४. चतुत्थनयो सङ्गहितेनसङ्गहितपदवण्णना

१९१. सङ्गहितेनसङ्गहितपदनिद्देसे यस्मा यथा दुतियततियनया तिण्णं सङ्गहानं सङ्गहणासङ्गहणप्पवत्तिविसेसेन ‘‘सङ्गहितेन असङ्गहितं, असङ्गहितेन सङ्गहित’’न्ति च उद्दिट्ठा, नेवं चतुत्थपञ्चमा. सङ्गहणप्पवत्तिया एव हि सङ्गहितेन सङ्गहितं उद्दिट्ठं, असङ्गहणप्पवत्तिया एव च असङ्गहितेन असङ्गहितन्ति, तस्मा सङ्गहणप्पवत्तिविसेसविरहे सङ्गहितधम्मासङ्गहितधम्मविसेसे निस्सिता एते द्वे नयाति एत्थ केनचि सङ्गहितेन धम्मविसेसेन पुन सङ्गहितो धम्मविसेसो सङ्गहितेन सङ्गहितो सङ्गहितताय पुच्छितब्बो विस्सज्जितब्बो च, तमेव ताव यथानिद्धारितं दस्सेन्तो ‘‘समुदयसच्चेन ये धम्मा खन्ध…पे… सङ्गहिता, तेहि धम्मेहि ये धम्मा खन्ध…पे… सङ्गहिता’’ति आह. एत्थ च ये तीहिपि सङ्गहेहि न सङ्गाहका रूपक्खन्धविञ्ञाणक्खन्धधम्मायतनदुक्खसच्चादीनि विय, ये च द्वीहायतनधातुसङ्गहेहि असङ्गाहका चक्खायतनादीनि विय, ये च एकेन खन्धसङ्गहेनेव धातुसङ्गहेनेव च न सङ्गाहका वेदनादिक्खन्धनिरोधसच्चजीवितिन्द्रियादीनि विय चक्खुविञ्ञाणधातादयो विय च, ते धम्मा सङ्गाहकत्ताभावसब्भावा सङ्गाहकभावेन न उद्धटा, तीहिपि पन सङ्गहेहि ये सङ्गाहका, ते सङ्गाहकत्ताभावाभावतो इध उद्धटा. तेहि सङ्गहितापि हि एकन्तेन अत्तनो सङ्गाहकस्स सङ्गाहका होन्ति, यस्स पुन सङ्गहो पुच्छितब्बो विस्सज्जितब्बो चाति.

अट्ठकथायं पन सकलेन हि खन्धादिपदेनाति सकलवाचकेन रूपक्खन्धादिपदेनाति अत्थो. यं पनेतं वुत्तं ‘‘यं अत्तनो सङ्गाहकं सङ्गण्हित्वा पुन तेनेव सङ्गहं गच्छेय्या’’ति, तं तेन खन्धादिपदेनाति एवं अयोजेत्वा तं अञ्ञं सङ्गहितं नाम नत्थीति एवं न सक्का वत्तुं. न हि येन यं सङ्गहितं, तेनेव तस्स सङ्गहो पुच्छितो विस्सज्जितो, न च तस्सेव, अथ खो तेन सङ्गहितस्साति. यथा वेदना सद्दो च खन्धो आयतनञ्च, न एवं सुखुमरूपं, तं पन खन्धायतनानं एकदेसोव, तस्मा ‘‘सुखुमरूपेकदेसं वा’’ति अवत्वा ‘‘सुखुमरूपं वा’’ति वुत्तं. सब्बत्थ च अञ्ञेन असम्मिस्सन्ति योजेतब्बं. यम्पि चेतं वुत्तं ‘‘तदेव येहि धम्मेहि खन्धादिवसेन सङ्गहितं, ते धम्मे सन्धाया’’ति, तम्पि तथा न सक्का वत्तुं. न हि सङ्गहितेन सङ्गहितस्स सङ्गहितेन सङ्गहो एत्थ पुच्छितो विस्सज्जितो च, अथ खो सङ्गहोव, तस्मा एकेन खन्धेनाति एकेन खन्धगणनेनाति अयमेवेत्थ अत्थो, न सङ्गाहकेनाति. न हि एको खन्धो अत्तनो एकदेसस्स सङ्गाहकोति.

चतुत्थनयसङ्गहितेनसङ्गहितपदवण्णना निट्ठिता.