३. तण्हामूलकसुत्तवण्णना

२३. ततिये (दी. नि. टी. २.१०३) एसनतण्हाति भोगानं परियेसनवसेन पवत्ता तण्हा. एसिततण्हाति परियिट्ठेसु भोगेसु उप्पज्जमानतण्हा. परितस्सनवसेन परियेसति एतायाति परियेसना, आसयतो पयोगतो च परियेसना तथापवत्तो चित्तुप्पादो. तेनाह ‘‘तण्हाय सति होती’’ति. रूपादिआरम्मणप्पटिलाभोति सवत्थुकानं रूपादिआरम्मणानं गवेसनवसेन पटिलाभो. यं पन अपरियिट्ठंयेव लब्भति, तम्पि अत्थतो परियेसनाय लद्धमेव नाम तथारूपस्स कम्मस्स पुब्बेकतत्ता एव लब्भनतो. तेनाह ‘‘सो हि परियेसनाय सति होती’’ति.

सुखविनिच्छयन्ति सुखं विसेसतो निच्छिनोतीति सुखविनिच्छयो. सुखं सभावतो समुदयतो अत्थङ्गमतो आदीनवतो निस्सरणतो च याथावतो जानित्वा पवत्तञाणंव सुखविनिच्छयं. जञ्ञाति जानेय्य. ‘‘सुभं सुख’’न्तिआदिकं आरम्मणे अभूताकारं विविधं निन्नभावेन चिनोति आरोपेतीति विनिच्छयो, अस्सादानुपस्सना तण्हा. दिट्ठियापि एवमेव विनिच्छयभावो वेदितब्बो. इमस्मिं पन सुत्ते वितक्कोयेव आगतोति योजना. इमस्मिं पन सुत्तेति सक्कपञ्हसुत्ते (दी. नि. २.३५८). तत्थ हि ‘‘छन्दो खो, देवानमिन्द, वितक्कनिदानो’’ति आगतं. इधाति इमस्मिं सुत्ते. वितक्केनेव विनिच्छिनन्तीति एतेन ‘‘विनिच्छिनति एतेनाति विनिच्छयो’’ति विनिच्छयसद्दस्स करणसाधनमाह. एत्तकन्तिआदि विनिच्छयनाकारदस्सनं.

छन्दनट्ठेन छन्दो, एवं रञ्जनट्ठेन रागोति छन्दरागो. स्वायं अनासेवनताय मन्दो हुत्वा पवत्तो इधाधिप्पेतोति आह ‘‘दुब्बलरागस्साधिवचन’’न्ति. अज्झोसानन्ति तण्हादिट्ठिवसेन अभिनिवेसनं. ‘‘मय्हं इद’’न्ति हि तण्हागाहो येभुय्येन अत्तग्गाहसन्निस्सयोव होति. तेनाह ‘‘अहं ममन्ती’’ति. बलवसन्निट्ठानन्ति च तेसं गाहानं थिरभावप्पत्तिमाह. तण्हादिट्ठिवसेन परिग्गहकरणन्ति अहं ममन्ति बलवसन्निट्ठानवसेन अभिनिविट्ठस्स अत्तत्तनियग्गाहवत्थुनो अञ्ञासाधारणं विय कत्वा परिग्गहेत्वा ठानं, तथापवत्तो लोभसहगतचित्तुप्पादो. अत्तना परिग्गहितस्स वत्थुनो यस्स वसेन परेहि साधारणभावस्स असहमानो होति पुग्गलो, सो धम्मो असहनता. एवं वचनत्थं वदन्ति निरुत्तिनयेन. सद्दलक्खणेन पन यस्स धम्मस्स वसेन मच्छरिययोगतो पुग्गलो मच्छरो, तस्स भावो, कम्मं वा मच्छरियं, मच्छरो धम्मो. मच्छरियस्स बलवभावतो आदरेन रक्खणं आरक्खोति आह ‘‘द्वार…पे… सुट्ठु रक्खण’’न्ति.

अत्तनो फलं करोतीति करणं, यं किञ्चि कारणं. अधिकं करणन्ति अधिकरणं, विसेसकारणं. विसेसकारणञ्च भोगानं आरक्खदण्डादानादिअनत्थसम्भवस्साति वुत्तं ‘‘आरक्खाधिकरण’’न्तिआदि. परनिसेधनत्थन्ति मारणादिना परेसं विबाधनत्थं. आदियन्ति एतेनाति आदानं, दण्डस्स आदानं दण्डादानं, दण्डं आहरित्वा परविहेठनचित्तुप्पादो. सत्थादानेपि एसेव नयो. हत्थपरामासादिवसेन कायेन कातब्बो कलहो कायकलहो. मम्मघट्टनादिवसेन वाचाय कातब्बो कलहो वाचाकलहो. विरुज्झनवसेन विरूपं गण्हाति एतेनाति विग्गहो. विरुद्धं वदति एतेनाति विवादो. ‘‘तुवं तुव’’न्ति अगारववचनसहचरणतो तुवंतुवं. सब्बेपि ते तथापवत्तदोससहगता चित्तुप्पादा वेदितब्बा. तेनाह भगवा ‘‘अनेके पापका अकुसला धम्मा सम्भवन्ती’’ति.

तण्हामूलकसुत्तवण्णना निट्ठिता.