३. परिञ्ञावारवण्णना
२०६-२०८. पुग्गलोकासवारो लब्भमानोपीति कस्मा वुत्तं, ननु ओकासवारस्स अलाभे तस्सपि अलाभेन भवितब्बन्ति? न, तत्थ पुग्गलस्सेव परिञ्ञावचनतो. पुग्गलोकासवारेपि हि ओकासे पुग्गलस्सेव परिञ्ञा वुच्चति, न ओकासस्स. ओकासवारोपि च यदि वुच्चेय्य, ‘‘यत्थ रूपक्खन्धं परिजानाती’’ति ओकासे पुग्गलस्सेव परिजाननवसेन वुच्चेय्य, तस्मा पुग्गलोकासवारस्सेव लब्भमानता वुत्ता, न ओकासवारस्साति. तेनाह – ‘‘आमन्ता…पे… सिया’’ति.
तेनेवाति पवत्ते चित्तक्खणवसेन तिण्णं अद्धानं लाभतो एव, अञ्ञथा चुतिपटिसन्धिक्खणे रूपक्खन्धपरिजाननस्स अभावा ‘‘यो रूपक्खन्धं परिजानाति, सो वेदनाक्खन्धं परिजानाती’’ति एत्थ ‘‘नत्थी’’ति विस्सज्जनेन भवितब्बं सिया, ‘‘आमन्ता’’ति च कतन्ति. सन्निट्ठानसंसयपदसङ्गहितानं परिञ्ञानं पवत्ते चित्तक्खणे एव लाभं दस्सेन्तो ‘‘लोकुत्तरमग्गक्खणस्मिञ्ही’’तिआदिमाह. न परिजानातीति पञ्हे पुथुज्जनं सन्धाय आमन्ताति वुत्तन्ति इदं पुथुज्जनस्स सब्बथा परिञ्ञाकिच्चस्स अभावतो वुत्तं. ‘‘अरहा रूपक्खन्धं न परिजानाति नो च वेदनाक्खन्धं न परिजानित्थ, अग्गमग्गसमङ्गिञ्च अरहन्तञ्च ठपेत्वा अवसेसा पुग्गला रूपक्खन्धञ्च न परिजानन्ति वेदनाक्खन्धञ्च न परिजानित्था’’ति पन वचनेन ‘‘अग्गमग्गसमङ्गिं ठपेत्वा अञ्ञो कोचि परिजानाती’’ति वत्तब्बो नत्थीति दस्सितं होति, तेन तदवसेसपुग्गले सन्धाय ‘‘आमन्ता’’ति वुत्तन्ति विञ्ञायतीति.
परिञ्ञावारवण्णना निट्ठिता.
खन्धयमकवण्णना निट्ठिता.