१०. वेलामसुत्तवण्णना
२०. दसमे सकुण्डकभत्तन्ति सकुण्डकं उत्तण्डुलभत्तं. परित्तेहि सकुण्डेहि तण्डुलेहिपि सद्धिं विपक्कभत्तं उत्तण्डुलमेव होति. बिळङ्गं वुच्चति आरनाळं, बिळङ्गतो निब्बत्तनतो तदेव कञ्जियतो जातन्ति कञ्जियं, तं दुतियं एतस्साति बिळङ्गदुतियं, तं कञ्जियदुतियन्ति वुत्तं. असक्करित्वाति देय्यधम्मम्पि पुग्गलम्पि असक्करित्वा. देय्यधम्मस्स असक्करणं असम्पन्नकारो, पुग्गलस्स असक्करणं अगरुकरणं. देय्यधम्मं असक्करोन्तो हि उत्तण्डुलादिदोससमन्नागतं आहारं देति, न सम्पन्नं करोति. पुग्गलं असक्करोन्तो निसीदनट्ठानं असम्मज्जित्वा यत्थ तत्थ वा निसीदापेत्वा यं वा तं वा दारकं पेसेत्वा देति. अचित्तीकत्वाति न चित्तिं कत्वा, न पूजेत्वाति अत्थो. पूजेन्तो हि पूजेतब्बवत्थुं चित्ते ठपेति, न ततो बहि करोति. चित्तं वा अच्छरियं कत्वा पटिपत्ति चित्तीकरणं सम्भावनकिरिया, तप्पटिक्खेपतो अचित्तीकरणं असम्भावनकिरिया. अपविद्धन्ति उच्छिट्ठादिछड्डनीयधम्मं विय अवखित्तकं. यो हि छड्डेतुकामो हुत्वा रोगिनो सरीरे ओदनादीनि मज्जित्वा वम्मिके रोगं पक्खिपन्तो विय देति, अयं अपविद्धं देति नाम. अनागमनदिट्ठिकोति ‘‘अद्धा इमस्स दानस्स फलं मम आगच्छती’’ति एवं यस्स कम्मस्सकतदिट्ठि अत्थि, सो आगमनदिट्ठिको. अयं पन न तादिसोति अनागमनदिट्ठिको, फलं पाटिकङ्खं हुत्वा न देतीति अत्थो. तेनाह ‘‘न कम्मञ्च फलञ्च सद्दहित्वा देती’’ति.
वेलामोति एत्थ मा-सद्दो पटिसेधवचनो. जातिगोत्तरूपभोगादिगुणानं वेला मरियादा नत्थि एतस्मिन्ति वेलामो. अथ वा यथावुत्तगुणानं वेला मरियादा अमति ओसानं गच्छति एतस्मिन्ति वेलामो, वेलं वा मरियादं अमति गच्छति अतिक्कमतीति वेलामो. तेनाह ‘‘जातिगोत्त…पे… एवंलद्धनामो’’ति. दीयतीति दानं, दानवत्थु. तं अग्गीयति निस्सज्जीयति एत्थाति दानग्गं. दानं वा गण्हन्ति एत्थाति दानग्गं, एवं भत्तग्गं, परिवेसनट्ठानं. दुकूलसन्दनानीति रजतभाजनादिनिस्सिते दुकूले खीरस्स सन्दनं एतेसन्ति दुकूलसन्दनानि. कंसूपधारणानीति रजतमयदोहभाजनानि. तेनाह ‘‘रजतमयखीरपटिच्छकानी’’ति. रजतमयानि खीरपटिच्छकानि खीरपटिग्गहभाजनानि एतेसन्ति रजतमयखीरपटिच्छकानि. सोधेय्याति महप्फलभावकरणेन विसोधेय्य. महप्फलभावप्पत्तिया हि दक्खिणा विसुज्झति नाम.
मग्गेनागतं अनिवत्तनसरणन्ति इमिना लोकुत्तरसरणगमनं दीपेति. अपरेतिआदिना लोकियसरणगमनं वुत्तं. सरणं नाम तिण्णं रतनानं जीवितपरिच्चागमयं पुञ्ञं सब्बसम्पत्तिं देति, तस्मा महप्फलतरन्ति अधिप्पायो. इदञ्च – ‘‘सचे त्वं यथा गहितं सरणं न भिन्दिस्ससि, एवाहं तं मारेमी’’ति यदिपि कोचि तिण्हेन सत्थेन जीविता वोरोपेय्य, तथापि ‘‘नेवाहं बुद्धं न बुद्धोति, धम्मं न धम्मोति, सङ्घं न सङ्घोति वदामी’’ति दळ्हतरं कत्वा गहितस्स वसेन वुत्तं. मग्गेनागतन्ति लोकुत्तरसीलं सन्धाय वदति. अपरेतिआदिना पन लोकियसीलं वुत्तं. सब्बेसं सत्तानं जीवितदानादिनिहितदण्डताय सकललोकियलोकुत्तरगुणाधिट्ठानतो चस्स महप्फलमहानिसंसता वेदितब्बा.
उपसिङ्घनमत्तन्ति घायनमत्तं. गद्दोहनमत्तन्ति पाठन्तरे गोदोहनमत्तं कालन्ति अत्थो. सो च न सकलो गोदोहनक्खणो अधिप्पेतोति दस्सेतुं ‘‘गाविया एकवारं थनअञ्छनमत्त’’न्ति अत्थो वुत्तो. अञ्छनमत्तन्ति आकड्ढनमत्तं. गाविया थनं गहेत्वा एकखीरबिन्दुदुहनकालमत्तम्पि गद्दुहनमत्तन्ति वदन्ति. एत्तकम्पि हि कालं यो वसनगब्भपरिवेणविहारूपचारपरिच्छेदेन वा अपरिमाणासु लोकधातूसु सब्बसत्ते हितफरणं मेत्तचित्तं भावेतुं सक्कोति. इदं ततो यथावुत्तदानादितो महप्फलतरं.
वेलामसुत्तवण्णना निट्ठिता.
सीहनादवग्गवण्णना निट्ठिता.