३. पञ्चविञ्ञाणसमङ्गिस्समग्गकथावण्णना

५७६. तं लक्खणन्ति ‘‘छ विञ्ञाणा’’ति अवत्वा ‘‘पञ्चविञ्ञाणा उप्पन्नवत्थुका’’तिआदिना वुत्तं लक्खणं. ‘‘छ विञ्ञाणा’’ति अवचनं पनेत्थ ‘‘नो च वत रे वत्तब्बे’’तिआदिवचनस्स कारणन्ति अधिप्पेतं.

५७७. लोकियोति विपस्सनामग्गमाह. यं तत्थ अनिमित्तन्ति चक्खुविञ्ञाणसमङ्गिक्खणे यं अनिमित्तं गण्हन्तो न निमित्तग्गाहीति वुत्तो, तदेव सुञ्ञतन्ति अधिप्पायो.

पञ्चविञ्ञाणसमङ्गिस्समग्गकथावण्णना निट्ठिता.