३. ततियनयो असङ्गहितेनसङ्गहितपदवण्णना

१७९. असङ्गहितेनसङ्गहितपदनिद्देसे रूपक्खन्धेन खन्धसङ्गहेन असङ्गहितेसु वेदनादीनं तिण्णं खन्धानं निब्बानस्स च सुखुमरूपेन सह आयतनधातुसभागत्ते सतिपि न सुखुमरूपमेव रूपक्खन्धोति रूपक्खन्धेन आयतनधातुसभागत्तं नत्थि, तस्मा न तेन तानि आयतनधातुसङ्गहेहि सङ्गहितानि. न केवलं सङ्गहितानेव, असङ्गहितानिपि तेन तानि तेहि सङ्गहेहि न होन्तेव तदेकदेसेन सुखुमरूपेन आयतनधातुसभागत्ता, सङ्गहिताभावो एव पन इधाधिप्पेतो, विञ्ञाणक्खन्धचक्खायतनादीहि पन असङ्गहिता न ते तेहि कथञ्चि सम्मिस्साति सब्बथा ते तेहि न सङ्गहिता. दुक्खसच्चादीहि च पञ्चक्खन्धसमुदायभूतेहि खन्धसङ्गहेन असङ्गहितं निब्बानं रूपक्खन्धेन विय आयतनधातुसङ्गहेहि सङ्गहितं तेहि न होति, तस्मा सङ्गाहकत्ताभावतो एव एवरूपानं असङ्गाहकभावेन अग्गहणं वेदितब्बं, सनिब्बानपञ्चक्खन्धसमुदायभूतानं पन अब्याकतधम्मादीनं असङ्गाहकत्ताभावतोव. न हि तं कञ्चि अत्थि, यस्स ते खन्धसङ्गहेन असङ्गाहका सियुं, न च अत्तनो एकदेसो अत्तेकदेससभागो च अत्तना असङ्गहितो होतीति अत्तना असङ्गहितसङ्गाहकत्ता पन वेदनाक्खन्धादीनं गहणं कतन्ति.

यं पन अट्ठकथायं वुत्तं ‘‘ये धम्मायतनेन सङ्गहिता’’ति, तं न सक्का वत्तुं. धम्मायतनेन हि न कोचि धम्मो केनचि सङ्गहेन सङ्गहितो अत्थि विसभागक्खन्धनिब्बानसमुदायत्ता, खन्धसङ्गहेन सयमेव अत्तनो सङ्गाहकं न होतीति आयतनधातुसङ्गहेहि च सङ्गाहकत्ताभावतोति दस्सितोयं नयोति एतस्स धम्मायतनगणनेन गणिताति अत्थो. यानि…पे… गहितानीति एतेन विञ्ञाणसम्मिस्सं धम्मायतनेकदेसं दीपेन्तानि इद्धिपादादिपदानि, ओळारिकरूपसम्मिस्सं दीपेन्तानि रूपक्खन्धादिपदानि, सब्बेन सब्बं धम्मायतनं अदीपेन्तानि विञ्ञाणक्खन्धचक्खायतनादिपदानि, सकलधम्मायतनदीपकानि धम्मायतनादिपदानि च वज्जेत्वा धम्मायतनेकदेसं अञ्ञायतनेन असम्मिस्सं दीपेन्तानि गहितानीति दस्सेति.

ततियनयअसङ्गहितेनसङ्गहितपदवण्णना निट्ठिता.