६. पटिच्चसमुप्पादवण्णना
६१. ‘‘पुच्छं अनारभित्वा अविज्जा एकेन खन्धेन, अविज्जापच्चया सङ्खारा एकेन खन्धेना’’ति लिखितब्बेपि पमादवसेन ‘‘अविज्जा एकेन खन्धेना’’ति इदं न लिखितन्ति दट्ठब्बं. सरूपेकसेसं वा कत्वा अविज्जावचनेन अविज्जाविस्सज्जनं दस्सितन्ति. सब्बम्पि विपाकविञ्ञाणन्ति एत्थ विपाकग्गहणेन विसेसनं न कातब्बं. कुसलादीनम्पि हि विञ्ञाणानं धातुकथायं सङ्खारपच्चयाविञ्ञाणादिपदेहि सङ्गहितता विप्पयुत्तेनसङ्गहितासङ्गहितपदनिद्देसे ‘‘विपाका धम्मा’’ति इमस्स विस्सज्जनासदिसेन तेसं विस्सज्जनेन दस्सिता, इध च नामरूपस्स एकादसहायतनेहि सङ्गहवचनेन अकम्मजानम्पि सङ्गहितता विञ्ञायतीति.
७१. जायमानपरिपच्चमानभिज्जमानानं जायमानादिभावमत्तत्ता जातिजरामरणानि परमत्थतो विनिब्भुज्जित्वा अनुपलब्भमानानि परमत्थानं सभावमत्तभूतानि, तानि रूपस्स निब्बत्तिपाकभेदभूतानि रुप्पनभावेन गय्हन्तीति रूपक्खन्धधम्मसभागानि, अरूपानं पन निब्बत्तिआदिभूतानि रूपकलापजातिआदीनि विय सहुप्पज्जमानचतुक्खन्धकलापनिब्बत्तिआदिभावतो एकेकभूतानि वेदियनसञ्जाननविजाननेहि एकन्तपरमत्थकिच्चेहि अगय्हमानानि सङ्खताभिसङ्खरणेन अनेकन्तपरमत्थकिच्चेन गय्हन्तीति सङ्खारक्खन्धधम्मसभागानि, तथा दुविधानिपि तानि चक्खायतनादीहि एकन्तपरमत्थकिच्चेहि अगय्हमानानि निस्सत्तट्ठेन धम्मायतनधम्मधातुधम्मेहि सभागानि, तेन तेहि खन्धादीहि सङ्गय्हन्तीति ‘‘जाति द्वीहि खन्धेही’’तिआदिमाह.
पठमनयसङ्गहासङ्गहपदवण्णना निट्ठिता.