१०. जीवितिन्द्रियकथावण्णना
५४०. अरूपजीवितिन्द्रियन्तिपञ्हे ‘‘अत्थि अरूपीनं धम्मानं आयू’’तिआदिकं पञ्हं अन्तं गहेत्वा वदति. अरूपधम्मानं चित्तविप्पयुत्तं जीवितिन्द्रियसन्तानं नाम अत्थीति इच्छतीति एत्थ रूपारूपधम्मानं तं इच्छन्तो अरूपधम्मानं इच्छतीति वत्तुं युत्तोति ‘‘अरूपधम्मान’’न्ति वुत्तन्ति दट्ठब्बं.
५४१. सत्तसन्ताने रूपिनो वा धम्मा होन्तूतिआदिनापि तमेव जीवितिन्द्रियसन्तानं वदतीति वेदितब्बं.
५४२. पुब्बापरभागं सन्धायाति समापत्तिया आसन्नभावतो तदापि समापन्नोयेवाति अधिप्पायो.
५४४-५४५. द्वे जीवितिन्द्रियानीति ‘‘पुच्छा सकवादिस्स, पटिञ्ञा इतरस्सा’’ति पुरिमपाठो. ‘‘पुच्छा परवादिस्स, पटिञ्ञा सकवादिस्सा’’ति पच्छिमपाठो, सो युत्तो.
जीवितिन्द्रियकथावण्णना निट्ठिता.