१. सत्तविञ्ञाणट्ठितिसुत्तवण्णना
४४. पञ्चमस्स पठमे यस्मा निदस्सनत्थे निपातो (दी. नि. टी. २.१२७) तस्मा सेय्यथापि मनुस्साति यथा मनुस्साति वुत्तं होति. विसेसो होतियेव सतिपि बाहिरस्स कारणस्स अभेदे अज्झत्तिकस्स भिन्नत्ता. नानत्तं काये एतेसं, नानत्तो वा कायो एतेसन्ति नानत्तकाया. इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो. नेसन्ति मनुस्सानं. नानत्ता सञ्ञा एतेसं अत्थीति नानत्तसञ्ञिनो. सुखसमुस्सयतो विनिपातो एतेसं अत्थीति विनिपातिका सतिपि देवभावे दिब्बसम्पत्तिया अभावतो. अपायेसु वा गतो नत्थि निपातो एतेसन्ति विनिपातिका. तेनाह ‘‘चतुअपायविनिमुत्ता’’ति. पियङ्करमातादीनं वियाति पियङ्करमाता किर यक्खिनी पच्चूससमये अनुरुद्धत्थेरस्स धम्मं सज्झायतो सुत्वा –
‘‘मा सद्दमकरी पियङ्कर, भिक्खु धम्मपदानि भासति;
अपि धम्मपदं विजानिय, पटिपज्जेम हिताय नो सिया.
‘‘पाणेसु च संयमामसे, सम्पजानमुसा न भणामसे;
सिक्खेम सुसील्यमत्तनो, अपि मुच्चेम पिसाचयोनिया’’ति. (सं. नि. १.२४०) –
एवं पुत्तकं सञ्ञापेत्वा तं दिवसं सोतापत्तिफलं पत्ता. उत्तरमाता पन भगवतो धम्मं सुत्वाव सोतापन्ना जाता.
ब्रह्मकाये पठमज्झाननिब्बत्ते ब्रह्मसमूहे, ब्रह्मनिकाये वा भवाति ब्रह्मकायिका. महाब्रह्मुनो परिसाय भवाति ब्रह्मपारिसज्जा तस्स परिचारकट्ठाने ठितत्ता. महाब्रह्मुनो पुरोहितट्ठाने ठिताति ब्रह्मपुरोहिता. आयुवण्णादीहि महन्ता ब्रह्मानोति महाब्रह्मानो. सतिपि तेसं तिविधानम्पि पठमेन झानेन गन्त्वा निब्बत्तभावे झानस्स पन पवत्तिभेदेन अयं विसेसोति दस्सेतुं ‘‘ब्रह्मपारिसज्जा पना’’तिआदि वुत्तं. परित्तेनाति हीनेन. सा चस्स हीनता छन्दादीनं हीनताय वेदितब्बा. पटिलद्धमत्तं वा हीनं. कप्पस्साति असङ्ख्येय्यकप्पस्स. हीनपणीतानं मज्झे भवत्ता मज्झिमं. सा चस्स मज्झिमता छन्दादीनं मज्झिमताय वेदितब्बा. पटिलभित्वा नातिसुभावितं वा मज्झिमं. उपड्ढकप्पोति असङ्ख्येय्यकप्पस्स उपड्ढकप्पो. विप्फारिकतरोति ब्रह्मपारिसज्जेहि पमाणतो विपुलतरो सभावतो उळारतरो च होति. सभावेनपि हि उळारतमोव. तं पनेत्थ अप्पमाणं. तस्स हि परित्ताभादीनं परित्तसुभादीनञ्च काये सतिपि सभाववेमत्ते एकत्तवसेनेव ववत्थपीयतीति ‘‘एकत्तकाया’’त्वेव ते वुच्चन्ति. पणीतेनाति उक्कट्ठेन. सा चस्स उक्कट्ठता छन्दादीनं उक्कट्ठताय वेदितब्बा. सुभावितं वा, सम्मदेव, वसिभावं पापितं पणीतं ‘‘पधानभावं नीत’’न्ति कत्वा. इधापि कप्पो असङ्ख्येय्यकप्पवसेनेव वेदितब्बो परिपुण्णमहाकप्पस्स असम्भवतो. इतीति एवं वुत्तप्पकारेन. तेति ‘‘ब्रह्मकायिका’’ति वुत्ता तिविधापि ब्रह्मानो. सञ्ञाय एकत्ताति तिहेतुकभावेन एकसभावत्ता. न हि तस्सा सम्पयुत्तधम्मवसेन अञ्ञोपि कोचि भेदो अत्थि. एवन्ति इमिना नानत्तकाया एकत्तसञ्ञिनो गहिताति दस्सेति.
दण्डउक्कायाति दण्डदीपिकाय. सरति धावति, विस्सरति विप्पकिण्णा विय धावति. द्वे कप्पाति द्वे महाकप्पा. इतो परेसुपि एसेव नयो. इधाति इमस्मिं सुत्ते. उक्कट्ठपरिच्छेदवसेन आभस्सरग्गहणेनेव सब्बेपि ते परित्ताभाअप्पमाणाभापि गहिता.
सुन्दरा पभा सुभा, ताय किण्णा सुभाकिण्णाति वत्तब्बे. भा-सद्दस्स रस्सत्तं अन्तिम-ण-कारस्स ह-कारञ्च कत्वा ‘‘सुभकिण्हा’’ति वुत्ता. अट्ठकथायं पन निच्चलाय एकग्घनाय पभाय सुभोति परियायवचनन्ति ‘‘सुभेन ओकिण्णा विकिण्णा’’ति अत्थो वुत्तो. एत्थापि अन्तिम-ण-कारस्स ह-कारकरणं इच्छितब्बमेव. न छिज्जित्वा पभा गच्छति एकग्घनत्ता. चतुत्थविञ्ञाणट्ठितिमेव भजन्ति कायस्स सञ्ञाय च एकरूपत्ता. विपुलसन्तसुखायुवण्णादिफलत्ता वेहप्फला. एत्थाति विञ्ञाणट्ठितियं.
विवट्टपक्खे ठिता अपुनरावत्तनतो. ‘‘न सब्बकालिका’’ति वत्वा तमेव असब्बकालिकत्तं विभावेतुं ‘‘कप्पसतसहस्सम्पी’’तिआदि वुत्तं. सोळसकप्पसहस्सच्चयेन उप्पन्नानं सुद्धावासब्रह्मानं परिनिब्बायनतो अञ्ञेसञ्च तत्थ अनुप्पज्जनतो बुद्धसुञ्ञे लोके सुञ्ञं तं ठानं होति, तस्मा सुद्धावासा न सब्बकालिका. खन्धावारट्ठानसदिसा होन्ति सुद्धावासभूमियो. इमिना सुत्तेन सुद्धावासानं सत्तावासभावदीपनेनेव विञ्ञाणट्ठितिभावोपि दीपितो होति, तस्मा सुद्धावासापि सत्तसु विञ्ञाणट्ठितीसु चतुत्थविञ्ञाणट्ठितिं, नवसु सत्तावासेसु चतुत्थसत्तावासञ्च भजन्ति.
सुखुमत्ताति सङ्खारावसेससुखुमभावप्पत्तत्ता. परिब्यत्तविञ्ञाणकिच्चाभावतो नेव विञ्ञाणं, न सब्बसो अविञ्ञाणं होतीति नाविञ्ञाणं, तस्मा परिप्फुतविञ्ञाणकिच्चवन्तीसु विञ्ञाणट्ठितीसु न वुत्तं.
सत्तविञ्ञाणट्ठितिसुत्तवण्णना निट्ठिता.