१. सीहनादसुत्तवण्णना
११. दुतियस्स पठमे अवापुरेन्ति विवरन्ति द्वारं एतेनाति अवापुरणं. रजं हरन्ति एतेनाति रजोहरणं. कळोपिहत्थोति विलीवमयभाजनहत्थो, ‘‘चम्ममयभाजनहत्थो’’ति च वदन्ति. छिन्नानि विसाणानि एतस्साति छिन्नविसाणो, उसभो च सो छिन्नविसाणो चाति उसभछिन्नविसाणो. विसेसनपरोयं समासो. अहिकुणपेन वातिआदि अतिजेगुच्छप्पटिकूलकुणपदस्सनत्थं वुत्तं. कण्ठे आसत्तेनाति केनचिदेव पच्चत्थिकेन आनेत्वा कण्ठे बद्धेन, ओमुक्केनाति अत्थो. अट्टो आतुरो दुग्गन्धपीळाय पीळितो. अच्चयस्स पटिग्गण्हनं वा अधिवासनं. एवञ्हि सो कारणे देसियमाने ततो विगतो नाम होति. तेनाह ‘‘पटिग्गण्हतूति खमतू’’ति. सेसमेत्थ सुविञ्ञेय्यमेव.
सीहनादसुत्तवण्णना निट्ठिता.