५. झानसुत्तवण्णना
३६. पञ्चमे अनिच्चतोति इमिना निच्चप्पटिक्खेपतो तेसं अनिच्चतमाह. ततो एव उदयवयवन्ततो विपरिणामतो तावकालिकतो च ते अनिच्चाति जोतितं होति. यञ्हि निच्चं न होति, तं उदयवयपरिच्छिन्नजराय मरणेन चाति द्वेधा विपरिणतं इत्तरक्खणमेव च होति. दुक्खतोति न सुखतो. इमिना सुखप्पटिक्खेपतो तेसं दुक्खतमाह. ततो एव च अभिण्हप्पटिपीळनतो दुक्खवत्थुतो च ते दुक्खाति जोतितं होति. उदयवयवन्तताय हि ते अभिण्हप्पटिपीळनतो निरन्तरदुक्खताय दुक्खस्सेव च अधिट्ठानभूतो. पच्चययापनीयताय रोगमूलताय च रोगतो. दुक्खतासूलयोगतो किलेसासुचिपग्घरतो उप्पादजराभङ्गेहि उद्धुमातपक्कभिज्जनतो च गण्डतो. पीळाजननतो अन्तोतुदनतो दुन्नीहरणतो च सल्लतो. अवड्ढिआवहनतो अघवत्थुतो च अघतो. असेरिभावजननतो आबाधप्पतिट्ठानताय च आबाधतो. अवसवत्तनतो अविधेय्यताय च परतो. ब्याधिजरामरणेहि पलुज्जनीयताय पलोकतो. सामिनिवासीकारकवेदकअधिट्ठायकविरहतो सुञ्ञतो. अत्तप्पटिक्खेपट्ठेन अनत्ततो. रूपादिधम्मापि यथा न एत्थ अत्ता अत्थीति अनत्ता, एवं सयम्पि अत्ता न होन्तीति अनत्ता. तेन अब्यापारतो निरीहतो तुच्छतो अनत्ताति दीपितं होति.
लक्खणत्तयमेव सुखावबोधनत्थं एकादसहि पदेहि विभजित्वा गहितन्ति दस्सेतुं ‘‘यस्मा अनिच्चतो’’तिआदि वुत्तं. अन्तोसमापत्तियन्ति समापत्तीनं सहजातताय समापत्तीनं अब्भन्तरे चित्तं पटिसंहरतीति तप्पटिबद्धछन्दरागादिकिलेसविक्खम्भनेन विपस्सनाचित्तं पटिसंहरति. तेनाह ‘‘मोचेति अपनेती’’ति. सवनवसेनाति ‘‘सब्बसङ्खारसमथो’’तिआदिना सवनवसेन. थुतिवसेनाति तथेव थोमनावसेन गुणतो संकित्तनवसेन. परियत्तिवसेनाति तस्स धम्मस्स परियापुणनवसेन. पञ्ञत्तिवसेनाति तदत्थस्स पञ्ञापनवसेन. आरम्मणकरणवसेनेव उपसंहरति मग्गचित्तं, ‘‘एतं सन्त’’न्तिआदि पन अवधारणनिवत्तितत्थदस्सनं. यथा विपस्सना ‘‘एतं सन्तं एतं पणीत’’न्तिआदिना असङ्खताय धातुया चित्तं उपसंहरति, एवं मग्गो निब्बानं सच्छिकिरियाभिसमयवसेन अभिसमेन्तो तत्थ लब्भमाने सब्बेपि विसेसे असम्मोहतो पटिविज्झन्तो तत्थ चित्तं उपसंहरति. तेनाह ‘‘इमिना पन आकारेना’’तिआदि.
सो तत्थ ठितोति सो अदन्धविपस्सको योगी तत्थ ताय अनिच्चादिलक्खणत्तयारम्मणाय विपस्सनाय ठितो. सब्बसोति सब्बत्थ तस्स तस्स मग्गस्स अधिगमाय निब्बत्तितसमथविपस्सनासु. असक्कोन्तो अनागामी होतीति हेट्ठिममग्गावहासु एव समथविपस्सनाय छन्दरागं पहाय अग्गमग्गावहासु निकन्तिं परियादातुं असक्कोन्तो अनागामितायमेव सण्ठाति.
समतिक्कन्तत्ताति समथवसेन विपस्सनावसेन चाति सब्बथापि रूपस्स समतिक्कन्तत्ता. तेनाह ‘‘अयं ही’’तिआदि. अनेनाति योगिना. तं अतिक्कम्माति इदं यो पठमं पञ्चवोकारएकवोकारपरियापन्ने धम्मे सम्मदेव सम्मसित्वा ते विस्सज्जेत्वा ततो अरूपसमापत्तिं समापज्जित्वा अरूपधम्मे सम्मसति, तं सन्धाय वुत्तं. तेनाह ‘‘इदानि अरूपं सम्मसती’’ति.
झानसुत्तवण्णना निट्ठिता.