. एकन्तेन कुसलविपाकाति इदं इन्द्रियेसु अञ्ञिन्द्रियवसेन लब्भति. एकन्तेन अकुसलविपाकाति इदं पन न सक्का लद्धुं. झानङ्गेस्वपि हि दुक्खं अकुसलमेव विपाकस्स अझानङ्गत्ता. चित्तट्ठितिपि अकुसलविपाककिरिया होतीति. अकुसलस्स विपाका अकुसलविपाकाति एवं पन अत्थे गय्हमाने इन्द्रियेसु दुक्खिन्द्रियवसेन लब्भेय्य, कुसलविपाकाकुसलविपाकविसेसेन पन पच्चययोजना नत्थीति अयमत्थो अधिप्पेतोति सक्का वत्तुन्ति.

पञ्हावारस्स घटने अनुलोमगणना निट्ठिता.

पच्चनीयुद्धारवण्णना

५२७. एकेन लक्खणेनाति ‘‘कुसलो धम्मो कुसलस्स धम्मस्स नहेतुपच्चयेन पच्चयो’’ति हेतुपच्चयतो अञ्ञेन पच्चयेन पच्चयोति अत्थो. हेतुपच्चयतो च अञ्ञे पच्चया अग्गहितग्गहणेन अट्ठ होन्ति, तेसु कुसलो कुसलस्स तीहि पच्चयेहि पच्चयो, अकुसलस्स द्वीहि, एवं तस्मिं तस्मिं पच्चये पच्चनीयतो ठिते ततो अञ्ञे पच्चया इमेस्वेव आरम्मणादीसु अट्ठसु पच्चयेसु यथायोगं योजेतब्बाति इदमेत्थ लक्खणं वेदितब्बं. एतेसु च अट्ठसु पच्चयेसु पुरिमपुरिमेहि असङ्गहिते सङ्गहेत्वा पच्छिमपच्छिमा वुत्ताति आरम्मणतो अञ्ञेसं द्विन्नं वसेन उपनिस्सयो, वत्थुपुरेजातस्स वसेन पुरेजातं, सहजाततो उपनिस्सयतो च, अञ्ञिस्सा चेतनाय वसेन कम्मं, सहजाततो अञ्ञस्स कबळीकाराहारस्स वसेन आहारो, सहजाततो पुरेजाततो च अञ्ञस्स रूपजीवितिन्द्रियस्स वसेन इन्द्रियं वुत्तन्ति दट्ठब्बं. एवञ्च कत्वा ‘‘कुसलो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, सहजातउपनिस्सयपच्चयेन पच्चयो’’तिच्चेव (पट्ठा. १.१.४०४, ४१९, ४२३) वुत्तं, तदञ्ञाभावा न वुत्तं ‘‘कम्माहारिन्द्रियपच्चयेन पच्चयो’’ति, तस्मा ‘‘आरम्मणाधिपति आरम्मणपच्चये सङ्गहं गच्छती’’ति एवं वत्तब्बं. यं पन परित्तत्तिके पञ्हावारपच्चनीये ‘‘अप्पमाणो धम्मो अप्पमाणस्स धम्मस्स सहजातउपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. २.१२.६६, ७४) एत्थ आरम्मणस्स अवचनं, तं पुरिमेहि असङ्गहितवसेन वुत्तानं सङ्गहितविवज्जनाभावतो उपनिस्सयतो अञ्ञारम्मणाभावतो च, न पन आरम्मणूपनिस्सयस्स आरम्मणे असङ्गहितत्ता.

अत्थिअविगतपच्चया यदिपि सहजातपुरेजातपच्छाजाताहारिन्द्रियानं वसेन पञ्चविधाव, सहजातपुरेजातानं पन पच्छाजाताहारानं पच्छाजातिन्द्रियानञ्च सहापि अत्थिअविगतपच्चयभावो होति, न तिण्णं विप्पयुत्तता विय विसुंयेवाति ‘‘अत्थिअविगतेसु च एकेकस्स वसेन छहि भेदेहि ठिता’’ति अत्थिअविगतपच्चयलक्खणेसु एकेकं सङ्गहेत्वा वुत्तं.

‘‘रूपिन्द्रियपच्चयो पन अज्झत्तबहिद्धाभेदतो दुविधो’’ति वुत्तं, तं ‘‘अज्झत्तिकबाहिरभेदतो’’ति एवं वत्तब्बं.

चतुवीसतियापीति न सोळसन्नंयेव, नापि अट्ठन्नंयेव, अथ खो चतुवीसतियापीति अत्थो. आरम्मणभूतानं अधिपतिउपनिस्सयपच्चयानं उपनिस्सये निस्सयपुरेजातविप्पयुत्तअत्थिअविगतानञ्च पुरेजाते सङ्गहो अत्थीति आरम्मणपच्चयं आरम्मणपच्चयभावेयेव ठपेत्वा तदेकदेसस्स तेसञ्च उपनिस्सयादीसु सङ्गहं वत्तुकामो ‘‘आरम्मणपच्चये आरम्मणपच्चयोव सङ्गहं गच्छति, न सेसा तेवीसती’’ति आह. चतुत्थे पुरेजातपच्चयेति एत्थ यथा ‘‘उपनिस्सयपच्चये अधिपतिभूतो आरम्मणपच्चयो’’ति वुत्तं, एवं ‘‘पुरेजातभूतो आरम्मणपच्चयो’’तिपि वत्तब्बं, तं पन तत्थ वुत्तनयेन गहेतुं सक्काति कत्वा न वुत्तं सिया. अथ पन ‘‘आरम्मणतो अञ्ञं पुरेजातग्गहणेन गहित’’न्ति न वुत्तं, एवं सति उपनिस्सयग्गहणेनपि आरम्मणतो अञ्ञस्स गहितताय भवितब्बन्ति ‘‘अधिपतिभूतो आरम्मणपच्चयो उपनिस्सये सङ्गहं गच्छती’’ति न वत्तब्बं सियाति.

येसु पञ्हेसु…पे… एकोव पच्चयो आगतोति एत्थ आगतोवाति एवं एवसद्दो आनेत्वा योजेतब्बो. तेन द्वादसमचुद्दसमेसु पञ्हेसु सहजातपुरेजातेसु एकेको पच्चयो न अनागतो होति, अथ खो आगतोवाति तेसु अञ्ञतरपटिक्खेपे तेपि पञ्हा परिहायन्तीति दस्सितं होतीति. यस्मिं पन पञ्हेति दुतियछट्ठपञ्हेसु एकेकवसेन गहेत्वा एकवचनेन निद्दिसीयति. एवन्ति आरम्मणउपनिस्सयवसेनाति अत्थो. तेन द्वादसमचुद्दसमे निवत्तेति. तेसुपि हि द्वे पच्चया आगता, न पन आरम्मणउपनिस्सयवसेनाति. अवसेसानं वसेनाति अवसेसानं लब्भमानानं वसेनाति दट्ठब्बं. न हि तेरसमपन्नरसमेसु पच्छाजातेपि पटिक्खित्ते आहारिन्द्रियानं वसेन ते पञ्हा लब्भन्ति, अथ खो सहजातस्सेव वसेनाति. इदमेव चेत्थ लक्खणन्ति अट्ठन्नं पच्चयानं सब्बपच्चयसङ्गाहकत्तं, उक्कट्ठवसेन पञ्हापरिच्छेदो, ते ते पच्चये सङ्गहेत्वा दस्सितपच्चयपरिच्छेदो, तस्मिं तस्मिं पच्चये पटिक्खित्ते तस्स तस्स पञ्हस्स परिहानापरिहानीति एतं सब्बं सन्धाय वुत्तन्ति दट्ठब्बं. तेनेव ‘‘इमिना लक्खणेना’’ति वुत्तं.

तत्राति पभेदपरिहानीसु. तीहि पच्चयेहि एकूनवीसति पच्चया दस्सिताति ‘‘नहेतुपच्चया’’ति एत्थ लब्भमानपच्चये सन्धाय वुत्तं. अयं पन पच्चयुद्धारो सब्बपच्चनीयस्स साधारणलक्खणवसेन वुत्तो, न ‘‘नहेतुपच्चया’’ति एत्थेव लब्भमानपच्चयदस्सनवसेन. एवञ्च कत्वा हेतुदुकपञ्हावारपच्चनीये ‘‘हेतुधम्मो हेतुस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, सहजातपच्चयेन पच्चयो, उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. ३.१.४३) वुत्तं, अञ्ञथा ‘‘नहेतुपच्चया’’ति एत्थ लब्भमानपच्चयदस्सने ‘‘सहजातपच्चयेन पच्चयो’’ति न वत्तब्बं सिया, तस्मा इधापि सब्बलब्भमानपच्चयसङ्गहवसेन पच्चयुद्धारस्स वुत्तत्ता तीहि पच्चयेहि वीसति पच्चया दस्सिताति दट्ठब्बा. यं वुत्तं ‘‘तत्रायं वित्थारकथा’’ति, तत्र पभेदे वित्थारकथं वत्वा परिहानीयं दस्सेन्तो ‘‘तस्मिं पन पच्चये…पे… ते परतो वक्खामा’’ति आह.

५२८. तथा अकुसलादिकेसुपि चतूसु पञ्हेसु तेहि तेहि पच्चयेहि ते तेयेव पच्चया दस्सिताति कुसलादिकेसु दस्सितेहि अञ्ञेसं अभावं सन्धाय वुत्तन्ति वेदितब्बं. न हि ‘‘अकुसलो धम्मो कुसलस्स धम्मस्सा’’ति एत्थ द्वीहि पच्चयेहि तयो पच्चया दस्सिता, अथ खो द्वेयेव, अब्याकतस्सपि अकुसलो आरम्मणाधिपतिपच्चयो न होतीति.

५३०. सहजातपच्चया पन न होन्ति वत्थुमिस्सकत्ताति असहजातपच्चयेन वत्थुना सहजातपच्चयभावेन गहितत्ता तेन सद्धिं सहजातपच्चया न होन्तीति दस्सेति, न पन सुद्धानं सहजातपच्चयभावं निवारेति. वत्थुना पन सद्धिं येन निस्सयादिना पच्चया होन्ति, तमेव निस्सयादिं विसेसेतुं सहजातन्ति वुत्तन्ति दस्सेन्तो ‘‘तस्मा तेस’’न्तिआदिमाह.

इमस्मिं पन पच्चयुद्धारे आरम्मणउपनिस्सयकम्मअत्थिपच्चयेसु चतूसु सब्बपच्चये सङ्गण्हित्वा कस्मा तेसं वसेन पच्चयुद्धारो न कतोति? मिस्सकामिस्सकस्स अत्थिपच्चयविभागस्स दुविञ्ञेय्यत्ता. न हि ‘‘अविभागेन अत्थिपच्चयेन पच्चयो’’ति वुत्ते सक्का विञ्ञातुं ‘‘किं सुद्धेन सहजातअत्थिपच्चयेन पुरेजातपच्छाजाताहारिन्द्रियअत्थिपच्चयेन वा, अथ सहजातपुरेजातमिस्सकेन पच्छाजाताहारमिस्सकेन पच्छाजातिन्द्रियमिस्सकेन वा’’ति. अत्थिपच्चयविसेसेसु पन सहजातादीसु सरूपतो वुच्चमानेसु यत्थ सुद्धानं सहजातादीनं पच्चयभावो, तत्थ ‘‘सहजातपच्चयेन पच्चयो’’तिआदिना सुद्धानं, यत्थ च मिस्सकानं पच्चयभावो, तत्थ ‘‘सहजातं पुरेजात’’न्तिआदिना मिस्सकानं गहणतो सुविञ्ञेय्यता होति, तस्मा अत्थिपच्चयविसेसदस्सनत्थं सहजातादयो गहिता, तेन च सब्बपच्चयानं चतूसु पच्चयेसु सङ्गहो दस्सितो होति.

कस्मा पन सहजातपुरेजाते अग्गहेत्वा निस्सयो, पुरेजातपच्छाजाते अग्गहेत्वा विप्पयुत्तो वा अत्थिपच्चयविसेसभावेन न वुत्तोति? अवत्तब्बत्ता, निस्सयो ताव न वत्तब्बो सहजातपुरेजातानं सुद्धानं मिस्सकानञ्च निस्सयपच्चयभावतो विभजितब्बताय अत्थिपच्चयेन अविसिट्ठत्ता, विप्पयुत्तपच्चयो च सहजातपुरेजातपच्छाजातभावतो अत्थिपच्चयो विय विसेसितब्बोति सो विय न वत्तब्बो. सहजातपुरेजातानञ्च मिस्सकानं अत्थिपच्चयभावो होति, न विप्पयुत्तभावो. तथा सहजातपच्छाजातानञ्च मिस्सकानं अत्थिपच्चयभावो होति. वक्खति हि ‘‘अनुपादिन्नअनुपादानियो धम्मो उपादिन्नुपादानियस्स च अनुपादिन्नअनुपादानियस्स च धम्मस्स अत्थिपच्चयेन पच्चयो सहजातं पच्छाजात’’न्ति (पट्ठा. १.४.८४), न पन विप्पयुत्तपच्चयभावो, तस्मा विप्पयुत्तग्गहणेन मिस्सकानं अत्थिपच्चयभावस्स अग्गहणतो न सो अत्थिपच्चयविसेसो भवितुं युत्तोति भिय्योपि न वत्तब्बो.

ननु च सहजातपच्चयो च हेतुआदीहि विसेसितब्बोति सोपि निस्सयविप्पयुत्ता विय अत्थिपच्चयविसेसभावेन न वत्तब्बोति? न, विरुद्धपच्चयेहि अविसेसितब्बत्ता. निस्सयविप्पयुत्ता हि अत्थिपच्चयो विय उप्पत्तिकालविरुद्धेहि पच्चयेहि विसेसितब्बा, न पन सहजातो. हेतुआदयो हि सहजाता एव, न उप्पत्तिकालविरुद्धाति.

पच्चनीयुद्धारवण्णना निट्ठिता.

पच्चनीयगणनवण्णना

नहेतुमूलकवण्णना

५३२. सुद्धो आरम्मणपच्चयो परिहायतीति एत्थ सुद्धग्गहणेन न किञ्चि पयोजनं. आरम्मणे हि पच्चनीयतो ठिते अधिपतिपच्चयादिभूतो आरम्मणपच्चयो परिहायतियेवाति. सुद्धोति वा अट्ठसु पच्चयेसु केवलं आरम्मणपच्चयो परिहायति, न सेसाति दस्सेति. एकादसन्नन्ति सहजाते सङ्गहं गच्छन्तेसु पन्नरससु अञ्ञमञ्ञविपाकसम्पयुत्तविप्पयुत्ते वज्जेत्वा एकादसन्नं वसेन. तेति ते सहजाते अन्तोगधायेव तस्मिं पटिक्खित्ते अञ्ञेनाकारेन विस्सज्जनं न लभन्तीति दस्सेति, अनन्तोगधा पन आरम्मणाधिपतिपुरेजातनिस्सयादयो आरम्मणादिआकारेन लभन्तीति.

किञ्चापि सहजातपच्चयोयेव नत्थीति तस्मिं पटिक्खित्ते इमे वारा न लब्भेय्युं, अथ खो निस्सयअत्थिअविगतानं वसेन एते लभितब्बा सियुन्ति अधिप्पायो. यस्मा पनातिआदिना यदिपि सहजातपच्चयो नत्थि, यस्मा पन सहजातपच्चयधम्मे ठिता एते न निस्सयादयो न होन्ति, यस्मा च सहजाते पटिक्खित्ते ये पटिक्खित्ता होन्ति, ते इध सहजातपटिक्खेपेन पटिक्खित्ता, तस्मा तेपि वारा न लब्भन्तीति दस्सेति.

ठपेत्वा सहजातपच्चयन्ति एतेन निस्सयादिभूतञ्च सहजातपच्चयं ठपेत्वाति वुत्तन्ति दट्ठब्बं. कुसलतो पवत्तमानेसु कुसलाब्याकतेसु कुसलस्स कुसलो अञ्ञमञ्ञपच्चयो होतीति इममत्थं सन्धायाह ‘‘अञ्ञमञ्ञपच्चयधम्मवसेन पवत्तिसब्भावतो’’ति. ये धम्मा अञ्ञमञ्ञपच्चयसङ्गहं गताति तेसं तेसं पच्चयुप्पन्नानं पच्चयभावेन वुच्चमाना ये धम्मा अत्तनो पच्चयुप्पन्नभावेन वुच्चमानानं अञ्ञमञ्ञपच्चयोति सङ्गहं गताति अत्थो. कुसलो च कुसलस्स अञ्ञमञ्ञपच्चयोति कत्वा कुसलाब्याकतानं अञ्ञमञ्ञपच्चयसङ्गहं गतेहेव धम्मेहि पच्चयो होति, समुदायभूतो एकदेसभूतेहीति अयमेत्थ अधिप्पायो. कुसलो पन कुसलस्स अञ्ञमञ्ञपच्चयभूतेहेव कुसलाब्याकतानं सहजातादीहि, न अञ्ञथाति अञ्ञमञ्ञे पटिक्खित्ते सो वारो परिहायतीति वत्तब्बं.

चतुन्नं खन्धानं एकदेसोवाति सहजाते सन्धाय वुत्तं. असहजाता हि आहारिन्द्रिया रूपक्खन्धेकदेसोव होन्ति. तेति ते विप्पयुत्तपच्चयधम्मा.

५३३. ‘‘दुमूलकादिवसेन पच्चयगणनं दस्सेतु’’न्ति लिखितं, ‘‘पच्चनीयगणनं दस्सेतु’’न्ति पन वत्तब्बं. पच्चनीयवारगणना हि दस्सिताति.

‘‘विपाकं पनेत्थ नउपनिस्सयपच्चयेन सद्धिं घटितत्ता न लब्भती’’ति वुत्तं, विपाकस्सपि पन कम्मं उपनिस्सयो अहुत्वापि कम्मपच्चयो होतीति विपाकत्तिके दस्सितमेतन्ति.

नहेतुमूलकवण्णना निट्ठिता.

५३४. सत्त पञ्च तीणि द्वे एकन्ति परिच्छिन्नगणनानीति सत्तादिपरिच्छेदेहि परिच्छिन्नगणनानि विस्सज्जनानि हेतुमूलके दस्सितानीति आह.

५३८. ननिस्सयपच्चया नउपनिस्सयपच्चया नपच्छाजाते तीणीति मूलकं सङ्खिपित्वा दसमूलके ‘‘नपच्छाजाते तीणी’’ति वुत्तं गणनं उद्धरति. ‘‘तेसु कटत्तारूपञ्च आहारसमुट्ठानञ्च पच्चयुप्पन्न’’न्ति वुत्तं, द्वीसु पन विपाको ततिये तेसमुट्ठानिककायो च पच्चयुप्पन्नो होतियेव.

५४५. अब्याकतो च सहजातअब्याकतस्साति ‘‘अरूपाब्याकतो अरूपाब्याकतस्स, रूपाब्याकतो च रूपाब्याकतस्सा’’ति एतं द्वयं सन्धाय वुत्तं. रूपाब्याकतो पन अरूपाब्याकतस्स, अरूपाब्याकतो च रूपाब्याकतस्स सहजातपच्चयो होन्तो विप्पयुत्तपच्चयो होतियेव. ‘‘अब्याकतो सहजाताहारिन्द्रियवसेन अब्याकतस्साति एवं पञ्चा’’ति पन वत्तब्बं.

५४६. नोअत्थिपच्चया नहेतुया नवाति एत्थ ‘‘एकमूलकेकावसाना अनन्तरपकतूपनिस्सयवसेन लब्भन्ती’’ति वुत्तं, अत्थिपच्चये पन पटिक्खित्ते अट्ठसु पच्चयेसु सहजातपुरेजातपच्छाजाताहारिन्द्रियानि पटिक्खित्तानि, आरम्मणउपनिस्सयकम्मानि ठितानीति तेसं तिण्णं ठितानं वसेन लब्भन्तीति वत्तब्बं. सब्बत्थ हि अट्ठसु पच्चयेसु ये ये पटिक्खित्ता, ते ते अपनेत्वा ये ये ठिता, तेसं वसेन ते ते वारा लब्भन्तीति इदमेत्थ लक्खणन्ति. याव निस्सयम्पीति न केवलं नारम्मणेयेव ठत्वा, अथ खो याव निस्सयं, ताव ठत्वापि नउपनिस्सये द्वे कातब्बाति अत्थो. नउपनिस्सयतो हि पुरिमेसु च नवपि लब्भन्ति, नउपनिस्सये पन पवत्ते अत्थिआरम्मणउपनिस्सयपटिक्खेपेन सत्त पच्चया पटिक्खित्ताति अवसिट्ठस्स कम्मस्स वसेन द्वेयेवाति.

पच्चनीयगणनवण्णना निट्ठिता.

अनुलोमपच्चनीयवण्णना

५५०. सदिसवाराति अनुरूपवाराति अत्थो. नअञ्ञमञ्ञे लद्धेसु हि एकादससु ‘‘कुसलो कुसलस्स अकुसलो अकुसलस्सा’’ति इमे हेतुया लद्धेसु सत्तसु इमेहेव द्वीहि समाना होन्ति, अत्थाभावतो पन न अनुरूपाति. अथ वा वचनतो अत्थतो च उद्देसतो यथायोगं निद्देसतो चाति सब्बथा समानतं सन्धाय ‘‘सदिसवारा’’ति आह.

५५१. पटिसन्धिनामरूपं सन्धायाति पटिसन्धियं हेतुनामपच्चयं वत्थुरूपञ्च पच्चयुप्पन्नं सन्धाय. तीणि कुसलादीनि चित्तसमुट्ठानरूपस्साति एत्थ ‘‘अब्याकतो कटत्तारूपस्स चा’’ति इदम्पि वत्तब्बं.

५५६. अधिपतिमूलके नहेतुया दसाति द्विन्नम्पि अधिपतीनं वसेन वुत्तं, नारम्मणे सत्ताति सहजाताधिपतिस्स, नसहजाते सत्ताति आरम्मणाधिपतिस्साति एवं सब्बत्थ तस्मिं तस्मिं पच्चये पटिक्खित्ते घटनेसु च तस्मिं तस्मिं पच्चये घटिते मूलभावेन ठिते पच्चये ये धम्मा परिहायन्ति, ये च तिट्ठन्ति, ते साधुकं सल्लक्खेत्वा ये धम्मा ठिता येसं पच्चया होन्ति, तेसं वसेन गणना उद्धरितब्बा. अनुलोमे वुत्तघटिते हि मूलभावेन ठपेत्वा घटितावसेसा पच्चया पच्चनीयतो योजिताति तत्थ लद्धायेव पच्चनीयतो ठितपच्चयानं वसेन समाना ऊना च सक्का विञ्ञातुन्ति.

अनुलोमपच्चनीयवण्णना निट्ठिता.

पच्चनीयानुलोमवण्णना

६३१. ऊनतरगणनेन सद्धिं अतिरेकगणनस्सपि गणनं परिहापेत्वाति एत्थ अनुलोमतो योजियमानेन पच्चयेन सद्धिं पच्चनीयतो ठितस्स अतिरेकगणनस्सपि गणनं परिहापेत्वाति अधिप्पायो. परिहापनगणनाय ऊनतरगणनेन सद्धिं समानत्तञ्च न एकन्तिकं. नहेतुनारम्मणदुकस्स हि गणना अधिपतिपच्चयेन योजियमानेन ऊनतरगणनेन सद्धिं परिहीनापि अधिपतिपच्चये लद्धगणनाय न समाना, अथ खो ततोपि ऊनतरा होतीति आह ‘‘न पनेतं सब्बसंसन्दनेसु गच्छती’’ति.

निस्सये पच्चनीयतो ठिते सहजाते च अनुलोमतो अतिट्ठमानानं हेतुआदीनं सहजातस्स च अट्ठानं पाकटन्ति अपाकटमेव दस्सेन्तो ‘‘वत्थुपुरेजातो अनुलोमतो न तिट्ठती’’ति आह. आहारे वातिआदिना इदं दस्सेति – सहजाते पच्चनीयतो ठिते अनुलोमतो अतिट्ठमाना झानमग्गसम्पयुत्ता आहारे वा इन्द्रिये वा पच्चनीयतो ठिते तिट्ठन्तीति हेतुआदयोपि तिट्ठन्ति. सब्बझानमग्गेहि पन चतुक्खन्धेकदेसभूतानं सम्पयुत्तेन च चतुक्खन्धभूतानं सब्बेसं तेसं अनुलोमतो ठानं दस्सेतीति दट्ठब्बं, इतरेसु वत्तब्बमेव नत्थि. अधिपतिउपनिस्सयाति आरम्मणमिस्सानम्पि अनुलोमतो ठानं दस्सेति.

‘‘इन्द्रिये एकन्ति रूपजीवितिन्द्रियवसेना’’ति वुत्तं, ‘‘चक्खुन्द्रियादीनं रूपजीवितिन्द्रियस्स च वसेना’’ति पन वत्तब्बं. कमेन गन्त्वा विप्पयुत्ते तीणीति इदं पाकटभावत्थं ‘‘नवमूलकादीसु विप्पयुत्ते तीणी’’ति एवं केसुचि पोत्थकेसु उद्धटं. इमानि च द्वे पच्छाजातिन्द्रियवसेनाति इदं ‘‘इमानि च द्वे पच्छाजाताहारिन्द्रियवसेना’’ति च वत्तब्बं.

नहेतुमूलकवण्णना निट्ठिता.

६३६. नअञ्ञमञ्ञपच्चया हेतुया तीणीति कुसलादीनि चित्तसमुट्ठानानन्ति एत्थ ‘‘पटिसन्धियं कटत्तारूपानञ्चा’’तिपि वत्तब्बं. हेतुया वुत्तेहि तीहीति वारसामञ्ञमेव सन्धाय वदति, तथा कम्मे तीणीति हेतुया वुत्तानेवाति च. पच्चयेसु पन सब्बत्थ विसेसो सल्लक्खेतब्बो. अधिपतिया तीणीति नअञ्ञमञ्ञनहेतुनआरम्मणपच्चया अधिपतिया तीणीति एतानि हेट्ठा हेतुया वुत्तानेवाति.

६४४. यथा च हेट्ठाति यथा नहेतुमूलके याव नविपाका, ताव गन्त्वा नाहारिन्द्रियेसु एकेकमेव गहितं, तथा इधापि नारम्मणमूलकादीसु एकेकमेव गहितन्ति अधिप्पायो.

६४८. नानाक्खणिका कुसलाकुसलचेतना कम्मसमुट्ठानरूपस्साति एत्थ ‘‘विपाकान’’न्तिपि वत्तब्बं. आहारिन्द्रियेसु तीणि सहजातसदिसानि रूपस्सपि पच्चयभावतो, झानमग्गादीसु तीणि हेतुसदिसानि अरूपानंयेव पच्चयभावतोति अधिप्पायो दट्ठब्बो. आदि-सद्देन च ‘‘नविप्पयुत्तनहेतुनारम्मणपच्चया अधिपतिया तीणी’’तिआदीनि (पट्ठा. १.१.६४९) सङ्गण्हाति.

६५०. यं पनाति यं पच्चयं सकट्ठाने अनुलोमतो लभन्तम्पि अग्गहेत्वा ततो परेतरा पच्चनीयतो गय्हन्ति, सो पच्चयो पच्छा अनुलोमतोव योजनं लभतीति अत्थो. यथा पन नहेतुमूलकादीसु नाहारे घटिते इन्द्रियवसेन, निन्द्रिये च घटिते आहारवसेन पञ्हलाभो होतीति तेसु अञ्ञतरं पच्चनीयतो अयोजेत्वा अनुलोमतो योजितं, एवं नोअत्थिनोअविगतमूलकेसु उपनिस्सये घटिते कम्मवसेन, कम्मे च घटिते उपनिस्सयवसेन पञ्हलाभो होतीति तेसु अञ्ञतरं पच्चनीयतो अयोजेत्वा अनुलोमतो योजितन्ति वेदितब्बं. एवमेतस्मिं पच्चनीयानुलोमे सब्बानि मूलानि द्वेधा भिन्नानि नाहारनिन्द्रियानि नउपनिस्सयनकम्मानि च पत्वाति.

पच्चनीयानुलोमवण्णना निट्ठिता.

कुसलत्तिकवण्णना निट्ठिता.