७. सत्तमनयो सम्पयुत्तेनविप्पयुत्तपदवण्णना

३०६. सम्पयुत्तेनविप्पयुत्तपदनिद्देसे रूपक्खन्धादयो तेहि सम्पयुत्ताभावतो न गहिता. समुदयसच्चादीनि सतिपि तेहि सम्पयुत्ते, सम्पयुत्तेहि च विप्पयुत्ते सम्पयुत्तेनविप्पयुत्तानं खन्धादीहि विप्पयोगाभावतो. न हि समुदयसच्चेन सम्पयुत्तेहि लोभसहगतचित्तुप्पादेहि विप्पयुत्तानं ततो अञ्ञधम्मानं खन्धादीसु केनचि विप्पयोगो अत्थि. ननु च ते एव चित्तुप्पादा चत्तारो खन्धा अड्ढदुतियानि आयतनानि अड्ढदुतिया धातुयो च होन्तीति तेहि विप्पयोगो वत्तब्बोति? न, तदञ्ञधम्मानं खन्धादिभावतो. न हि ते एव धम्मा चत्तारो खन्धा, अथ खो ते च ततो अञ्ञे च, तथा अड्ढदुतियायतनधातुयोपि. न च तदञ्ञसमुदायेहि अञ्ञे विप्पयुत्ता होन्ति समुदायेकदेसानं एकदेसञ्ञसमुदायानञ्च विप्पयोगाभावतो. एस नयो मग्गसच्चसुखिन्द्रियादीसु. अवितक्कविचारमत्तेसुपि निरवसेसेसु अधिप्पेतेसु तेसं सवितक्कसविचारसमानगतिकत्ता अग्गहणे कारणं न दिस्सति.

अट्ठकथायं पन एवरूपानीति यथा रूपक्खन्धे विस्सज्जनं न युज्जति, एवं येसु अञ्ञेसुपि न युज्जति, तानि विस्सज्जनस्स अयोगेन ‘‘एवरूपानी’’ति वुत्तानि, न सम्पयुत्ताभावेनाति दट्ठब्बं. यानि पन पदानि धम्मधातुया सम्पयुत्ते धम्मे दीपेन्तीति एतेन वेदनाक्खन्धादिपदानि दस्सेति, विञ्ञाणञ्च अञ्ञेन असम्मिस्सन्ति विञ्ञाणक्खन्धमनायतनादिपदानि. तत्थ अञ्ञेन असम्मिस्सन्ति असम्पयुत्तेन असम्मिस्सन्ति अत्थो. अदुक्खमसुखायवेदनायसम्पयुत्तपदानिपि हि सम्पयुत्तेहि सम्मिस्सविञ्ञाणदीपकानि इध गहितानीति. एतेन च लक्खणेन एवरूपानेव गहितानीति दस्सेति, न एवरूपानि गहितानेवाति समुदयसच्चादिइद्धिपादादिपदानं असङ्गहितत्ता. ‘‘अथ फस्ससत्तकं चित्तं सह युत्तपदेहि सत्ता’’ति पुराणपाठो, अयं पन ऊनोति कत्वा ‘‘अथ फस्ससत्तकं, तिके तयो सत्त महन्तरे चा’’ति पाठो कतो.

३०९. पुच्छाय उद्धटपदेनेव सद्धिं विप्पयुत्तानं वसेनाति इदं पुच्छाय उद्धटपदेन सम्पयुत्तेहि विप्पयुत्ता तेन सद्धिं विप्पयुत्ता होन्तीति कत्वा वुत्तं. पाळिउद्दानगाथायं द्वे च मनेन युत्ता, वितक्कविचारणाति मनोधातुया एकन्तसम्पयुत्ता द्वे वितक्कविचाराति सवितक्कपदं सविचारपदञ्च दस्सेति.

सत्तमनयसम्पयुत्तेनविप्पयुत्तपदवण्णना निट्ठिता.