५. संसट्ठवारवण्णना

३५१-३६८. संसट्ठवारे पच्चनीये ‘‘नविप्पयुत्ते पटिसन्धि नत्थी’’ति इदं वत्थुविरहिताय पटिसन्धिया विसुं अनुद्धरणतो वुत्तं. पटिच्चवारादीसु हि सहजातस्स पच्चयभावदस्सनत्थं सवत्थुका पटिसन्धि उद्धटा, सा इधापि अधिपतिपुरेजातासेवनेसु नकम्मनविपाकनझाननविप्पयुत्तेसु न लब्भति, अञ्ञेसु च अनुलोमतो पच्चनीयतो च लब्भमानपच्चयेसु लब्भतीति इमस्स विसेसस्स दस्सनत्थं उद्धटाति. सेसा तेरस न लब्भन्तीति एत्थ ‘‘सेसा चुद्दसा’’ति भवितब्बं. न झाने एकन्ति अहेतुकपञ्चविञ्ञाणवसेनाति पञ्चविञ्ञाणानं हेतुपच्चयविरहितमत्तदस्सनत्थं अहेतुकग्गहणं कतन्ति दट्ठब्बं, ‘‘नमग्गे एकन्ति अहेतुककिरियवसेना’’ति वुत्तं, ‘‘अहेतुकविपाककिरियवसेना’’ति भवितब्बं.

३६९-३९१. हेट्ठा वुत्तनयेनेवाति पटिच्चवारे अनुलोमपच्चनीये वुत्तनयेन. ‘‘नहेतुपच्चयुप्पन्नेसु अहेतुकमोहोव झानमग्गपच्चयं लभति, सेसा न लभन्ती’’ति वुत्तं, सेसेसु पन पञ्चविञ्ञाणवज्जाहेतुकक्खन्धा तंसमुट्ठाना पच्चयुप्पन्नधम्मा झानपच्चयं लभन्ति, न पच्चनीयानुलोमे द्विन्नं पच्चयानं अनुलोमेन सह योजना अत्थीति झानमग्गपच्चयं सहितं लभतीति च न सक्का वत्तुं, तस्मा ‘‘अहेतुकमोहोव मग्गपच्चयं लभती’’ति वत्तब्बं.

संसट्ठवारवण्णना निट्ठिता.