२२-२३-२४. नत्थिविगतअविगतपच्चयनिद्देसवण्णना

२२-२३. पच्चयलक्खणमेव हेत्थ नानन्ति एतेन नत्थिविगतपच्चयेसु अत्थिअविगतपच्चयेसु च ब्यञ्जनमत्तेयेव नानत्तं, न अत्थेति इदं यो पच्चयोति अत्थो, तस्मिं नानत्तं नत्थि, ब्यञ्जनसङ्गहिते पच्चयलक्खणमत्तेयेव नानत्तन्ति इममत्थं सन्धाय वुत्तन्ति विञ्ञायति.

नत्थिविगतअविगतपच्चयनिद्देसवण्णना निट्ठिता.

पच्चयनिद्देसवण्णना निट्ठिता.

पच्चयनिद्देसपकिण्णकविनिच्छयकथावण्णना

‘‘लोभदोसमोहा विपाकपच्चयापि न होन्ति, सेसानं सत्तरसन्नं पच्चयानं वसेन पच्चया होन्ती’’तिआदिमपाठो. एत्थ च लोभदोसमोहानं पच्चेकं सत्तरसहि पच्चयेहि पच्चयभावो वुत्तो, सब्बे हेतू सह अग्गहेत्वा एकधम्मस्स अनेकपच्चयभावदस्सनत्थं अमोहादीनं विसुं गहितत्ताति दोसस्सपि सत्तरसहि पच्चयभावो आपज्जति, तथा च सति दोसस्सपि गरुकरणं पाळियं वत्तब्बं सिया. ‘‘अकुसलो पन आरम्मणाधिपति नाम लोभसहगतचित्तुप्पादो वुच्चती’’ति (पट्ठा. अट्ठ. १.४) एत्थापि लोभदोससहगतचित्तुप्पादाति वत्तब्बं सिया, न पन वुत्तं, तस्मा दोसस्स अधिपतिपच्चयतापि निवारेतब्बा. न च ‘‘सेसान’’न्ति वचनेन अधिपतिपच्चयो निवारितो, अथ खो सङ्गहितो पुरेजातादीहि यथावुत्तेहि सेसत्ताति तन्निवारणत्थं दोसं लोभमोहेहि सह अग्गहेत्वा विसुञ्च अग्गहेत्वा ‘‘दोसो अधिपतिपच्चयोपि न होति, सेसानं पच्चयानं वसेन पच्चयो होती’’ति पठन्ति. इमिना नयेनाति एतेन फोट्ठब्बायतनस्स सहजातादिपच्चयभावं, सब्बधम्मानं यथायोगं हेतादिपच्चयभावञ्च दस्सेति. न हि एतं एकपच्चयस्स अनेकपच्चयभावदस्सनन्ति रूपादीनं पकतूपनिस्सयभावो च एतेन दस्सितोति दट्ठब्बो.

चतुन्नं खन्धानं भेदा चक्खुविञ्ञाणधातुआदयोति भेदं अनामसित्वा ते एव गहेत्वा आह ‘‘चतूसु खन्धेसू’’ति. मिच्छावाचाकम्मन्ताजीवा तेहि चेव कम्माहारपच्चयेहि चाति एकूनवीसतिधाति इदमेवं न सक्का वत्तुं. न हि मिच्छावाचादयो मिच्छादिट्ठि विय मग्गपच्चया होन्ति चेतनाय मग्गपच्चयत्ताभावतो. यदि च भवेय्य, पञ्हावारे ‘‘कम्मपच्चया मग्गे तीणी’’ति वत्तब्बं सिया, तस्मा मिच्छावाचादीनं मग्गपच्चयभावो न वत्तब्बो. पट्ठानसंवण्णना हेसा. सेसपच्चयभावो च चेतनाय अनेकपच्चयभाववचनेन वुत्तोयेवाति न इदं पठितब्बन्ति न पठन्ति. ‘‘अहिरिकं…पे… मिद्धं उद्धच्चं विचिकिच्छा’’तिआदिमपाठो, विचिकिच्छा पन अधिपतिपच्चयो न होतीति तं तत्थ अपठित्वा ‘‘विचिकिच्छाइस्सामच्छरियकुक्कुच्चानि ततो अधिपतिपच्चयं अपनेत्वा’’ति एवमेत्थ पठन्ति.

‘‘चत्तारि महाभूतानि आरम्मण…पे… पुरेजातविप्पयुत्तअत्थिअविगतवसेन दसधा पच्चया होन्ति, पुन तथा हदयवत्थू’’ति पुरिमपाठो, महाभूतानि पन विप्पयुत्तपच्चया न होन्तीति ‘‘पुरेजातअत्थिअविगतवसेन नवधा पच्चया होन्ति, विप्पयुत्तपच्चयं पक्खिपित्वा दसधा वत्थु’’न्ति पठन्ति. एत्तकमेवेत्थ अपुब्बन्ति एतस्मिं पुरेजातपच्चये सहजातनिस्सयेहि अपुब्बं रूपसद्दगन्धरसायतनमत्तमेवाति अत्थो, आरम्मणानि पनेतानि आरम्मणपच्चयधम्मानं अनेकपच्चयभावे वुत्तानीति सब्बातिक्कन्तपच्चयापेक्खा एतेसं अपुब्बता नत्थीति. इन्द्रियादीसु अपुब्बं नत्थीति रूपजीवितिन्द्रियस्सपि अरूपजीवितिन्द्रियतो अपुब्बस्स पच्चयभावस्स अभावं मञ्ञमानेन अपुब्बता न वुत्ता. तस्स पन पुरेजातपच्चयभावतो अपुब्बता. कबळीकाराहारस्स च पुरेजातेन सद्धिं सत्तधा पच्चयभावो योजेतब्बो.

आकारोति मूलादिआकारो. अत्थोति तेनाकारेन उपकारकता. ‘‘येनाकारेना’’ति एतस्स वा अत्थवचनं ‘‘येनत्थेना’’ति. विपाकहेतूसुयेव लब्भतीति एत्थ अमोहविपाकहेतुस्स अधिपतिपच्चयभावो च लोकुत्तरविपाकेयेव लब्भतीति. एवं सब्बत्थ लब्भमानालब्भमानं सल्लक्खेतब्बं. विप्पयुत्तं अपठित्वा ‘‘छहाकारेही’’ति पुरिमपाठो, तं पन पठित्वा ‘‘सत्तहाकारेही’’ति पठन्ति. उक्कट्ठपरिच्छेदो हेत्थ वुच्चति, न च यं आरम्मणं निस्सयो होति, तं विप्पयुत्तं न होतीति.

अनन्तरसमनन्तरेसु यं कम्मपच्चयो होति, तं न आसेवनपच्चयो. यञ्च आसेवनपच्चयो होति, न तं कम्मपच्चयोति दट्ठब्बं. ‘‘पकतूपनिस्सयो पकतूपनिस्सयोवा’’ति वुत्तं, कम्मपच्चयोपि पन सो होति, तस्मा ‘‘कम्मपच्चयो चा’’ति पठन्ति. अयं पनेत्थ अत्थो – पकतूपनिस्सयो येभुय्येन पकतूपनिस्सयोव होति, कोचि पनेत्थ कम्मपच्चयो च होतीति. ‘‘आरम्मणपुरेजाते पनेत्थ इन्द्रियविप्पयुत्तपच्चयता न लब्भती’’ति वुत्तं. तत्थ आरम्मणपुरेजातन्ति यदि कञ्चि आरम्मणभूतं पुरेजातं वुत्तं, आरम्मणभूतस्स वत्थुस्स विप्पयुत्तपच्चयता लब्भतीति सा न लब्भतीति न वत्तब्बा. अथ पन वत्थुपुरेजाततो अञ्ञं वत्थुभावरहितारम्मणमेव ‘‘आरम्मणपुरेजात’’न्ति वुत्तं, तस्स निस्सयपच्चयता न लब्भतीति ‘‘निस्सयिन्द्रियविप्पयुत्तपच्चयता न लब्भती’’ति वत्तब्बं. इतो उत्तरिपीति पुरेजाततो परतोपीति अत्थो, इतो वा इन्द्रियविप्पयुत्ततो निस्सयिन्द्रियविप्पयुत्ततो वा उत्तरि आरम्मणाधिपतिआदि च लब्भमानालब्भमानं वेदितब्बन्ति अत्थो वत्तब्बो. कम्मादीसु पन लब्भमानालब्भमानं न वक्खतीति पुरिमोयेवेत्थ अत्थो अधिप्पेतो.

‘‘कबळीकारो आहारो आहारपच्चयोवा’’ति पुरिमपाठो, अत्थिअविगतपच्चयोपि पन सो होति, तेन ‘‘कबळीकारो आहारो आहारपच्चयत्तं अविजहन्तोव अत्थिअविगतानं वसेन अपरेहिपि द्वीहाकारेहि अनेकपच्चयभावं गच्छती’’ति पठन्ति.

‘‘यथानुरूपं झानपच्चये वुत्तानं दसन्नं हेतुअधिपतीनञ्चाति इमेसं वसेना’’ति पुरिमपाठो, ‘‘यथानुरूपं झानपच्चये वुत्तानं मग्गवज्जानं नवन्नं हेतुअधिपतिझानानञ्चाति इमेसं वसेना’’ति पच्छिमपाठो, तेसु विचारेत्वा युत्तो गहेतब्बो.

समनन्तरनिरुद्धताय आरम्मणभावेन च सदिसो पच्चयभावो पच्चयसभागता, विरुद्धपच्चयता पच्चयविसभागता. ‘‘इमिना उपायेना’’ति वचनतो हेतुआदीनं सहजातानं सहजातभावेन सभागता, सहजातासहजातानं हेतुआरम्मणादीनं अञ्ञमञ्ञविसभागताति एवमादिना उपायेन सभागता विसभागता योजेतब्बा.

जनकायेव, न अजनकाति जनकभावप्पधानायेव हुत्वा पच्चया होन्ति, न उपत्थम्भकभावप्पधानाति अत्थो दट्ठब्बो. येसं हेतुआदयो पच्चया होन्ति, ते तेहि विना नेव उप्पज्जन्ति, न च पवत्तन्तीति तेसं उभयप्पधानता वुत्ता. न हि ते अनन्तरादयो विय जननेनेव पवत्तिं करोन्तीति.

सब्बेसं ठानं कारणभावो सब्बट्ठानं, तं एतेसं अत्थीति सब्बट्ठानिका. उपनिस्सयं भिन्दन्तेन तयोपि उपनिस्सया वत्तब्बा, अभिन्दित्वा वा उपनिस्सयग्गहणमेव कातब्बं. तत्थ भिन्दनं पकतूपनिस्सयस्स रूपानं पच्चयत्ताभावदस्सनत्थं, आरम्मणानन्तरूपनिस्सयानं पन पुब्बे आरम्मणाधिपतिअनन्तरग्गहणेहि गहितत्ता तेसु एकदेसेन अनन्तरूपनिस्सयेन इतरम्पि दस्सेतीति दट्ठब्बं. पुरेजातपच्छाजातापि असब्बट्ठानिका अरूपरूपानञ्ञेव यथाक्कमेन पच्चयभावतोति एत्थ पुरेजातपच्चयो अनन्तरादीसु एव वत्तब्बो तंसमानगतिकत्ता, न च युगळभावो पच्छाजातेन सह कथने कारणं असब्बट्ठानिकदस्सनमत्तस्स अधिप्पेतत्ताति तं तत्थ पठित्वा ‘‘पच्छाजातोपि असब्बट्ठानिको रूपानंयेव पच्चयभावतो’’ति पठन्ति.

पच्चयनिद्देसपकिण्णकविनिच्छयकथावण्णना निट्ठिता.