९. धम्मट्ठितताकथावण्णना
६२७. अनन्तरपच्चयतञ्चेवाति अविज्जा सङ्खारानं अनन्तरपच्चयो अविज्जाय या ठितता ततो होति, ताय ठितताय अनन्तरपच्चयभावसङ्खाता ठितता होतीति अधिप्पायो. अनन्तरपच्चयग्गहणञ्चेत्थ अञ्ञमञ्ञपच्चयभावरहितस्स एकस्स पच्चयस्स दस्सनत्थन्ति दट्ठब्बं. तेन हि सब्बो तादिसो पच्चयो दस्सितो होतीति. अञ्ञमञ्ञपच्चयतञ्चाति अविज्जा सङ्खारानं पच्चयो, सङ्खारा च अविज्जाय. तत्थ अविज्जाय सङ्खारानं पच्चयभावसङ्खाताय ठितताय सङ्खारानं अविज्जाय पच्चयभावसङ्खाता ठितता होति, तस्सा च इतराति अधिप्पायो.
धम्मट्ठितताकथावण्णना निट्ठिता.