७-१०. सक्खिभब्बसुत्तादिवण्णना

७१-७४. सत्तमे तस्मिं तस्मिं विसेसेति तस्मिं तस्मिं सच्छिकातब्बे विसेसे. सक्खिभावाय पच्चक्खकारिताय भब्बो सक्खिभब्बो, तस्स भावो सक्खिभब्बता. तं सक्खिभब्बतं. सति सतिआयतनेति सति सतिकारणे. किञ्चेत्थ कारणं? अभिञ्ञा वा अभिञ्ञापादकज्झानं वा, अवसाने पन छट्ठाभिञ्ञाय अरहत्तं वा कारणं, अरहत्तस्स विपस्सना वाति वेदितब्बं. यञ्हि तं तत्र तत्र सक्खिभब्बतासङ्खातं इद्धिविधपच्चनुभवनादि, तस्स अभिञ्ञा कारणं. अथ इद्धिविधपच्चनुभवनादि अभिञ्ञा, एवं सति अभिञ्ञापादकज्झानं कारणं. अरहत्तम्पि ‘‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरिस्सामी’’ति अनुत्तरेसु विमोक्खेसु पिहं उपट्ठपेत्वा छट्ठाभिञ्ञं निब्बत्तेन्तस्स कारणं. इदञ्च सब्बसाधारणं न होति, साधारणवसेन पन अरहत्तस्स विपस्सना कारणं. अथ वा सति आयतनेति तस्स तस्स विसेसाधिगमस्स उपनिस्सयसङ्खाते कारणे सतीति एवमेत्थ अत्थो दट्ठब्बो.

हानभागियादीसु ‘‘पठमज्झानस्स लाभिं कामसहगता सञ्ञामनसिकारा समुदाचरन्ति, हानभागियो समाधि. तदनुधम्मता सति सन्तिट्ठति, ठितिभागियो समाधि. अवितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति, विसेसभागियो समाधि. निब्बिदासहगता सञ्ञामनसिकारा समुदाचरन्ति विरागूपसंहिता, निब्बेधभागियो समाधी’’ति (विभ. ७९९) इमिना नयेन सब्बसमापत्तियो वित्थारेत्वा हानभागियादिअत्थो वेदितब्बो. तत्थ पठमज्झानस्स लाभिन्ति य्वायं अप्पगुणस्स पठमस्स झानस्स लाभी, तं. कामसहगता सञ्ञामनसिकारा समुदाचरन्तीति ततो वुट्ठितं आरम्मणवसेन कामसहगता हुत्वा सञ्ञामनसिकारा समुदाचरन्ति तुदन्ति, तस्स कामानतीतस्स कामानुपक्खन्दानं सञ्ञामनसिकारानं वसेन सो पठमज्झानसमाधि हायति परिहायति, तस्मा हानभागियो वुत्तो. तदनुधम्मताति तदनुरूपसभावो. सति सन्तिट्ठतीति इदं मिच्छासतिं सन्धाय वुत्तं. यस्स हि पठमज्झानानुरूपसभावा पठमज्झानं सन्ततो पणीततो दिस्वा अस्सादयमाना अभिनन्दमाना निकन्ति होति, तस्स निकन्तिवसेन सो पठमज्झानसमाधि नेव हायति न वड्ढति, ठितिकोट्ठासिको होति. तेन वुत्तं ‘‘ठितिभागियो समाधी’’ति. अवितक्कसहगताति अवितक्कं दुतियज्झानं सन्ततो पणीततो मनसिकरोतो आरम्मणवसेन अवितक्कसहगता. सञ्ञामनसिकारा समुदाचरन्तीति पगुणपठमज्झानतो वुट्ठितं दुतियज्झानाधिगमत्थाय चोदेन्ति तुदन्ति. तस्स उपरि दुतियज्झानानुपक्खन्दानं सञ्ञामनसिकारानं वसेन सो पठमज्झानसमाधि विसेसभूतस्स दुतियज्झानस्स उप्पत्तिपदट्ठानताय ‘‘विसेसभागियो’’ति वुत्तो.

निब्बिदासहगताति तमेव पठमज्झानलाभिं झानतो वुट्ठितं निब्बिदासङ्खातेन विपस्सनाञाणेन सहगता. विपस्सनाञाणञ्हि झानङ्गेसु पभेदेन उपट्ठहन्तेसु निब्बिन्दति उक्कण्ठति, तस्मा ‘‘निब्बिदा’’ति वुच्चति. समुदाचरन्तीति निब्बानसच्छिकिरियत्थाय चोदेन्ति तुदन्ति. विरागूपसंहिताति विरागसङ्खातेन निब्बानेन उपसंहिता. विपस्सनाञाणञ्हि सक्का इमिना मग्गेन विरागं निब्बानं सच्छिकातुन्ति पवत्तितो ‘‘विरागूपसंहित’’न्ति वुच्चति. तंसम्पयुत्ता सञ्ञामनसिकारा विरागूपसंहिता एव नाम. तस्स तेसं सञ्ञामनसिकारानं वसेन पठमज्झानसमाधि अरियमग्गप्पटिवेधस्स पदट्ठानताय ‘‘निब्बेधभागियो’’ति वुत्तो. हानं भजन्तीति हानभागिया, हानभागो वा एतेसं अत्थीति हानभागिया, परिहानकोट्ठासिकाति अत्थो. इमिना नयेन ठितिभागियो वेदितब्बो. अट्ठमादीनि उत्तानत्थानेव.

सक्खिभब्बसुत्तादिवण्णना निट्ठिता.

देवतावग्गवण्णना निट्ठिता.