४. नियतस्सनियामकथावण्णना

६६३-६६४. सेसा तेभूमकधम्मा अनियता नामाति एत्थ अप्पत्तनियामानं धम्मे सन्धाय ‘‘तेभूमकधम्मा’’ति आह. एतेव हि सन्धाय ‘‘तेहि समन्नागतोपि अनियतोयेवा’’ति वुत्तन्ति. इति इमं वोहारमत्तं गहेत्वा ‘‘नियतो बोधिसत्तो पच्छिमभविको भब्बो धम्मं अभिसमेतुं ओक्कमितु’’न्ति अधिप्पायेन ‘‘नियामं ओक्कमती’’ति येसं लद्धीति अत्थयोजना. एवं पन वोहारमत्तसब्भावो ‘‘नियतो’’ति वचनस्स, धम्मं अभिसमेतुं भब्बता च ‘‘नियामं ओक्कमती’’ति वचनस्स कारणभावेन वुत्ता होति, भब्बतायेव पन उभयस्सपि कारणन्ति युत्तं. अञ्ञेनाति यदि नियतो नियामं ओक्कमेय्य, मिच्छत्तनियतो सम्मत्तनियामं, सम्मत्तनियतो वा मिच्छत्तनियामं ओक्कमेय्य, न च तं अत्थीति दस्सनत्थन्ति अत्थो.

नियतस्सनियामकथावण्णना निट्ठिता.