२. पच्चयपच्चनीयवण्णना

४२-४४. तेवीसतिमूलकन्ति इदञ्चेत्थ दुमूलकंयेव सन्धाय वुत्तन्ति इदं दुकमूलके पुच्छानं मूलभूता तेवीसति दुका सम्भवन्तीति तस्स ‘‘तेवीसतिमूलक’’न्ति नामं कत्वा याव यत्तको पभेदो अत्थि, ताव तत्तकं तेवीसतिमूलकं यथानुलोमे वित्थारितं. एवं पच्चनीयेपि वित्थारेतब्बन्ति दुकमूलकेन तिकमूलकादीसु नयं दस्सेतीति इमिना अधिप्पायेन वुत्तं सिया. यदि पन याव तेवीसतिमं मूलं यथा वित्थारितन्ति अयमत्थो अधिप्पेतो, ‘‘याव तेवीसतिमं मूल’’न्त्वेव पाठेन भवितब्बं सिया. न हि ‘‘तेवीसतिमूलक’’न्ति एतस्स ब्यञ्जनस्स तेवीसतिमं मूलकन्ति अयमत्थो सम्भवति. यथा अनुलोमे ‘‘एकेकपदस्सा’’तिआदिना पन एकमूलादिसब्बमूलकपरियोसानं तत्थ नयदस्सनवसेन दस्सितं एकेकस्स पदस्स वित्थारं दस्सेतीति सब्बमूलकमेव चेत्थ ‘‘तेवीसतिमूलक’’न्ति वुत्तन्ति वेदितब्बं. तञ्हि तेवीसतिया पच्चयानं अवसेसस्स पच्चयस्स मूलभावतो ‘‘तेवीसतिमूलक’’न्ति च ततो परं मूलस्स अञ्ञस्स अभावतो ‘‘सब्बमूलक’’न्ति च वुच्चति.

पच्चयपच्चनीयवण्णना निट्ठिता.