१०. नन्दमातासुत्तवण्णना

५३. दसमे ‘‘वुत्थवस्सो पवारेत्वा…पे… निक्खमी’’ति अङ्गुत्तरभाणकानं मतेनेतं वुत्तं. मज्झिमभाणका पन वदन्ति ‘‘भगवा उपकट्ठाय वस्सूपनायिकाय जेतवनतो भिक्खुसङ्घपरिवुतो चारिकं निक्खमि. तेनेव च अकाले निक्खन्तत्ता कोसलराजादयो वारेतुं आरभिंसु. पवारेत्वा हि चरणं बुद्धाचिण्ण’’न्ति. पुण्णाय सम्मापटिपत्तिं पच्चासीसन्तो भगवा ‘‘मम निवत्तनपच्चया त्वं किं करिस्ससी’’ति आह. पुण्णापि…पे… पब्बजीति एत्थ सेट्ठि ‘‘पुण्णाय भगवा निवत्तितो’’ति सुत्वा तं भुजिस्सं कत्वा धीतुट्ठाने ठपेसि. सा पब्बज्जं याचित्वा पब्बजि, पब्बजित्वा विपस्सनं आरभि. अथस्सा सत्था आरद्धविपस्सकभावं ञत्वा इमं ओभासगाथं विस्सज्जेसि –

‘‘पुण्णे पूरस्सु सद्धम्मं, चन्दो पन्नरसो यथा;

परिपुण्णाय पञ्ञाय, दुक्खस्सन्तं करिस्ससी’’ति. (थेरीगा. ३);

सा गाथापरियोसाने अरहत्तं पत्वा अभिञ्ञाता साविका अहोसि. सेसमेत्थ सुविञ्ञेय्यमेव.

नन्दमातासुत्तवण्णना निट्ठिता.

महायञ्ञवग्गवण्णना निट्ठिता.

पठमपण्णासकं निट्ठितं.