७. भावनासुत्तवण्णना

७१. सत्तमे अत्थस्स असाधिका ‘‘भावनं अननुयुत्तस्सा’’ति वुत्तत्ता. सम्भावनत्थेति ‘‘अपि नाम एवं सिया’’ति विकप्पनत्थो सम्भावनत्थो. एवञ्हि लोके सिलिट्ठवचनं होतीति एकमेव सङ्खं अवत्वा अपराय सङ्खाय सद्धिं वचनं लोके सिलिट्ठवचनं होति यथा ‘‘द्वे वा तीणि वा उदकफुसितानी’’ति. सम्मा अधिसयितानीति पादादीहि अत्तना नेसं किञ्चि उपघातं अकरोन्तिया बहिवातादिपरिस्सयपरिहरणत्थं सम्मदेव उपरि सयितानि. उपरिअत्थो हेत्थ अधि-सद्दो. उतुं गण्हापेन्तियाति तेसं अल्लसिनेहपरियादानत्थं अत्तनो कायुस्मावसेन उतुं गण्हापेन्तिया. तेनाह ‘‘उस्मीकतानी’’ति. सम्मा परिभावितानीति सम्मदेव सब्बसो कुक्कुटवासनाय वासितानि. तेनाह ‘‘कुक्कुटगन्धं गाहापितानी’’ति. एत्थ च सम्मापरिसेदनं कुक्कुटगन्धपरिभावनञ्च सम्माअधिसयनसम्मापरिसेदननिप्फत्तिया आनुभावनिप्फादितन्ति दट्ठब्बं. सम्माअधिसयनेनेव हि इतरद्वयं इज्झति. न हि सम्माअधिसयनतो विसुं सम्मापरिसेदनस्स सम्मापरिभावनस्स च कारणं अत्थि. तेन पन सद्धिंयेव इतरेसं द्विन्नम्पि इज्झनतो वुत्तं.

तिविधकिरियाकरणेनाति सम्माअधिसयनादितिविधकिरियाकरणेनाति अत्थो. किञ्चापि ‘‘एवं अहो वत मे’’तिआदिना न इच्छा उप्पज्जेय्य कारणस्स पन सम्पादितत्ता, अथ खो भब्बाव ते अभिनिब्भिज्जितुन्ति योजना. कस्मा भब्बाति आह ‘‘ते हि यस्मा ताया’’तिआदि. सयम्पीति अण्डानि. परिणामन्ति परिपाकं बहिनिक्खमनयोग्यतं. यथा कपालस्स तनुता आलोकस्स अन्तो पञ्ञायमानस्स कारणं, तथा कपालस्स तनुताय नखसिखामुखतुण्डकानं खरताय च अल्लसिनेहपरियादानं कारणवचनन्ति दट्ठब्बं. तस्माति आलोकस्स अन्तो पञ्ञायमानतो सयञ्च परिपाकगतत्ता.

ओपम्मसम्पटिपादनन्ति ओपम्मत्थस्स उपमेय्येन सम्मदेव पटिपादनं. तन्ति ओपम्मसम्पटिपादनं. एवन्ति इदानि वुच्चमानाकारेन. अत्थेनाति उपमेय्यत्थेन संसन्देत्वा सह योजेत्वा. सम्पादनेन सम्पयुत्तधम्मवसेन ञाणस्स तिक्खभावो वेदितब्बो. ञाणस्स हि सभावतो सतिनेपक्कतो च तिक्खभावो, समाधिवसेन खरभावो, सद्धावसेन विप्पसन्नभावो. परिणामकालोति बलवविपस्सनाकालो. वड्ढिकालोति वुट्ठानगामिनिविपस्सनाकालो. अनुलोमट्ठानिया हि विपस्सना गहितगब्भा नाम तदा मग्गगब्भस्स गहितत्ता. तज्जातिकन्ति तस्स विपस्सनानुयोगस्स अनुरूपं. सत्थापि अविज्जण्डकोसं पहरति, देसनापि विनेय्यसन्तानगतं अविज्जण्डकोसं पहरति, यथाठाने ठातुं न देति.

ओलम्बकसङ्खातन्ति ओलम्बकसुत्तसङ्खातं. ‘‘पल’’न्ति हि तस्स सुत्तस्स नामं. चारेत्वा दारुनो हेट्ठा दोसजाननत्थं उस्सापेत्वा. गण्डं हरतीति पलगण्डोति एतेन ‘‘पलेन गण्डहारो पलगण्डोति पच्छिमपदे उत्तरपदलोपेन निद्देसो’’ति दस्सेति. गहणट्ठानेति हत्थेन गहेतब्बट्ठाने. सम्मदेव खिपीयन्ति एतेन कायदुच्चरितादीनीति सङ्खेपो, पब्बज्जाव सङ्खेपो पब्बज्जासङ्खेपो. तेन विपस्सनं अनुयुञ्जन्तस्स पुग्गलस्स अजानन्तस्सेव आसवानं परिक्खयो इध विपस्सनानिसंसोति अधिप्पेतो.

हेमन्तिकेन कारणभूतेन, भुम्मत्थे वा एतं करणवचनं, हेमन्तिकेति अत्थो. पटिप्पस्सम्भन्तीति पटिप्पस्सद्धफलानि होन्ति. तेनाह ‘‘पूतिकानि भवन्ती’’ति. महासमुद्दो विय सासनं अगाधगम्भीरभावतो. नावा विय योगावचरो महोघुत्तरतो. परियायनं वियाति परितो अपरापरं यायनं विय. खज्जमानानन्ति खादन्तेन विय उदकेन खेपियमानबन्धनानं. तनुभावोति परियुट्ठानपवत्तिया असमत्थताय दुब्बलभावो. विपस्सनाञाणपीतिपामोज्जेहीति विपस्सनाञाणसमुट्ठितेहि पीतिपामोज्जेहि. ओक्खायमानेति विपस्सनाकम्मट्ठाने वीथिप्पटिपाटिया ओक्खायमाने, पटिसङ्खानुपस्सनाय वा ओक्खायमाने. सङ्खारुपेक्खाय पक्खायमाने. दुब्बलता दीपिता ‘‘अप्पकसिरेनेव संयोजनानि पटिप्पस्सम्भन्ति, पूतिकानि भवन्ती’’ति वुत्तत्ता.

भावनासुत्तवण्णना निट्ठिता.