७-१०. सुतवासुत्तादिवण्णना

७-१०. सत्तमे अभब्बो खीणासवो भिक्खु सञ्चिच्च पाणन्तिआदि देसनासीसमेव, सोतापन्नादयोपि पन अभब्बाव, पुथुज्जनखीणासवानं निन्दापसंसत्थम्पि एवं वुत्तं. पुथुज्जनो नाम गारय्हो मातुघातादीनि करोति, खीणासवो पन पासंसो कुन्थकिपिल्लिकघातादीनिपि न करोतीति. सन्निधिकारकं कामे परिभुञ्जितुन्ति यथा गिहिभूतो सन्निधिं कत्वा वत्थुकामे परिभुञ्जति, एवं तिलतण्डुलसप्पिनवनीतादीनि सन्निधिं कत्वा इदानि परिभुञ्जितुं अभब्बोति अत्थो. वत्थुकामे पन निदहित्वा परिभुञ्जन्ता तन्निस्सितं किलेसकामम्पि निदहित्वा परिभुञ्जन्ति नामाति आह ‘‘वत्थुकामकिलेसकामे’’ति. ननु च खीणासवस्सेव वसनट्ठाने तिलतण्डुलादयो पञ्ञायन्तीति? न पन ते अत्तनो अत्थाय निधेन्ति, अफासुकपब्बजितादीनं अत्थाय निधेन्ति. अनागामिस्स कथन्ति? तस्सपि पञ्च कामगुणा सब्बसोव पहीना, धम्मेन पन लद्धं विचारेत्वा परिभुञ्जति. अकप्पियकामगुणे सन्धायेतं वुत्तं, न मञ्चपीठअत्थरणपावुरणादिसन्निस्सितं. सेय्याथापि पुब्बे अगारियभूतोति यथा पुब्बे गिहिभूतो परिभुञ्जति, एवं परिभुञ्जितुं अभब्बो. अगारमज्झे वसन्ता हि सोतापन्नादयो यावजीवं गिहिब्यञ्जनेन तिट्ठन्ति. खीणासवो पन अरहत्तं पत्वाव मनुस्सभूतो परिनिब्बाति वा पब्बजति वा. चातुमहाराजिकादीसु कामावचरदेवेसु मुहुत्तम्पि न तिट्ठति. कस्मा? विवेकट्ठानस्स अभावा. भुम्मदेवत्तभावे पन ठितो अरहत्तं पत्वापि तिट्ठति विवेकट्ठानसम्भवा. अट्ठमादीनि उत्तानत्थानेव.

सुतवासुत्तादिवण्णना निट्ठिता.

सम्बोधिवग्गवण्णना निट्ठिता.