१०. तपुस्ससुत्तवण्णना

४१. दसमे पक्खन्दतीति पविसति. पसीदतीति पसादं अभिरुचिं आपज्जति, पतिट्ठाति विमुच्चतीति अत्थो. कथापाभतन्ति कथाय मूलं. मूलञ्हि ‘‘पाभत’’न्ति वुच्चति. यथाह –

‘‘अप्पकेनपि मेधावी, पाभतेन विचक्खणो;

समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति. (जा. १.१.४);

तेनेवाह ‘‘कथापाभतन्ति कथामूल’’न्ति. वितक्कग्गहणेनेव तंसहचरितो विचारोपि गहितो. तेनेवेत्थ बहुवचननिद्देसो कतोति आह ‘‘वितक्केसूति वितक्कविचारेसू’’ति.

तपुस्ससुत्तवण्णना निट्ठिता.

महावग्गवण्णना निट्ठिता.