७. अच्चन्तनियामकथावण्णना

८४७. ‘‘सकिं निमुग्गो निमुग्गोव होती’’ति सुत्तं निस्सायाति ताय जातिया लोकुत्तरसद्धादीनं अनुप्पत्तिं सन्धाय कतं अवधारणं संसारखाणुकभावं सन्धाय कतन्ति मञ्ञमानो पुथुज्जनस्सायं अच्चन्तनियामता, यायं नियतमिच्छादिट्ठीति ‘‘अत्थि पुथुज्जनस्स अच्चन्तनियामता’’ति वदति. विचिकिच्छुप्पत्ति नियामन्तरुप्पत्ति च अच्चन्तनियामनिवत्तका विचारेत्वा गहेतब्बा.

अच्चन्तनियामकथावण्णना निट्ठिता.