७. धम्मकथावण्णना
८८७-८८८. धम्मकथायं रूपट्ठतो अञ्ञस्स रूपस्स अभावाति यो रूपस्स नियामो वुच्चेय्य, सो रूपट्ठो नाम कोचि रूपतो अञ्ञो नत्थीति रूपट्ठतो अञ्ञं रूपञ्च न होति, तस्मा रूपं रूपमेव, न वेदनादिसभावन्ति अधिप्पायेन ‘‘रूपं रूपट्ठेन नियत’’न्ति वत्तब्बं, न अञ्ञथा रूपट्ठेन नियामेनाति अधिप्पायो. तत्थ रूपतो अञ्ञस्स रूपट्ठस्स अभावे दस्सिते रूपट्ठतो अञ्ञस्स रूपस्स अभावो दस्सितोयेव नाम होतीति तमेव रूपतो अञ्ञस्स रूपट्ठस्स अभावं दस्सेन्तो ‘‘रूपसभावो ही’’तिआदिमाह. एस वोहारोति रूपस्स सभावो रूपसभावो, रूपस्स अत्थो रूपट्ठोति एवं अञ्ञत्तं गहेत्वा विय पवत्तो रूपसभाववोहारो रूपट्ठवोहारो वा वेदनादीहि नानत्तमेव सो सभावोति नानत्तसञ्ञापनत्थं होतीति अत्थो. तस्माति रूपस्स रूपट्ठेन अनञ्ञत्ता. ‘‘रूपं रूपमेव, न वेदनादिसभाव’’न्ति अवत्वा ‘‘रूपं रूपट्ठेन नियत’’न्ति वदतो तञ्च वचनं वुत्तप्पकारेन सदोसं, अथ कस्मा ‘‘रूपञ्हि रूपट्ठेन नियतन्ति रूपं रूपमेव, न वेदनादिसभावन्ति अधिप्पायेन वत्तब्ब’’न्ति वदन्तो ‘‘रूपं रूपट्ठेन नियत’’न्ति पटिजानातीति अत्थो दट्ठब्बो. ननु चेतं अत्तनाव वुत्तं, न परेनाति पटिजानातीति न वत्तब्बन्ति? न, अत्तानम्पि परं विय वचनतो. वत्तब्बन्ति वा सकवादिना वत्तब्बन्ति वुत्तं होति. यदि च तेन वत्तब्बं पटिजानाति च सो एतमत्थन्ति, अथ कस्मा पटिजानाति सकवादीति अयमेत्थ अत्थो. अत्थन्तरवसेनाति तत्थ वुत्तमेव कारणं निगूहित्वा परेन चोदितन्ति तमेव कारणं दस्सेत्वा चोदनं निवत्तेति. इतो अञ्ञथाति रूपादिसभावमत्तं मुञ्चित्वा तेन परिकप्पितं नियतं नत्थीति तस्स परिकप्पितस्स निवत्तनत्थं पुन तेनेव नयेन चोदेतुं ‘‘मिच्छत्तनियत’’न्तिआदिमाहाति अत्थो.
धम्मकथावण्णना निट्ठिता.
एकवीसतिमवग्गवण्णना निट्ठिता.