१०. पुरेजातपच्चयनिद्देसवण्णना

१०. नयदस्सनवसेन यानि विना आरम्मणपुरेजातेन न वत्तन्ति, तेसं चक्खुविञ्ञाणादीनं आरम्मणपुरेजातदस्सनेन मनोद्वारेपि यं यदारम्मणपुरेजातेन वत्तति, तस्स तदालम्बितं सब्बम्पि रूपरूपं आरम्मणपुरेजातन्ति दस्सितमेव होति, सरूपेन पन अदस्सितत्ता ‘‘सावसेसवसेन देसना कता’’ति आह. चित्तवसेन कायं परिणामयतो इद्धिविधाभिञ्ञाय च अट्ठारससु यंकिञ्चि आरम्मणपुरेजातं होतीति दट्ठब्बं.

तदारम्मणभाविनोति एत्थ पटिसन्धिभाविनो वत्थुपुरेजाताभावेन इतरस्सपि अभावा अग्गहणं. भवङ्गभाविनो पन गहणं कातब्बं न वा कातब्बं पटिसन्धिया विय अपरिब्यत्तस्स आरम्मणस्स आरम्मणमत्तभावतो, ‘‘मनोधातूनञ्चा’’ति एत्थ सन्तीरणभाविनो मनोविञ्ञाणधातुयापि.

पुरेजातपच्चयनिद्देसवण्णना निट्ठिता.