३. नगरोपमसुत्तवण्णना
६७. ततिये पच्चन्ते भवं पच्चन्तिमं. ‘‘रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो’’तिआदीसु (सं. नि. ५.४) विय अलङ्कारवचनो परिक्खारसद्दोति आह ‘‘नगरालङ्कारेहि अलङ्कत’’न्ति. परिवारवचनोपि वट्टतियेव ‘‘सत्त समाधिपरिक्खारा’’तिआदीसु (दी. नि. ३.३३०) विय. नेमं वुच्चति थम्भादीहि अनुपतभूमिप्पदेसोति आह ‘‘गम्भीरआवाटा’’ति, गम्भीरं भूमिं अनुप्पविट्ठाति अत्थो. सुट्ठु सन्निसीदापिताति भूमिं निखनित्वा सम्मदेव ठपिता.
अनुपरियायेति एतेनाति अनुपरियायो, सोयेव पथोति अनुपरियायपथो, परितो पाकारस्स अनुयायमग्गो.
हत्थिं आरोहन्ति आरोहापयन्ति चाति हत्थारोहा (दी. नि. टी. १.१६३). येन हि पयोगेन पुरिसो हत्थिनो आरोहनयोग्गो होति, हत्थिस्स तं पयोगं विधायन्तानं सब्बेसम्पेतेसं गहणं. तेनाह ‘‘सब्बेपी’’तिआदि. तत्थ हत्थाचरिया नाम ये हत्थिनो हत्थारोहकानञ्च सिक्खापका. हत्थिवेज्जा नाम हत्थिभिसक्का. हत्थिबन्धा नाम हत्थीनं पादरक्खका. आदि-सद्देन हत्थीनं यवपदायकादिके सङ्गण्हाति. अस्सारोहा रथिकाति एत्थापि एसेव नयो. रथे नियुत्ता रथिका. रथरक्खा नाम रथस्स आणिरक्खका. धनुं गण्हन्ति गण्हापेन्ति चाति धनुग्गहा, इस्सासा धनुसिप्पस्स सिक्खापका च. तेनाह ‘‘धनुआचरिया इस्सासा’’ति. चेलेन चेलपटाकाय युद्धे अकन्ति गच्छन्तीति चेलकाति आह – ‘‘ये युद्धे जयद्धजं गहेत्वा पुरतो गच्छन्ती’’ति. यथा तथा ठिते सेनिके ब्रूहकरणवसेन ततो ततो चलयन्ति उच्चालेन्तीति चलका. सकुणग्घिआदयो विय मंसपिण्डं परसेनासमूहं साहसिकमहायोधताय छेत्वा छेत्वा दयन्ति उप्पतित्वा गच्छन्तीति पिण्डदायका. दुतियविकप्पे पिण्डे दयन्ति जनसम्मद्दे उप्पतन्ता विय गच्छन्तीति पिण्डदायकाति अत्थो वेदितब्बो. उग्गतुग्गताति थामजवपरक्कमादिवसेन अतिविय उग्गता, उदग्गाति अत्थो. पक्खन्दन्तीति अत्तनो वीरसूरभावेन असज्जमाना परसेनं अनुपविसन्तीति अत्थो. थामजवबलपरक्कमादिसम्पत्तिया महानागा विय महानागा. एकसूराति एकाकिसूरा अत्तनो सूरभावेनेव एकाकिनो हुत्वा युज्झनका. सजालिकाति सवम्मिका. सरपरित्ताणन्ति चम्मपरिसिब्बितं खेटकं, चम्ममयं वा फलकं. घरदासयोधाति अत्तनो दासयोधा.
सम्पक्खन्दनलक्खणाति सद्धेय्यवत्थुनो एवमेतन्ति सम्पक्खन्दनलक्खणा. सम्पसादनलक्खणाति पसीदितब्बे वत्थुस्मिं पसीदनलक्खणा. ओकप्पनसद्धाति ओक्कन्तित्वा पक्खन्दित्वा अधिमुच्चनं. पसादनीये वत्थुस्मिं पसीदनं पसादसद्धा. अयं अनुधम्मोति अयं नवन्नं लोकुत्तरधम्मानं अनुलोमधम्मो. निब्बिदाबहुलोति उक्कण्ठनाबहुलो. सद्धा बन्धति पाथेय्यन्ति सद्धा नामायं सत्तस्स मरणवसेन महापथं संवजतो महाकन्तारं पटिपज्जतो महाविदुग्गं पक्खन्दतो पाथेय्यपुटं बन्धति, सम्बलं विस्सज्जेतीति अत्थो. सद्धञ्हि उप्पादेत्वा दानं देति, सीलं रक्खति, उपोसथकम्मं करोति. तेनेतं वुत्तं ‘‘सद्धा बन्धति पाथेय्य’’न्ति. सिरीति इस्सरियं. इस्सरिये हि अभिमुखीभूते थलतोपि जलतोपि भोगा आगच्छन्तियेव. तेनेतं वुत्तं ‘‘सिरी भोगानमासयो’’ति. सद्धा दुतिया पुरिसस्स होतीति पुरिसस्स देवलोके, मनुस्सलोके चेव निब्बानञ्च गच्छन्तस्स सद्धा दुतिया होति, सहायकिच्चं साधेति. भत्तपुटादीति आदि-सद्देन दुतियिकादीनं सङ्गहो दट्ठब्बो. अनेकसरसताति अनेकसभावता, अनेककिच्चता वा. सेसं सुविञ्ञेय्यमेव.
नगरोपमसुत्तवण्णना निट्ठिता.