५. परिभोगमयपुञ्ञकथावण्णना

४८३. परिभोगमयं नाम चित्तविप्पयुत्तं पुञ्ञं अत्थीति लद्धि. तञ्हि ते सन्धाय परिभोगमयं पुञ्ञं पवड्ढतीति वदन्तीति अधिप्पायो.

४८५. तस्सापि वसेनाति तस्सापि लद्धिया वसेन. पञ्चविञ्ञाणानं विय एतेसम्पि समोधानं सियाति पटिजानातीति वदन्ति. पञ्चविञ्ञाणफस्सादीनमेव पन समोधानं सन्धाय पटिजानातीति अधिप्पायो.

४८६. अपरिभुत्तेपीति इमिना ‘‘पटिग्गाहको पटिग्गहेत्वा न परिभुञ्जति छड्डेती’’तिआदिकं दस्सेति. अपरिभुत्ते देय्यधम्मे पुञ्ञभावतो परिभोगमयं पुञ्ञं पवड्ढतीति अयं वादो हीयति. तस्मिञ्च हीने सकवादीवादो बलवा. चागचेतनाय एव हि पुञ्ञभावो एवं सिद्धो होतीति अधिप्पायो. अपरिभुत्तेपि देय्यधम्मे पुञ्ञभावे चागचेतनाय एव पुञ्ञभावोति आह ‘‘सकवादीवादोव बलवा’’ति.

परिभोगमयपुञ्ञकथावण्णना निट्ठिता.