७. पथवीकम्मविपाकोतिकथावण्णना

४९२. फस्सो सुखवेदनीयादिभेदो होतीति फस्सेन सब्बम्पि कम्मविपाकं दस्सेत्वा पुन अत्तवज्जेहि सम्पयोगदस्सनत्थं ‘‘सो च सञ्ञादयो चा’’तिआदि वुत्तं. अत्थि च नेसन्ति सावज्जने चक्खुविञ्ञाणादिसहजातधम्मे सन्धाय वुत्तं. यो तत्थ इट्ठविपाको, तस्स पत्थनाति इट्ठविपाके एव पत्थनं कत्वा कम्मं करोन्तीति कम्मूपनिस्सयभूतमेव पत्थनं दस्सेति, पच्चुप्पन्नवेदनापच्चयं वा तण्हं उपादानादिनिब्बत्तनवसेन दुक्खस्स पभावितं. मूलतण्हाति पच्चुप्पन्नविपाकवट्टनिब्बत्तककम्मस्स उपनिस्सयभूतं पुरिमतण्हं, कम्मसहायं वा विपाकस्स उपनिस्सयभूतं.

४९३. सकसमयवसेन च चोदनाय पयुज्जमानतं दस्सेतुं ‘‘तेसञ्च लद्धिया’’तिआदिमाह.

४९४. पटिलाभवसेनाति कम्मे सति पथवियादीनं पटिलाभो होतीति कम्मं तंसंवत्तनिकं नाम होतीति दस्सेति.

पथवीकम्मविपाकोतिकथावण्णना निट्ठिता.