१. खन्धपदवण्णना
६. खन्धायतनधातुयोमहन्तरे अभिञ्ञेय्यधम्मभावेन वुत्ता, तेसं पन सभावतो अभिञ्ञातानं धम्मानं परिञ्ञेय्यतादिविसेसदस्सनत्थं सच्चानि, अधिपतियादिकिच्चविसेसदस्सनत्थं इन्द्रियादीनि च वुत्तानीति सच्चादिविसेसो विय सङ्गहासङ्गहविसेसो च अभिञ्ञेय्यनिस्सितो वुच्चमानो सुविञ्ञेय्यो होतीति ‘‘तीहि सङ्गहो. तीहि असङ्गहो’’ति नयमुखमातिका ठपिताति वेदितब्बा. एवञ्च कत्वा ‘‘चतूही’’ति वुत्ता सम्पयोगविप्पयोगा च अभिञ्ञेय्यनिस्सयेन खन्धादीहेव पुच्छित्वा विस्सज्जिताति. रूपक्खन्धो एकेन खन्धेनाति ये धम्मा ‘‘रूपक्खन्धो’’ति वुच्चन्ति, तेसं पञ्चसु खन्धेसु रूपक्खन्धभावेन सभागता होतीति रूपक्खन्धभावसङ्खातेन, रूपक्खन्धवचनसङ्खातेन वा गणनेन सङ्गहं गणनं दस्सेति. तेनाह ‘‘यञ्हि किञ्ची’’तिआदि. रूपक्खन्धोति हि सङ्गहितब्बधम्मो दस्सितो. येन सङ्गहेन सङ्गय्हति, तस्स सङ्गहस्स दस्सनं ‘‘एकेन खन्धेना’’ति वचनं. पञ्चसु खन्धगणनेसु एकेन खन्धगणनेन गणितोति अयञ्हेत्थ अत्थो. यस्मा च खन्धादिवचनेहि सङ्गहो वुच्चति, तस्मा उपरि ‘‘खन्धसङ्गहेन सङ्गहिता’’तिआदिं वक्खतीति.
असङ्गहनयनिद्देसेति इदं ‘‘सङ्गहो असङ्गहो’’ति एतस्सेव नयस्स एकदेसनयभावेन वुत्तं, न नयन्तरतायाति दट्ठब्बं. रूपक्खन्धमूलकायेव चेत्थ दुकतिकचतुक्का दस्सिताति एतेन वेदनाक्खन्धमूलका पुरिमेन योजियमाने विसेसो नत्थीति पच्छिमेहेव योजेत्वा तयो दुका द्वे तिका एको चतुक्को, सञ्ञाक्खन्धमूलका द्वे दुका एको तिको, सङ्खारक्खन्धमूलको एको दुकोति एते लब्भन्तीति दस्सेति. तेसं पन भेदतो पञ्चकपुच्छाविस्सज्जनानन्तरं पुच्छाविस्सज्जनं कातब्बं संखित्तन्ति दट्ठब्बं, वुत्तनयेन वा सक्का ञातुन्ति पाळिं न आरोपितन्ति.
आयतनपदादिवण्णना
४०. यस्मा च दुकतिकेसूति यदिपि एककेपि सदिसं विस्सज्जनं, एकके पन सदिसविस्सज्जनानं चक्खुन्द्रियसोतिन्द्रियसुखिन्द्रियादीनं दुकादीसु असदिसविस्सज्जनं दिट्ठं. न हेत्थ चक्खुसोतचक्खुसुखिन्द्रियदुकानं अञ्ञमञ्ञसदिसविस्सज्जनं, नापि दुकेहि तिकस्स, इध पन दुक्खसमुदयदुक्खमग्गदुकानं अञ्ञमञ्ञं तिकेन च सदिसं विस्सज्जनन्ति दुकतिकेस्वेव सदिसविस्सज्जनतं समुदयानन्तरं मग्गसच्चस्स वचने कारणं वदति.