१०. वोहारकथावण्णना
३४७. वोहारकथायं उदाहु सोतादीनिपीति एकन्तलोकियेसु विसयविसयीसु विसयस्सेव लोकुत्तरभावो, न विसयीनन्ति नत्थेत्थ कारणं. यथा च विसयीनं लोकुत्तरभावो असिद्धो, तथा विसयस्स सद्दायतनस्स. तत्थ यथा असिद्धलोकुत्तरभावस्स तस्स लोकुत्तरता, एवं सोतादीनं आपन्नाति किन्ति तानिपि लोकुत्तरानीति अत्थो दट्ठब्बो.
यदि लोकुत्तरे पटिहञ्ञेय्य, लोकुत्तरो सियाति अत्थो न गहेतब्बो. न हि लोकुत्तरे पटिहञ्ञतीति परिकप्पितेपि सद्दस्स लोकुत्तरभावो अत्थीति अधिप्पायो. ‘‘लोकियेन ञाणेना’’ति उद्धटं, ‘‘विञ्ञाणेना’’ति पन पाळि, तञ्च विञ्ञाणं सोतसम्बन्धेन सोतविञ्ञाणन्ति विञ्ञायतीति. अनेकन्तताति लोकियेन ञाणेन जानितब्बतो लोकियोति एतस्स हेतुस्स लोकिये लोकुत्तरे च सम्भवतो अनेकन्तभावो सियाति अधिप्पायो.
वोहारकथावण्णना निट्ठिता.