१३. तेरसमनयो असङ्गहितेनसम्पयुत्तविप्पयुत्तपदवण्णना

४४८. तेरसमनयवण्णनायं येहि तीहिपि सङ्गहेहि असङ्गहितं विञ्ञाणमेव होति, ते पाळियं ‘‘रूपञ्च धम्मायतन’’न्तिआदिउद्दानगाथाय दस्सिता बावीस धम्मा ‘‘रूपक्खन्धेन सदिसपञ्हा धम्मा’’ति वुत्ता. येहि पन तीहिपि सङ्गहेहि असङ्गहितानि अरूपभवेन विय ओळारिकायतनानेव होन्ति, ते वुत्तावसेसा सब्बे इध उद्धटा ‘‘अरूपभवेन सदिसा’’ति वुत्ता. सेसाति सेसा पञ्चमनये आगता वेदनाक्खन्धादयो सतिपि असङ्गाहकत्ते इध विस्सज्जनं न रुहन्तीति न उद्धटा. ये पन असङ्गाहका एव न होन्ति दुक्खसच्चादिधम्मा, तेसु वत्तब्बमेव नत्थि. यथा पन वेदनाक्खन्धादयो न रुहन्ति, तं दस्सेतुं ‘‘वेदनाक्खन्धेन ही’’तिआदिमाह. तत्थ तेसञ्च सम्पयोगो नाम नत्थीति रूपारूपधम्मानं असम्पयोगेहि वोमिस्सताय सम्पयोगो नत्थीति अत्थो.

यदि पन ते कदाचि असब्बविञ्ञाणधातुसम्पयुत्ता अरूपधम्मा रूपधम्मा च सियुं, न तेसं विप्पयोगो नत्थीति ‘‘विप्पयोगो च नत्थी’’ति न वुत्तं, न वेदनाक्खन्धेन असङ्गहितानं विप्पयोगस्स अत्थितायाति वेदितब्बं. उभयाभावतो हि वेदनाक्खन्धादयो इध न रुहन्तीति. एवं पनेत्थ सिया ‘‘वेदनाक्खन्धेन हि खन्धादिवसेन अनारम्मणमिस्सका सत्तविञ्ञाणधातुधम्मा असङ्गहिता होन्ति, तेसञ्च सम्पयोगो विप्पयोगो च नत्थी’’ति. अनारम्मणसहितानञ्हि सब्बविञ्ञाणधातूनं सब्बविञ्ञाणधातुसम्पयुत्तानं तदुभयधम्मानञ्च वेदनाक्खन्धादिविञ्ञाणक्खन्धादिचक्खायतनादीहि तीहिपि सङ्गहेहि असङ्गहितानं सम्पयोगविप्पयोगाभावो अरुहणे कारणं. जातिविप्पयोगभूमिकालसन्तानविप्पयोगतो चतुब्बिधो विप्पयोगो. तत्थ जातिविप्पयोगो ‘‘कुसला धम्मा, अकुसला धम्मा’’तिआदि, भूमिविप्पयोगो ‘‘कामावचरा, रूपावचरा’’तिआदि, कालविप्पयोगो ‘‘अतीता धम्मा, अनागता धम्मा’’तिआदि, सन्तानविप्पयोगो ‘‘अज्झत्ता धम्मा, बहिद्धा धम्मा’’तिआदि. एवं विप्पयोगो चतुधा वेदितब्बो.

तेरसमनयअसङ्गहितेनसम्पयुत्तविप्पयुत्तपदवण्णना निट्ठिता.