२. पवत्तिवारवण्णना

५०-२०५. पवत्तिवारे वेदनाक्खन्धादिमूलकानि पच्छिमेनेव सह योजेत्वा तीणि द्वे एकञ्च यमकानि वुत्तानि, न पुरिमेन. कस्मा? अमिस्सककालभेदेसु वारेसु अत्थविसेसाभावतो. पुरिमस्स हि पच्छिमेन योजितयमकमेव पच्छिमस्स पुरिमेन योजनाय पुच्छानं उप्पटिपाटिया वुच्चेय्य, अत्थे पन न कोचि विसेसोति. पुच्छाविस्सज्जनेसुपि विसेसो नत्थि, तेन तथा योजना न कताति. कालभेदा पनेत्थ छ एव वुत्ता. अतीतेन पच्चुप्पन्नो, अनागतेन पच्चुप्पन्नो, अनागतेनातीतोति एते पन तयो यथादस्सिता मिस्सककालभेदा एव तयो, न विसुं विज्जन्तीति न गहिता. तत्थ तत्थ हि पटिलोमपुच्छाहि अतीतेन पच्चुप्पन्नादयो कालभेदा दस्सिता, तेनेव च नयेन ‘‘यस्स रूपक्खन्धो उप्पज्जित्थ, तस्स वेदनाक्खन्धो उप्पज्जती’’तिआदि सक्का योजेतुं. तेनेव हि मिस्सककालभेदेसु च न पच्छिमपच्छिमस्स खन्धस्स पुरिमपुरिमेन योजनं कत्वा यमकानि वुत्तानि, अमिस्सककालभेदेसु गहितनियामेन सुखग्गहणत्थम्पि पच्छिमपच्छिमेनेव योजेत्वा वुत्तानीति.

इमिनायेव च लक्खणेनातिआदिना येन कारणेन ‘‘पुरेपञ्हो’’ति च ‘‘पच्छापञ्हो’’ति च नामं वुत्तं, तं दस्सेति. यस्स हि सरूपदस्सनेन विस्सज्जनं होति, सो परिपूरेत्वा विस्सज्जेतब्बत्थसङ्गण्हनतो परिपुण्णपञ्हो नाम. तंविस्सज्जनस्स पन पुरिमकोट्ठासेन सदिसत्थताय पुरेपञ्हो, पच्छिमकोट्ठाससदिसत्थताय ‘‘पच्छापञ्हो’’ति च नामं वुत्तं. सदिसत्थता च सन्निट्ठानसंसयपदविसेसं अविचारेत्वा एकेन पदेन सङ्गहितस्स खन्धस्स उप्पादनिरोधलाभसामञ्ञमत्तेन पुरेपञ्हे दट्ठब्बा. सन्निट्ठानपदसङ्गहितस्स वा खन्धस्स अनुञ्ञातवसेन पुरेपञ्हो वुत्तोति युत्तं.

सन्निट्ठानत्थस्सेव पटिक्खिपनं पटिक्खेपो, संसयत्थनिवारणं पटिसेधोति अयं पटिक्खेपपटिसेधानं विसेसो. पाळिपदमेव हुत्वाति पुच्छापाळिया ‘‘नुप्पज्जती’’ति यं पदं वुत्तं, न-कारविरहितं तदेव पदं हुत्वाति अत्थो. तत्थ उप्पत्तिनिरोधपटिसेधस्स पटिसेधनत्थं पाळिगतिया विस्सज्जनं उप्पत्तिनिरोधानमेव पटिसेधनत्थं पटिसेधेन विस्सज्जनं कतन्ति वेदितब्बं.

चतुन्नं पञ्हानं पञ्चन्नञ्च विस्सज्जनानं सत्तवीसतिया ठानेसु पक्खेपो तदेकदेसपक्खेपवसेन वुत्तोति वेदितब्बो. परिपुण्णपञ्हो एव हि सरूपदस्सनेन च विस्सज्जनं सत्तवीसतिया ठानेसु पक्खिपितब्बन्ति.

किं नु सक्का इतो परन्ति इतो पाळिववत्थानदस्सनादितो अञ्ञो किं नु सक्का कातुन्ति अञ्ञस्स सक्कुणेय्यस्स अभावं दस्सेति.

‘‘सुद्धावासानं तेसं तत्थ रूपक्खन्धो च नुप्पज्जित्थ वेदनाक्खन्धो च नुप्पज्जित्था’’ति एतेन सुद्धावासभूमीसु एकभूमियम्पि दुतिया उपपत्ति नत्थीति ञापितं होति. पटिसन्धितो पभुति हि याव चुति, ताव पवत्तकम्मजसन्तानं एकत्तेन गहेत्वा तस्स उप्पादनिरोधवसेन अयं देसना पवत्ता. तस्मिञ्हि अब्बोच्छिन्ने कुसलादीनञ्च पवत्ति होति, वोच्छिन्ने च अप्पवत्तीति तेनेव च उप्पादनिरोधा दस्सिता, तस्मा तस्स एकसत्तस्स पटिसन्धिउप्पादतो याव चुतिनिरोधो, ताव अतीतता नत्थि, न च ततो पुब्बे तत्थ पटिसन्धिवसेन कम्मजसन्तानं उप्पन्नपुब्बन्ति खन्धद्वयम्पि ‘‘नुप्पज्जित्था’’ति वुत्तं. कस्मा पन एताय पाळिया सकलेपि सुद्धावासे दुतिया पटिसन्धि नत्थीति न विञ्ञायतीति? उद्धंसोतपाळिसब्भावा. द्वेपि हि पाळियो संसन्देतब्बाति.

‘‘असञ्ञसत्तानं तेसं तत्थ रूपक्खन्धो उप्पज्जिस्सती’’ति एत्थ ‘‘यस्स यत्थ रूपक्खन्धो उप्पज्जिस्सती’’ति एतेन सन्निट्ठानेन विसेसिता असञ्ञसत्तापि सन्तीति ते एव गहेत्वा ‘‘असञ्ञसत्तान’’न्ति वुत्तं. तेन ये सन्निट्ठानेन वज्जिता, ते ततो पञ्चवोकारं गन्त्वा परिनिब्बायिस्सन्ति, न तेसं पुन असञ्ञे उपपत्तिप्पसङ्गो अत्थीति ते सन्धायाह – ‘‘पच्छिमभविकानं तेसं तत्थ रूपक्खन्धो च नुप्पज्जिस्सति वेदनाक्खन्धो च नुप्पज्जिस्सती’’ति (यम. १.खन्धयमक.६५). एत्थ किं पञ्चवोकारादिभावो विय पच्छिमभवोपि कोचि अत्थि, यत्थ तेसमनुप्पत्ति भविस्सतीति? नत्थि पञ्चवोकारादिभवेस्वेव यत्थ वा तत्थ वा ठितानं पच्छिमभविकानं ‘‘यस्स यत्थ रूपक्खन्धो नुप्पज्जिस्सती’’ति एतेन सन्निट्ठानेन सङ्गहितत्ता. तेसं तत्थ इतरानुप्पत्तिभावञ्च अनुजानन्तो ‘‘वेदनाक्खन्धो च नुप्पज्जिस्सती’’ति आहाति.

‘‘सुद्धावासे परिनिब्बन्तान’’न्ति इदं सप्पटिसन्धिकानं अप्पटिसन्धिकानञ्च सुद्धावासानं तंतंभूमियं खन्धपरिनिब्बानवसेन वुत्तन्ति वेदितब्बं. सब्बेसञ्हि तेसं तत्थ वेदनाक्खन्धो नुप्पज्जित्थाति. यथा पन ‘‘निरुज्झिस्सती’’ति वचनं पच्चुप्पन्नेपि उप्पादक्खणसमङ्गिम्हि पवत्तति, न एवं ‘‘उप्पज्जित्था’’ति वचनं पच्चुप्पन्ने पवत्तति, अथ खो उप्पज्जित्वा विगते अतीते एव, तस्मा ‘‘परिनिब्बन्तानं नुप्पज्जित्था’’ति वुत्तं उप्पन्नसन्तानस्स अविगतत्ता. अनन्ता लोकधातुयोति ओकासस्स अपरिच्छिन्नत्ता ओकासवसेन वुच्चमानानं उप्पादनिरोधानम्पि परिच्छेदाभावतो संकिण्णता होतीति ‘‘यत्थ वेदनाक्खन्धो उप्पज्जति, तत्थ सञ्ञाक्खन्धो निरुज्झतीति? आमन्ता’’ति वुत्तं.

पवत्तिवारवण्णना निट्ठिता.