१-५. इच्छासुत्तादिवण्णना
६१-६५. सत्तमस्स पठमादीनि सुविञ्ञेय्यानि. पञ्चमे (दी.नि.टी. २.१७३) अभिभवतीति अभिभु, परिकम्मं, ञाणं वा. अभिभु आयतनं एतस्साति अभिभायतनं, झानं. अभिभवितब्बं वा आरम्मणसङ्खातं आयतनं एतस्साति अभिभायतनं. अथ वा आरम्मणाभिभवनतो अभितु च तं आयतनञ्च योगिनो सुखविसेसानं अधिट्ठानभावतो मनायतनधम्मायतनभावतो चातिपि ससम्पयुत्तज्झानं अभिभायतनं. तेनाह ‘‘अभिभवनकारणानी’’तिआदि. तानि हीति अभिभायतनसञ्ञितानि झानानि. ‘‘पुग्गलस्स ञाणुत्तरियताया’’ति इदं उभयत्थापि योजेतब्बं. कथं? पटिपक्खभावेन पच्चनीकधम्मे अभिभवन्ति पुग्गलस्स ञाणुत्तरियताय आरम्मणानि अभिभवन्ति. ञाणबलेनेव हि आरम्मणाभिभवनं विय पटिपक्खाभिभवोपीति.
परिकम्मवसेन अज्झत्तं रूपसञ्ञी, न अप्पनावसेन. न हि पटिभागनिमित्तारम्मणा अप्पना अज्झत्तविसया सम्भवति. तं पन अज्झत्तपरिकम्मवसेन लद्धं कसिणनिमित्तं अविसुद्धमेव होति, न बहिद्धापरिकम्मवसेन लद्धं विय विसुद्धं.
परित्तानीति यथालद्धानि सुप्पसरावमत्तानि. तेनाह ‘‘अवड्ढितानी’’ति. परित्तवसेनेवाति वण्णवसेन आभोगे विज्जमानेपि परित्तवसेनेव इदं अभिभायतनं वुत्तं. परित्तता हेत्थ अभिभवनस्स कारणं. वण्णाभोगे सतिपि असतिपि अभिभायतनभावना नाम तिक्खपञ्ञस्सेव सम्भवति, न इतरस्साति आह ‘‘ञाणुत्तरिको पुग्गलो’’ति. अभिभवित्वा समापज्जतीति एत्थ अभिभवनं समापज्जनञ्च उपचारज्झानाधिगमसमनन्तरमेव अप्पनाझानुप्पादनन्ति आह ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेती’’ति. सह निमित्तुप्पादेनाति च अप्पनापरिवासाभावस्स लक्खणवचनमेतं. यो ‘‘खिप्पाभिञ्ञो’’ति वुच्चति, ततोपि ञाणुत्तरस्सेव अभिभायतनभावना. एत्थाति एतस्मिं निमित्ते. अप्पनं पापेतीति भावनं अप्पनं नेति.
एत्थ च केचि ‘‘उप्पन्ने उपचारज्झाने तं आरब्भ ये हेट्ठिमन्तेन द्वे तयो जवनवारा पवत्तन्ति, ते उपचारज्झानपक्खिका एव, तदनन्तरञ्च भवङ्गपरिवासेन उपचारासेवनाय च विना अप्पना होति, सह निमित्तुप्पादेनेव अप्पनं पापेती’’ति वदन्ति, तं तेसं मतिमत्तं. न हि पारिवासिककम्मेन अप्पनावारो इच्छितो, नापि महग्गतप्पमाणज्झानेसु विय उपचारज्झाने एकन्ततो पच्चवेक्खणा इच्छितब्बा, तस्मा उपचारज्झानाधिगमतो परं कतिपयभवङ्गचित्तावसाने अप्पनं पापुणन्तो ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेती’’ति वुत्तो. ‘‘सह निमित्तुप्पादेना’’ति च अधिप्पायिकमिदं वचनं, न नीतत्थं. अधिप्पायो वुत्तनयेनेव वेदितब्बो.
न अन्तोसमापत्तियं तदा तथारूपस्स आभोगस्स असम्भवतो, समापत्तितो वुट्ठितस्स आभोगो पुब्बभागभावनाय वसेन झानक्खणे पवत्तं अभिभवनाकारं गहेत्वा पवत्तोति दट्ठब्बं. अभिधम्मट्ठकथायं (ध. स. अट्ठ. २०४) पन ‘‘इमिना पनस्स पुब्बभोगो कथितो’’ति वुत्तं. अन्तोसमापत्तियं तथा आभोगाभावे कस्मा ‘‘झानसञ्ञायपी’’ति वुत्तन्ति आह ‘‘अभिभवन…पे… अत्थी’’ति.
वड्ढितप्पमाणानीति विपुलप्पमाणानीति अत्थो, न एकङ्गुलद्वङ्गुलादिवसेन वड्ढिं पापितानीति तथावड्ढनस्सेवेत्थ असम्भवतो. तेनाह ‘‘महन्तानी’’ति. भत्तवड्ढितकन्ति भुञ्जनभाजने वड्ढित्वा दिन्नं भत्तं, एकासने पुरिसेन भुञ्जितब्बभत्ततो उपड्ढभत्तन्ति अत्थो.
रूपे सञ्ञा रूपसञ्ञा, सा अस्स अत्थीति रूपसञ्ञी, न रूपसञ्ञी अरूपसञ्ञी. सञ्ञासीसेन झानं वदति. रूपसञ्ञाय अनुप्पादनमेवेत्थ अलाभिता. बहिद्धाव उप्पन्नन्ति बहिद्धावत्थुस्मिंयेव उप्पन्नं. अभिधम्मे (ध. स. २०४-२०९) पन ‘‘अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, अप्पमाणानि सुवण्णदुब्बण्णानी’’ति एवं चतुन्नं अभिभायतनानं आगतत्ता अभिधम्मट्ठकथायं ‘‘कस्मा पन यथा सुत्तन्ते अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानीतिआदि वुत्तं, एवं अवत्वा इध चतूसुपि अभिभायतनेसु अज्झत्तं अरूपसञ्ञिताव वुत्ता’’ति चोदनं कत्वा ‘‘अज्झत्तरूपानं अनभिभवनीयतो’’ति कारणं वत्वा ‘‘तत्थ वा इध वा बहिद्धा रूपानेव अभिभवितब्बानि, तस्मा तानि नियमतोव वत्तब्बानीति तत्रापि इधापि वुत्तानि, ‘अज्झत्तं रूपसञ्ञी’ति इदं पन सत्थु देसनाविलासमत्तमेवा’’ति वुत्तं.
एत्थ च वण्णाभोगरहितानि सहितानि च सब्बानि ‘‘परित्तानि सुवण्णदुब्बण्णानी’’ति वुत्तानि, तथा ‘‘अप्पमाणानि सुवण्णदुब्बण्णानी’’ति. अत्थि हि सो परियायो ‘‘परित्तानि अभिभुय्य, तानि चे कदाचि वण्णवसेन आभुजितानि होन्ति सुवण्णदुब्बण्णानि अभिभुय्या’’ति. परियायकथा हि सुत्तन्तदेसनाति. अभिधम्मे पन निप्परियायदेसनत्ता वण्णाभोगरहितानि विसुं वुत्तानि, तथा सहितानि. अत्थि हि उभयत्थ अभिभवनविसेसोति, तथा इध परियायदेसनत्ता विमोक्खानम्पि अभिभवनपरियायो अत्थीति ‘‘अज्झत्तं रूपसञ्ञी’’तिआदिना पठमदुतियअभिभायतनेसु पठमविमोक्खो, ततियचतुत्थअभिभायतनेसु दुतियविमोक्खो, वण्णाभिभायतनेसु ततियविमोक्खो च अभिभवनप्पवत्तितो सङ्गहितो. अभिधम्मे (ध. स. २०४-२०९, २४७-२४९) पन निप्परियायदेसनत्ता विमोक्खाभिभायतनानि असङ्करतो दस्सेतुं विमोक्खे वज्जेत्वा अभिभायतनानि कथितानि. सब्बानि च विमोक्खकिच्चानि झानानि विमोक्खदेसनायं वुत्तानि. तदेतं ‘‘अज्झत्तं रूपसञ्ञी’’ति आगतस्स अभिभायतनद्वयस्स अभिधम्मे अभिभायतनेसु अवचनतो ‘‘रूपी रूपानि पस्सती’’तिआदीनञ्च सब्बविमोक्खकिच्चसाधारणवचनभावतो ववत्थानं कतन्ति विञ्ञायति. ‘‘अज्झत्तरूपानं अनभिभवनीयतो’’ति इदं अभिधम्मे कत्थचिपि ‘‘अज्झत्तं रूपानि पस्सती’’ति अवत्वा सब्बत्थ यं वुत्तं ‘‘बहिद्धा रूपानि पस्सती’’ति, तस्स कारणवचनं. तेन यं अञ्ञहेतुकं, तं तेन हेतुना वुत्तं. यं पन देसनाविलासहेतुकं अज्झत्तं अरूपसञ्ञिताय एव अभिधम्मे वचनं, न तस्स अञ्ञं कारणं मग्गितब्बन्ति दस्सेति.
अज्झत्तरूपानं अनभिभवनीयता च तेसं बहिद्धारूपानं विय अविभूतत्ता देसनाविलासो च यथावुत्तववत्थानवसेन वेदितब्बो वेनेय्यज्झासयवसेन विज्जमानपरियायकथाभावतो. ‘‘सुवण्णदुब्बण्णानी’’ति एतेनेव सिद्धत्ता न नीलादिअभिभायतनानि वत्तब्बानीति चे? तं न. नीलादीसु कताधिकारानं नीलादिभावस्सेव अभिभवनकारणत्ता. न हि तेसं परिसुद्धापरिसुद्धवण्णानं परित्तता वा अप्पमाणता वा अभिभवनकारणं, अथ खो नीलादिभावो एवाति. एतेसु च परित्तादिकसिणरूपेसु यं यं चरितस्स इमानि अभिभायतनानि इज्झन्ति, तं दस्सेतुं ‘‘इमेसु पना’’तिआदि वुत्तं. सब्बसङ्गाहिकवसेनाति नीलवण्णनीलनिदस्सननीलनिभासानं साधारणवसेन. वण्णवसेनाति सभाववण्णवसेन. निदस्सनवसेनाति पस्सितब्बतावसेन चक्खुविञ्ञाणादिविञ्ञाणवीथिया गहेतब्बतावसेन. ओभासवसेनाति सप्पभासताय अवभासनवसेन.
इच्छासुत्तादिवण्णना निट्ठिता.