१४. चुद्दसमनयो विप्पयुत्तेनसङ्गहितासङ्गहितपदवण्णना

४५६. चुद्दसमनये धम्मायतनादीनं अनारम्मणमिस्सकसब्बचित्तुप्पादगतधम्मभावतो विप्पयोगस्स अरुहणं दट्ठब्बं. जातिआदित्तयस्स चेत्थ धम्मसभावमत्तत्ता न कथञ्चि सम्पयोगो विप्पयोगो च रुहति अज्झत्तबहिद्धधम्मानं सब्बधम्मसमोधानत्ता, अनिदस्सनअप्पटिघादीनं अनारम्मणमिस्सकसब्बचित्तुप्पादत्ता. दुक्खसच्चादिधम्माव इध तेहि विप्पयुत्तानं सङ्गहासङ्गहसब्भावा गहिताति.

पाळिउद्दानगाथायं समुच्छेदे न लब्भन्तीति परियोसाने नये न लब्भन्तीति अत्थो. मोघपुच्छकेन चाति अलब्भमाना च ते मोघपुच्छकेन हेतुना न लब्भन्ति तेसं पुच्छाय मोघत्ताति वुत्तं होति. अथ वा मोघपुच्छको अट्ठमो नयो, तेन च सह ओसाननये एते धम्मा विप्पयोगस्सपि अभावा सब्बथापि न लब्भन्तीति अत्थो.

चुद्दसमनयविप्पयुत्तेनसङ्गहितासङ्गहितपदवण्णना निट्ठिता.

धातुकथापकरण-मूलटीका समत्ता.